| YouTube Channel

शिवनाभिः (zivanAbhiH)

 
शब्दकल्पद्रुमः
Sanskrit
शिवनाभिः,
पुं,
(शिवस्य नाभिरिव ।) शिवलिङ्ग-विशेषः यथा, --“उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् ।चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तकम्
उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः ।तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम्
शिवनाभिमयं लिङ्गं प्रतिपूज्य महर्षिभिः ।श्रेष्ठञ्च सर्व्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः
”इति वीरमित्रोदयः