| YouTube Channel

शिवः (zivaH)

 
Apte Hindi
Hindi
शिवः
पुं*
- -
हिन्दुओं के तीन प्रधान देवताओं (त्रिमूर्ति) में से तीसरा देव जिसका कार्य सृष्टि का संहार करना है
शिवः
पुं*
- -
"पुरुष की जननेन्द्रिय, शिश्न"
शिवः
पुं*
- -
शुभ ग्रहों का योग
शिवः
पुं*
- -
वेद
शिवः
पुं*
- -
मोक्ष
शिवः
पुं*
- -
पशुओं का बाँधने का खूँटा
शिवः
पुं*
- -
"सुर, देवता"
शिवः
पुं*
- -
पारा
शिवः
पुं*
- -
गुग्गल
शिवः
पुं*
- -
काला धतूरा
शिवः
पुं*
- -
हिन्दुओं के त्रिदेव में से तीसरा
शिवः
पुं*
- -
पारा
शिवः
पुं*
- -
"सुरा, स्पिरिट"
शिवः
पुं*
- -
समय
शिवः
पुं*
- -
"तक्र, छाछ"
Wordnet
Sanskrit
Synonyms:
पारदः, रसराजः, रसनाथः, महारसः, रसः, महातेजः, रसलेहः, रसोत्तमः, सूतराट्, चपलः, जैत्रः, रसेन्द्रः, शिवबीजः, शिवः, अमृतम्, लोकेशः, दुर्धरः, प्रभुः, रुद्रजः, हरतेजः, रसधातुः, अचिन्त्यजः, खेचरः, अमरः, देहदः, मृत्युनाशकः, सूतः, स्कन्दः, स्कन्दांशकः, देवः, दिव्यरसः, श्रेष्ठः, यशोदः, सूतकः, सिद्धधातुः, पारतः, हरबीजम्, रजस्वलः, शिववीर्यम्, शिवाह्वयः
noun
धातुविशेषः, क्रमिकुष्ठनाशकः ओजयुक्तः रसमयः धातुः।
"पारदः निखिलयोगवाहकः अस्ति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: शिवः
Root: शिव
Gender: पुं
Number: all
अर्थः आदिदेवेषु एकः - शिवः
Meaning(s):
Śiva
Shloka(s):
1|1|38|2 महेश्वरः पशुपतिः श्रीकण्ठः पांसुचदन्दनः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|39|1 शङ्करो गिरिशो रुद्रो गिरीशः शशिभूषणः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|39|2 महेश्वरचन्द्रमौलिः पिनाकी शशिशेखरः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|40|1 कर्पदी धूर्जटीः शर्वः कपाली नीललोहितः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|40|2 ईश ईश्वर ईशानो भर्गो मृत्युञ्जयो मृडः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|41|1 व्योमकेशो महादेवः प्रमथाधिपतिः शिवः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|41|2 शूली दक्षाध्वरारातिः कामारिः परमेश्वरः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|42|1 कृतिवासा अहिर्बुघ्न्यो नीलग्रीवस्त्रिलोचनः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|42|2 गङ्गाधरो विरूपाक्षो वामदेवो वृषध्वजः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|43|1 भूतेशः खण्डपरशुः स्थाणुरन्धकसूदनः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|43|2 भगनेत्रान्तको भीमस्त्रिपुरारिर्दृगायुधः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|44|1 कटाटङ्को जटाटीरो जटाझाटो महानटः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|44|2 झिण्डीकान्तो रेरिहाणः सर्वज्ञो नन्दिवर्धनः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|45|1 स्थालो डिण्डीश उड्डीशः कण्ठेकालो महाव्रतः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|45|2 कृतानुरेता जोटिङ्गः कङ्कटीक उमापतिः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|46|1 खट्वाङ्गी मन्दरमणिरुलन्दो वृषवाहनः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|46|2 उग्रः कटप्रर्दिग्वासा झाण्डः षाण्डोऽकृतश्चनः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|47|1 बहुरूपोऽर्धमकुटो दशबाहुर्दशाव्ययः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|38|2 महेश्वरः (महेश्वर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|38|2 पशुपतिः (पशुपति) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|38|2 श्रीकण्ठः (श्रीकण्ठ) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|38|2 पांसुचन्दनः (पांसुचन्दन) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|1 शङ्करः (शङ्कर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|1 गिरिशः (गिरिश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|1 रुद्रः (रुद्र) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|1 गिरीशः (गिरीश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|1 शशिभूषणः (शशिभूषण) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|2 भद्रेश्वरः (भद्रेश्वर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|2 चन्द्रमौलिः (चन्द्रमौलि) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|2 पिनाकी (पिनाकिन्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|39|2 शशिशेखरः (शशिशेखर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|1 कपर्दी (कपर्दिन्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|1 धूर्जटिः (धूर्जटि) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|1 शर्वः (शर्व) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|1 कपाली (कपालिन्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|1 नीललोहितः (नीललोहित) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|2 ईशः (ईश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|2 ईश्वरः (ईश्वर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|2 ईशानः (ईशान) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|2 भर्गः (भर्ग) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|2 मृत्युञ्जयः (मृत्युञ्जय) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|40|2 मृडः (मृड) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|1 व्योमकेशः (व्योमकेश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|1 महादेवः (महादेव) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|1 प्रमथाधिपतिः (प्रमथाधिपति) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|1 शिवः (शिव) (पुं) Śiva आदिदेवेषु एकः - शिवः
1|1|41|2 शूली (शूलिन्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|2 दक्षाध्वरारातिः (दक्षाध्वराराति) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|2 कामारिः (कामारि) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|41|2 परमेश्वरः (परमेश्वर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|1 कृत्तिवासः (कृत्तिवासस्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|1 अहिर्बुध्न्यः (अहिर्बुध्न्य) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|1 नीलग्रीवः (नीलग्रीव) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|1 त्रिलोचनः (त्रिलोचन) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|2 गङ्गाधरः (गङ्गाधर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|2 विरूपाक्षः (विरूपाक्ष) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|2 वामदेवः (वामदेव) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|42|2 वृषध्वजः (वृषध्वज) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|1 भूतेशः (भूतेश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|1 खण्डपरशुः (खण्डपरशु) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|1 स्थाणुः (स्थाणु) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|1 अन्धकसूदनः (अन्धकसूदन) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|2 भगनेत्रान्तकः (भगनेत्रान्तक) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|2 भीमः (भीम) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|2 त्रिपुरारिः (त्रिपुरारि) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|43|2 दृगायुधः (दृगायुध) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|1 कटाटङ्कः (कटाटङ्क) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|1 जटाटीरः (जटाटीर) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|1 जटाझाटः (जटाझाट) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|1 महानटः (महानट) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|2 झिण्टीकान्तः (झिण्टीकान्त) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|2 रेरिहाणः (रेरिहाण) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|2 सर्वज्ञः (सर्वज्ञ) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|44|2 नन्दिवर्धनः (नन्दिवर्धन) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|1 स्थालः (स्थाल) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|1 डिण्डीशः (डिण्डीश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|1 उड्डीशः (उड्डीश) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|1 कण्ठकालः (कण्ठकाल) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|1 महाव्रतः (महाव्रत) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|2 कृशानुरेतः (कृशानुरेतस्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|2 जोटिङ्गः (जोटिङ्ग) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|2 कङ्कटीकः (कङ्कटीक) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|45|2 उमापतिः (उमापति) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|1 खट्वाङ्गी (खट्वाङ्गिन्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|1 मन्दरमणिः (मन्दरमणि) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|1 उलन्दः (उलन्द) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|1 वृषवाहनः (वृषवाहन) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|2 उग्रः (उग्र) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|2 कटप्रूः (कटप्रू) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|2 दिग्वासः (दिग्वासस्) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|2 झाण्डः (झाण्ड) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|2 षाण्डः (षाण्ड) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|46|2 अकुतश्चनः (अकुतश्चन) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|47|1 बहुरूपः (बहुरूप) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|47|1 अर्धमुकुटः (अर्धमुकुट) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|47|1 दशबाहुः (दशबाहु) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
1|1|47|1 दशाव्ययः (दशाव्यय) (पुं) Epithet of Śiva आदिदेवेषु एकः - शिवः
Related word(s):
परा_अपरासंबन्धः देवः
जातिः ईश्वरः
धर्म-धर्मी-भावः स्रष्ट्रत्वम्
गुण-गुणी-भावः सुखा
जन्य_जनकसंबन्धः विघ्नेशः
स्व_स्वामीसंबन्धः सुखङ्घुणः
पति_पत्नीसंबन्धः पार्वती
Tamil
Tamil
சி’வ: : சிவன், வேதம், மோக்ஷம், ஆண்குறி, தேவதை, பாதரசம், கட்டுமுளை, குங்கிலியம், கோள்களின் நல்ல சேர்க்கை.
अमरकोशः
Sanskrit
Word: शिवः
Root: शिव
Gender: पुं
Number: all
Meaning(s):
kind
benign
gracious
friendly
benignant
favourable
Shloka(s):
1|1|30|1 शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। (स्वर्गवर्गः)
1|1|30|2 ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः॥ (स्वर्गवर्गः)
1|1|31|1 भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः। (स्वर्गवर्गः)
1|1|31|2 मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥ (स्वर्गवर्गः)
1|1|32|1 उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत्। (स्वर्गवर्गः)
1|1|32|2 वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः॥ (स्वर्गवर्गः)
1|1|33|1 कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः। (स्वर्गवर्गः)
1|1|33|2 हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः॥ (स्वर्गवर्गः)
1|1|34|1 गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः। (स्वर्गवर्गः)
1|1|34|2 व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः। (स्वर्गवर्गः)
1|1|34|3 अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः॥ (स्वर्गवर्गः)
3|3|30|2 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥ (नानार्थवर्गः)
3|3|34|2 शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे॥ (नानार्थवर्गः)
3|3|40|1 पटुर्द्वौ वाच्यलिङ्गौ नीलकण्ठः शिवेऽपि च। (नानार्थवर्गः)
3|3|130|1 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। (नानार्थवर्गः)
Synonym(s):
1|1|30|1 शम्भुः (शम्भु) (पुं) kind, helpful, beneficent, benevolent, name of viSNu, kind of metre, name of a son of viSNu, granting or causing happiness, kind of milkweed [Asclepias - Bot.], being or existing for happiness or welfare
1|1|30|1 ईशः (ईश) (पुं) Siva, lord, rudra, master, owning, sharing, supreme, husband, a ruler, powerful, capable of, number eleven, one who is completely master of anything
1|1|30|1 पशुपतिः (पशुपति) (पुं) of ziva, lord of animals, name of a oliast, of a lexicographer, name of god of fire
1|1|30|1 शिवः (शिव) (पुं) kind, benign, gracious, friendly, benignant, favourable
1|1|30|1 शूली (शूलिन्) (पुं) Siva, hare, lancer, spearman, armed with a spear, possessing a spear, having a dart or pike, one who suffers from sharp internal pain, one who suffers from sharp internal pain or from colic
1|1|30|1 महेश्वरः (महेश्वर) (पुं) god, chief, sovereign, great lord, resin of Guggul tree [Commiphora wightii - Bot.]
1|1|30|2 ईश्वरः (ईश्वर) (पुं) god, king, ziva, lord, queen, ruler, liable, prince, husband, capable of, able to do, exposed to, god of love, supreme soul, number eleven, Supreme Being, one of the rudras
1|1|30|2 शर्वः (शर्व) (पुं)
1|1|30|2 ईशानः (ईशान) (पुं) lord, ruler, owning, master, wealthy, reigning, possessing, one of the rudras, the sun as a form of ziva, one of the older names of ziva-rudra
1|1|30|2 शङ्करः (शङ्कर) (पुं) beneficent, auspicious, causing prosperity, particular rAga or musical mode
1|1|30|2 चन्द्रशेखरः (चन्द्रशेखर) (पुं)
1|1|31|1 भूतेशः (भूतेश) (पुं) of the Sun, lord of beings, lord of evil beings
1|1|31|1 खण्डपरशुः (खण्डपरशु) (पुं)
1|1|31|1 गिरीशः (गिरीश) (पुं) ziva, mountain-lord, high mountain, lord of speech, one of the 11 rudras
1|1|31|1 गिरिशः (गिरिश) (पुं)
1|1|31|1 मृडः (मृड) (पुं)
1|1|31|2 मृत्युञ्जयः (मृत्युञ्जय) (पुं)
1|1|31|2 कृत्तिवासः (कृत्तिवासस्) (पुं)
1|1|31|2 पिनाकी (पिनाकिन्) (पुं) name of one of the 11 rudras, armed with the bow or spear pinAka
1|1|31|2 प्रमथाधिपः (प्रमथाधिप) (पुं) name of gaNeza deity, ruler of the Pramathas
1|1|32|1 उग्रः (उग्र) (पुं) hot, high, huge, cruel, angry, noble, sharp, acrid, strong, savage, severe, mighty, strict, fierce, furious, violent, pungent, radical, terrible, gruesome, wrathful, powerful, ferocious, impetuous, passionate, formidable, group of asterisms, drumstick tree [Hyperanthera Moringa - Bot.], twice-born man who perpetrates dreadful deeds
1|1|32|1 कपर्दी (कपर्दिन्) (पुं)
1|1|32|1 श्रीकण्ठः (श्रीकण्ठ) (पुं)
1|1|32|1 शितिकण्ठः (शितिकण्ठ) (पुं) peacock, gallinule, dark-necked, white-necked, particular bird of prey
1|1|32|1 कपालभृत् (कपालभृत्) (पुं)
1|1|32|2 वामदेवः (वामदेव) (पुं)
1|1|32|2 महादेवः (महादेव) (पुं) great deity, of a mountain, name of viSNu, name of one of the 8 forms of rudra or ziva
1|1|32|2 विरूपाक्षः (विरूपाक्ष) (पुं) diversely-eyed, having deformed eyes, having various occupations
1|1|32|2 त्रिलोचनः (त्रिलोचन) (पुं)
1|1|33|1 कृशानुरेतः (कृशानुरेतस्) (पुं)
1|1|33|1 सर्वज्ञः (सर्वज्ञ) (पुं)
1|1|33|1 धूर्जटिः (धूर्जटि) (पुं)
1|1|33|1 नीललोहितः (नीललोहित) (पुं) purple, violet, dark-red, purple colour, dark-blue and red, mixture of blue and red
1|1|33|2 हरः (हर) (पुं) ass, fire, seizer, taking, bearing, divisor, wearing, stallion, division, carrying, bringing, removing, receiving, ravishing, obtaining, destroyer, conveying, destroying, captivating, taking away, carrying off, denominator of a fraction, denominator [Arith., Alg.]
1|1|33|2 स्मरहरः (स्मरहर) (पुं)
1|1|33|2 भर्गः (भर्ग) (पुं)
1|1|33|2 त्र्यम्बकः (त्र्यम्बक) (पुं) are offered, cake offering ceremony, three-eyed rudra or ziva, cakes sacred to rudra tryambaka, knowing the 3 Vedas or pervading the 3 worlds
1|1|33|2 त्रिपुरान्तकः (त्रिपुरान्तक) (पुं)
1|1|34|1 गङ्गाधरः (गङ्गाधर) (पुं)
1|1|34|1 अन्धकरिपुः (अन्धकरिपु) (पुं)
1|1|34|1 क्रतुध्वंसी (क्रतुध्वंसिन्) (पुं)
1|1|34|1 वृषध्वजः (वृषध्वज) (पुं) virtuous man, having a rat for a sign, having virtue for a mark
1|1|34|2 व्योमकेशः (व्योमकेश) (पुं)
1|1|34|2 भवः (भव) (पुं)
1|1|34|2 भीमः (भीम) (पुं) awful, fearful, awesome, terrible, dreadful, terrific, tremendous, frightening, race of bhIma, terrible awful formidable, Bladderdock [Rumex Vesicarius - Bot.]
1|1|34|2 स्थाणुः (स्थाणु) (पुं) stem, pile, post, firm, fixed, stake, trunk, pillar, immovable, stationary, motionless, stub [tree], stump [tree], name of Shiva, standing firmly, gnomon of a dial, nest of white ants, particular perfume, kind of spear or dart, particular part of a plough
1|1|34|2 रुद्रः (रुद्र) (पुं) rudra and rudrANI, rudras or sons of rudra
1|1|34|2 उमापतिः (उमापति) (पुं)
1|1|34|3 अहिर्बुध्न्यः (अहिर्बुध्न्य) (पुं)
1|1|34|3 अष्टमूर्तिः (अष्टमूर्ति) (पुं)
1|1|34|3 गजारिः (गजारि) (पुं)
1|1|34|3 महानटः (महानट) (पुं)
3|3|30|2 अजः (अज) (पुं) goat, troop, mover, unborn, driver, leader, not born, instigator, beam of the sun
3|3|34|2 शिपिविष्टः (शिपिविष्ट) (पुं) superfluous, bald-headed, pervaded by rays, leprous or having no prepuce
3|3|40|1 नीलकण्ठः (नीलकण्ठ) (पुं) sparrow, wagtail, blue-necked, blue-necked jay, species of plant, Indian crane [ Ardea Sibirica - Zoo. ], peacock a species of gallinule or water-hen
3|3|130|1 वृषाकपिः (वृषाकपि) (पुं)
Related word(s):
परा_अपरासंबन्धः देवः
जन्य_जनकसंबन्धः गणेशः
जातिः ईश्वरः
अन्यसंबन्धाः सिद्धिः
स्व_स्वामीसंबन्धः शिवानुचरः
पति_पत्नीसंबन्धः पार्वती
अवयव_अवयवीसंबन्धः शिवस्य_जटाबन्धः
गुण-गुणी-भावः सिद्धिः
शब्दकल्पद्रुमः
Sanskrit
शिवः,
पुं,
(शी + “सर्वनिघृष्वेति ।” उणा० १५३इति वन्प्रत्ययेन साधुः ।) ब्रह्मणः संज्ञाविशेषः ।तस्य व्युत्पत्तिर्यथा शिवं कल्याणं विद्यतेऽस्यशिवः श्यति अशुभमिति वा शेरतेऽवतिष्ठन्तेअणिमादयोऽष्टौ गुणा अस्मिन् इति वा शिवः ।इत्यमरटीकायां भरतः
तत्पर्य्यायः शम्भुः २ईशः पशुपतिः शूली महेश्वरः ईश्वरः७ सर्व्वः ईशानः शङ्करः १० चन्द्रशेखरः११ भूतेशः १२ खण्डपरशुः १३ गिरीशः १४गिरिशः १५ मृडः १६ मृत्युञ्जयः १७ कृत्ति-वासाः १८ पिनाकी १९ प्रमथाधिपः २० उग्रः २१कपर्द्दी २२ श्रीकण्ठः २३ शितिकण्ठः २४कपालभृत् २५ वामदेवः २६ महादेवः २७विरूपाक्षः २८ त्रिलोचनः २९ कृशानरेताः ३०सर्व्वज्ञः ३१ धूर्ज्जटिः ३२ नीललोहितः ३३हरः ३४ स्मरहरः ३५ भर्गः ३६ त्र्यम्बकः ३७त्रिपुरान्तकः ३८ गङ्गाधरः ३९ अन्धकरिपुः ४०क्रतुध्वंसी ४१ वृषध्वजः ४२ व्योमकेशः ४३भवः ४४ भीमः ४५ स्थाणुः ४६ रुद्रः ४७उमापतिः ४८ इत्यमरः
वृषपर्व्वा ४९रेरिहाणः ५० भगाली ५१ पांशुचन्दनः ५२दिगम्बरः ५३ अट्टहासः ५४ कालञ्जरः ५५पुरद्विट् ५६ वृषाकपिः ५७ महाकालः ५८वराकः ५९ नन्दिवर्द्धनः ६० हीरः ६१ वीरः ६२खरुः ६३ भूरिः ६४ कटप्रूः ६५ भैरवः ६६ध्रुवः ६७ शिविपिष्टः ६८ गुडाकेशः ६९ देव-देवः ७० महानटः ७१ इति जटाधरः
तीव्रः ७२ खण्डपर्शुः ७३ पञ्चाननः ७४ कण्ठे-कालः ७५ भरुः ७६ भीरुः ७७ भीषणः ७८कङ्कालमाली ७९ जटाधरः ८० व्योमदेवः ८१सिद्धदेवः ८२ धरणीश्वरः ८३ विश्वेशः ८४जयन्तः ८५ हररूपः ८६ सन्ध्यानाटी ८७सुप्रसादः ८८ चन्द्रापीडः ८९ शूलधरः ९०वृषाङ्कः ९१ वृषभध्वजः ९२ भूतनाथः ९३शिपिविष्टः ९४ वरेश्वरः ९५ विश्वेश्वरः ९६बिश्वनाथः ९७ काशीनाथः ९८ कुलेश्वरः ९९अस्थिमाली १०० विशालाक्षः १०१ हिण्डी १०२प्रियतमः १०३ विषमाक्षः १०४ भद्रः १०५ऊर्द्ध्वरेताः १०६ यमान्तकः १०७ नन्दीश्वरः १०८अष्टमूर्त्तिः १०९ अर्घीशः ११० खेचरः १११भृङ्गीशः ११२ अर्द्धनारीशः ११३ रसनायकः ११४ ।इति शब्दरत्नावली
उः ११५ पिनाक-पाणिः ११६ फणधरधरः ११७ कैलासनिके-तनः ११८ हिमाद्रितनयापतिः ११९ इतिकविकल्पलता
तस्य सहस्रनामानि श्रीमहा-भारते अनुशासनपर्वणि १७ अध्याये द्रष्ट-व्यानि
*
अस्य कपालिनामककारणं यथा, --ईश्वर उवाच ।“आसीत्तत्र वरारोहे ब्रह्मणस्तु शिरोऽपरम् ।पञ्चमं शृणु सुश्रोणि जातं काञ्चनसुप्रभम्
ज्वलन्तं परमं शीर्षं जातं तस्य महात्मनः ।स एवमब्रवीद्देवि ! जन्म जानामि ते ह्यहम्
अतः क्रोधपरीतेन संरक्तनयनेन ।वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया
ब्रह्मोवाच ।यस्मादनपराधेन शिरश्छिन्नं त्वया मम ।तस्माच्छापसमायुक्तः कपालीत्वं भविष्यसि
”इति मात्स्ये १८५ अध्यायः
*
अथ शिवमन्त्राः तत्र एकाक्षरमन्त्रो यथा, --“सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् ।प्रासादाख्यो मनुः प्रोक्तो भजतां कामदोमणिः
हौ
*
अस्य पूजा प्रातःकत्यादिमातृकान्यासं प्राणा-यामञ्च विधाय श्रीकण्ठादिन्यासं मातृका-स्थानेषु कुर्य्यात् ततः सामान्यपूजापद्धत्युक्त-पीठन्यासं कृत्वा पीठशक्तीर्न्यसेत ततःऋष्यादिन्यामः ततः कराङ्गन्यासौ ततःईशानाद्याः पञ्चमूर्त्तीर्न्यसेत् शूद्रस्तु एतत्पर्य्यन्तंन्यासं कृत्वा ध्यायेत् अन्यत्रानधिकारात् ।तत ऊर्द्ध्वप्राग् दक्षिणोत्तरपश्चिमेषु मुखेषु ईशा-नस्य पञ्चकलाः पञ्च ब्रह्म ऋचः पदादिकाःप्रणावाद्या नमोऽन्ता न्यसेत् ततः पूर्वपश्चिम-दक्षिणोत्तरेषु तत्पुरुषस्य चतस्रः कला विन्य-सेत् ततो हृदये ग्रीवायां अंशद्वये नाभौकुक्षौ पृष्ठे वक्षसि अघोरस्याष्टौ कलाः न्यसेत् ।ततो गुह्ये अण्डकोषे ऊरुद्वये जानुद्वये जङ्घा-द्वये कुक्षिद्वये कट्यां पार्श्वयोः वामदेवस्यत्रयोदशकलाः विन्यसेत् ततः पार्श्वयोःस्तनयोर्नासिकायां मूर्द्ध्नि बाहुयुग्मे सद्योजातस्याष्टौ कला न्यसेत् ततः पञ्चाङ्गुलीषुईशानाद्याः पञ्च ऋचो न्यसेत् एवं मूर्द्धास्यहृदयगुह्यपादेष्वेता ऋचो न्यसेत् ततोऽङ्ग-न्यासान्तरं कुर्य्यात् एवं विन्यस्य ध्यायेत् ।“मुक्तापीतपयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभि-स्त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटि-प्रभम् ।शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान्पाशं भीतिहरं दधानममिताकल्पोज्ज्वलाङ्गंभजे
”एवं ध्यात्वा मानसैः संपृज्य अर्घ्यस्थापनं कृत्वाशैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाह-नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण-पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा-पयेत् अस्य पुरश्चरणं पञ्चलक्षजपः
*
अस्याष्टाक्षरमन्त्रो यथा, --“षडक्षरः शक्तिरुद्धः कथितोऽष्टाक्षरो मनुः
”ह्रोँ ओँ नमः शिवाय ह्रीँ अस्य पूजा प्रातः-कृत्यादिशैवोक्तं पीठमन्वन्तं न्यासं विधायऋष्यादिन्यासकराङ्गन्यासान् प्राणायामञ्च कृत्वाध्यायेत् ।“बन्धुकाभं त्रिनेत्रं शशिशकलधरं स्मेरवक्त्रं वहन्तंहस्तैः शूलं कपालं वरदमभयदं चारुहासंभजामि ।वामोरूस्तम्भगायाः करतलविलसच्चारुरक्तोत्-पलायाहस्तेनाश्लिष्टदेहं मणिमयविलसद्भूषणायाःप्रियायाः
”एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वाशैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाह्य पञ्च-पुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजां कृत्वाधूपदानादिविसर्ज्जनान्तं कर्म्म समापयेत् अस्यपुरश्चरणं चतुर्द्दशलक्षजपः
*
तस्या-ष्टाक्षरमन्त्रान्तरं यथा, --“तारो माया वियद्बिन्दुमनुस्वारविभूषितम् ।पञ्चाक्षरममायुक्तो वसुवर्णो मनुर्म्मतः
”ओँ ह्रीँ हौँ नमःशिवाय अस्य पूजा प्रातः-कृत्यादिशैवोक्तपीठन्यासान्तं विधाय पूर्ववदृष्या-दिन्यासं कराङ्गन्यासौ कृत्वा ध्यायेत् ।“वन्दे सिन्दूरवर्णं मणिमुकुटलसच्चारुचन्द्रावतंसंभालोद्यन्नेतमीशं स्मितमुखकमलं दिव्यभूषाङ्ग-रागम् ।वामोरुन्यस्तपाणेररुणकुवलयं संदधत्याःप्रियाया-श्चण्डोत्तुङ्गस्तनाग्रे न्निहितकरतटं वेदटङ्केऽष्ट-हस्तम्
”एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वापीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्चपुष्पा-ञ्जलिदानपर्य्यन्तं विधाय आवरणपूजां कृत्वाधूपादिविसर्ज्जनान्तं कर्म्म समापयेत् अस्यपुरश्चरणमष्टलक्षजपः
*
अथास्य मृत्यु-ञ्जयाख्यमन्त्रः ।“तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः ।त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः
”ओँ जुँ सः अस्य पूजा प्रातःकृत्यादिशैवोक्त-पीठन्यासान्तं विधाय ऋष्यादिन्यासं कराङ्ग-न्यासौ कृत्वा ध्यायेत् ।“चन्द्रार्क्काग्निविलोचनं स्मितमुखं पद्मद्वयन्तः-स्थितंमुद्रापाशमृगाक्षसूत्रविलसत्प्राणिं हिमांशु-प्रभम् ।कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलंकान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयंभावये
”एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वापीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वावाह-नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण-पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा-पयेत् अस्य पुरश्चरणं लक्षत्रयजपः
*
अथास्यापरद्वादशाक्षरमृत्युञ्जयमन्त्रः ।“मृत्युञ्जयं समुच्चार्य्य पालय द्वितयं वदेत् ।मृत्युञ्जयं समुच्चार्य्य पुनरेव विलोमतः
द्वादशाक्षरोऽयं मन्त्रः स्यात् मृत्युञ्जयाभिधो-ऽपरः ।”ओँ जुँ सः पालय पालय ओँ जुँ सः अस्यध्यानपूजादिकं सर्वं पूर्ववत्
*
अस्यद्वाविंशत्यक्षरमन्त्रः ।“प्रणवो हृदयं पश्चात् ततो भगवते पदम् ।ङेऽन्तञ्च दक्षिणामूर्त्तिं मह्यं मेधामुदीरयेत् ।प्रयच्छ ठद्वयान्तोऽयं द्वाविंशत्यक्षरो मनुः
”ओँ नमो भगवते दक्षिणामूर्त्तये मह्यं मेघांप्रयच्छ स्वाहा अस्य पूजा प्रातःकृत्यादि-शैवोक्तपीठमन्वन्तं विन्यस्य ऋष्यादिन्यासंकराङ्गन्यासौ कृत्वा ध्यायेत् ।“वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्वलम् ।गारुत्मतमयैः पत्रैर्विचित्रैरुपशोभितम्
नवरत्नमहाकल्पैर्लम्बमानैरलङ्कृतम् ।विचिन्त्य वटमूलस्थं चिन्तयेल्लोकनायकम्
स्फटिकरजतवर्णन्मौक्तिकीमक्षमाला-ममृतकलसविद्याज्ञानमुद्राः कराब्जैः ।दधतमुरगकक्षं चन्द्रचूडं त्रिनेत्रंविधृतविविधभूषं दक्षिणामूर्त्तिमीडे
”एवं ध्यात्वा मानसैः सम्पूज्य अर्घ्यस्थापनादि-शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि-पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजांकृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणं लक्षजपः
*
अथास्यमन्त्रान्तरम् ।“अग्निसम्बर्त्तकादित्यरानिलौ षष्ठबिन्दुमत् ।चिन्तामणिरिति ख्यातं बीजं सर्व्वसमृद्धिदम्
”र-क्ष म-र य-औ ऊँ
प्रपञ्चसारे ।“अनलक-ष-मरेफ-प्राणसत्यान्तवाम-श्रुतिहिमरुचिखण्डैर्म्मण्डितो मन्त्रराजः ।”अस्य पूजा प्रातःकृत्यादिशैवोक्तपीठमन्वन्तंविन्यस्य ऋष्यादिन्यासं कराङ्गन्यासौ कृत्वाध्यायेत् ।“नीलप्रबालरुचिरं विलसत्त्रिनेत्रंपाशारुणोत्पलकपालकशूलहस्तम् ।अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषंबालेन्दुबद्धमुकुटं प्रणमामि रूपम्
”एवं ध्यात्वा मानसैः संपूज्यार्घ्यं संस्थाप्यशैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि-पञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरणपूजांविधाय धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणं लक्षजपः अयं अर्द्धनारी-श्वरः
*
“पार्श्वो वह्निसमारूढस्तारवानाद्यमीरितम् ।धान्तो वह्निसमारूढस्तूर्य्यस्वरसमन्वितः
बिन्दुमांस्तु द्वितीयः स्यात् टान्तः सर्गी तृती-यकः ।नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः
”प्रमाणान्तरम् ।“लोहितोऽग्न्यासनः सत्यो बिन्दुमान् प्रयपुनः ।द्वितीया वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता
तृतीया लाङ्गली सर्गी मन्त्रो बीजत्रयात्मकः ।नीलकण्ठात्मको मन्त्रो विषद्वयहरः परः
”प्रोँ न्रीँ ठः इति मन्त्रः अस्य पूजा प्रातःकृत्यादिशैवोक्तपीठन्यासान्तं कृत्वा ऋष्यादि-न्यासं कराङ्गन्यासौ विधाय ध्यानं कुर्य्यात् ।“बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलंनागेन्द्रैः कृतशेखरं जपवटीं शूलं कपालंकरैः ।खट्टाङ्गं विधृतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरंव्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठंभजे
”एवं ध्यात्वा मानसैः संपूज्य अर्घ्यस्थापनादि-शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वा आवाह-नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं कृत्वा आवरण-पूजां विधाय धूपादिविसर्ज्जनान्तं कर्म्म समा-पयेत् अस्य पुरश्चरणं त्रिलक्षजपः अयंनीलकण्ठः
*
अस्याष्टाक्षरमन्त्रो यथा--“तारो हृन्नीलकण्ठाय मन्त्रश्चाष्टाक्षरः परम् ।ओँ नमो नीलकण्ठाय अस्य पूजादिकं सर्व्वंपूर्व्ववत्
*
अस्य पञ्चाक्षरमन्त्रः षड-क्षरमन्त्रश्च यथा, --“हृदयं वपरं साक्षिन् लान्तोऽनन्तान्वितोमरुत् ।पञ्चाक्षरो मनुः प्रोक्तस्ताराद्योऽयं षडक्षरः
”नमः शिवाय ओँ नमः शिवाय अस्य पूजा ।प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं न्यासं विधायऋष्यादिन्यासं कुर्य्यात् ततो मूर्त्तिन्यासः ।ततः कराङ्गन्यासौ ततो गोलकन्यासः ततोव्यापकन्यासं प्राणायामञ्च कृत्वा ध्यायेत् ।“ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रा-वतंसंरत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तप्रसन्नम् ।पद्मासीनं समन्तात् स्तुतममरगणेर्व्याघ्रकृत्तिंवसानंविश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रंत्रिनैत्रम्
”एवं ध्यात्वा मानसैः सम्पूज्यार्घ्यस्थापनं कृत्वाशैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादि-पञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधायावरणपूजांकृत्वा धूपादिविसर्ज्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणं षट्त्रिंशल्लक्षजपः
१०
*
अथास्य त्र्यक्षरमन्त्रः ।“अर्घोशो वह्निशिखरो लान्तस्थो दान्त ईरीतःफडन्तश्चण्डमन्त्रोऽयं त्रिवर्णात्मा समीरितः
”ऊर्द्ध्व फट् इति मन्त्रः अस्य पूजा प्रातः-कृत्यादिशैवोक्तपीठन्यासान्तं विधाय ऋष्यादि-न्यासं कराङ्गन्यासौ कृत्वा ध्यायेत् ।“चण्डेश्वरं रक्ततनुं त्रिनेत्रंरक्तांशुकाढ्यं हृदि भावयामि ।टङ्कं त्रिशूलं स्फटिकाक्षमालांकमण्डलुं विभ्रतमिन्दुचूडम्
”एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनादिशैवोक्तपीठपूजान्तं विधाय ठमिति बीजेन मूर्त्तिंसंकल्प्य पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदान-पर्य्यन्तं विधायावरणपूजां कृत्वा धूपादिविसर्ज्ज-नान्तं कर्म्म समापयेत् अस्य पुरश्चरणंत्रिलक्षजपः अयं चण्डेश्वरः
११
इतितन्त्रसारे शिवमन्त्राः
*
*
विष्णुशिवयोर-भेदो यथा, --वराह उवाच ।“शिवो मे दक्षिणं स्थानं तिष्ठते विगतज्वरः ।लोकानां प्रवरः श्रेष्ठः सर्व्वलोकवरो हरः
तं ये विन्दन्ति ते देवि ! नूनं मामेव विन्दति ।ये मां विन्दति देवेशि ! ते विन्दन्ति शिवंपरम्
अहं यत्र शिवस्तत्र शिवो यत्र वसुन्धरे ।अहं तत्रापि तिष्ठामि आवयोर्नान्तरं क्वचित्
शिवं यो वन्दते भूमे ! हि मामेव वन्दते ।लभते पुष्कलां सिद्धिमेवं यो वेत्ति तत्त्वतः
”इति वाराहे शालग्रामक्षेत्रमाहात्म्यवर्णननामा-ध्यायः
*
देवीविष्णुशिवानामभेदो यथा, --“अयं नारायणो गौरी जगन्माता सनातनः ।विभज्य संस्थितो देवः स्वात्मनं बहुधेश्वरः
मे विदुः परं मत्त्वं देवाद्या महर्षयः ।एकोऽयं देवदेवात्मा भवानी विष्णुरेव
अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहःमामेव केशवं देवमाहुर्देवीमथाम्बिकाम्
”इति कौर्म्मे १४ अध्यायः
*
शिवनिन्दानिषेधो यथा, --“परात् परतरं यान्ति नारायणपरा जनाः ।न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम्
ध्यानं होमस्तपस्तप्तं ज्ञानं यज्ञादिको विधिःतेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम्यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः ।विनिन्दन्देवमीशानं याति नरकायुतम्
तस्मात् सा परिहर्त्तव्या निन्दा पशुपतेर्द्विज ।कर्म्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः
”इति कौर्म्मे २५ अध्यायः
*
तस्य प्रलयकारकत्वं यथा, --“गते परार्द्धद्वितये काले लोकप्रकालकः ।कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलंमतिम
आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम्
तमावेश्य महादेवो भगवान्नीललोहितः ।करोति लोकसंहारं भीषणं लोकमाश्रितः
प्रविश्य मण्डलं घोरं कृत्वासौ बहुधा पुनः ।निर्द्दहत्यखिलं लोकं सप्तमूर्त्तिस्वरूपधृक्
दग्ध्वा सकलं सत्त्वमस्त्रं ब्रह्मशिरो महत् ।देवतानां शरीरेषु क्षिपत्यखिलदाहकः
दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा ।एषा सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिःशिवः कपालैर्द्देवानां कृतस्रग्वरभूषणः ।आदित्यचन्द्रादिगणैः पूरयन्रोममण्डलम्
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।सहस्रहस्तचरणः सहस्रार्च्चिर्म्महाभुजः
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।त्रिशूलं कृत्तिवसनो योगमैश्वरमास्थितः
पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् ।करोति ताण्डवं देवमालोक्य परमेश्वरः
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गला ।योगमास्थाय देवस्य देहमायाति शूलिनः
भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।याति स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम्संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु ।गुणैरनेकैः पृथिवी विलयं याति वारिषु
सवारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।तेजःस्वगुणसंयुक्तं वायौ संयाति संक्षयम्
आकाशे सगुणो वायुः प्रलयं याति संक्षयम् ।भूतादौ तथाकाशं लीयते गुणसंयुतम्
इन्द्रियाणि सर्वाणि तैजसे यान्ति संक्षयम् ।वैकारिके देवगणा प्रलयं यान्ति सत्तमाः
वैकारिकास्तेजसश्च भूतादिश्चेति सत्तमाः ।त्रिविधोऽयमहङ्कारो महते प्रलयं व्रजेत्
महान्तमेभिः सहितं ब्राह्मणममितौजसम् ।अव्यक्तं जगतो योनिः संहरेदेकमव्ययः
एवं संहृत्य भूतानि तत्त्वानि महेश्वरः ।वियोजयत्यथान्योन्यं प्रधानं पुरुषं परम्
प्रधानपुंसोरजयोरेष संहार ईरितः ।महेश्वरेच्छाजनितो स्वयं विद्यते लयः ।गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।प्रधानं जगतो योनिराद्यतत्त्वमचेतनम्
कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।गीयते मुनिभिः साक्षी महानेकः पितामहः
एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।प्रधानञ्च विशेषान्तं दहेद्रुद्र इति श्रुतिः
योगिनामथ सर्वेषां ज्ञानविन्यस्तचतसाम् ।आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः
”इति कौर्म्मे उपविभागे ४३ अध्यायः
*
ब्रह्मविष्णुशिवानामभेदो यथा, --श्रीभगवानुवाच ।“न ब्रह्मा भवतो भिन्नो शम्भुर्ब्रह्मणस्तथा ।न चाहं युवयोर्भिन्नो ह्यभिन्नत्वम् सनातनम्
प्रधानस्याप्रधानस्य भागाभागस्य रूपिणः ।ज्योतिर्म्मयस्य भागो मेऽनेकोऽनेकोऽहमंशकः
कस्त्वं कोऽहञ्च को ब्रह्मा ममैव परमात्मनः ।अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम्
चिन्तयन् स्वात्मनात्मानं सम्भवं कुरु चात्मनि ।एकत्वं ब्रह्मवैकुण्ठशम्भूनां हृद्गतं कुरु
शिरोग्रीवादिभेदेन यथैवैकस्य धर्म्मिणः ।अङ्गानि मे तथैकस्य भागत्रयमिदं हर
यज्ज्योतिरग्र्यं स्वपरप्रकाशंकूटस्थमव्यक्तमनन्तरूपम् ।नित्यञ्च दीर्घादिविशेषणाद्यै-र्हीनं परं तच्च वयं भिन्नाः
”इति कालिकापुराणे ११ अध्यायः
अपि ।“ततो ब्रह्मा शारीरं त्रिधा चक्रे महेश्वर ।प्रधानेच्छाबलाच्छम्भो त्रिगुणं त्रिगुणीकृतम्
तदूर्द्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः ।पद्मकेशरगौराङ्गकायो ब्रह्मा महेश्वर
तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भजः ।शङ्खचक्रगदापद्मपाणिः कायः वैष्णवः
अभवत्तदधोभागः पञ्चवक्त्रश्चतुर्भुजः ।स्फटिकाभ्रसमः कायः शुक्लः चन्द्रशेखरः
ईशस्ततो ब्रह्मकाये सृष्टिशक्तिं न्ययोजयत् ।स्वयमेवाभवत् सृष्टा ब्रह्मरूपेण लोकभृत्
स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययो-जयत् ।महेशो वैष्णवे काये ज्ञानशक्तिं निजां तथा
स्थितिकर्त्ता भवेद्विष्णुरहमेव महेश्वरः ।सर्व्वशक्तिनियोगेन सदा तदूपता मम
अन्तशक्तिं तथा काये शाम्भवे संन्ययोजयत् ।अन्तकर्त्ता भवेच्छम्भुः एव परमेश्वरः
ततस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ।ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः
सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ।ब्रह्मा विष्णुः शिवश्चेति संज्ञामपि पृथक् पृथक्
अतस्त्वञ्च विधाता तथाहमपि पृथक् ।एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरम्
”इति तत्रैव १२ अध्यायः
*
मार्कण्डेय उवाच ।“ततो ब्रह्माण्डसंस्थानं दर्शयामास शम्भवे ।ववृधे तोयराशिस्थ ब्रह्माण्डञ्च यथा पुरा
तन्मध्ये पद्मगर्भाभं ब्रह्माणं जगतः पतिम् ।ज्योतीरूपं प्रकाशार्थं सृष्ट्यर्थञ्च पृथग्गतम्शरीरिणं ददृशे ब्रह्माण्डान्तर्गतं मुहुः ।चतुर्भुजं प्रकाशन्तं ज्योतिर्भिः कमलासनम्
तत्रैव त्रिधाभूतं वपुर्ब्राह्म्यं ददर्श ।ऊर्द्ध्वमध्यान्तभागैस्तु ब्रह्मविष्णुशिवात्मकम्
अथोर्द्धभागो वपुषो ब्रह्मत्वमगमत्तथा ।मध्यस्तदा विष्णुभूतो ददर्शान्तस्य शम्भुताम्
एकमेव शरीरन्तु त्रिधाभूतं मुहुर्म्मुहुः ।हरो ददर्श स्वे गर्भे तथा सर्वमिदं जगत्
कदाचित् वैष्णवं कायं ब्राह्म्ये काये लयं ब्रजेत् ।ब्राह्म्यं तथा वैष्णवे शाम्भवं वैष्णवे तथा
शाम्भवं वैष्णवे काये ब्राह्म्ये चाप्यथ शाम्भवम् ।गच्छन्तं लीनतां शम्भुरेकताञ्च मुहुर्म्मुहुः
ददर्श वामदेवोऽपि भिन्नञ्चाप्यपृथग्गतम् ।परमात्मनि गच्छन्तं लीनतां तद्वपुश्च यत्
”इति कालिकापुराणे १३ अध्यायः
*
अस्य शरभरूपधारणकारणं यथा, --“इति तेषां निगदतां श्रुत्वा वाक्यं जनार्द्दनः ।उवाच शङ्करं देवं ब्रह्माणञ्च विशेषतः
यत्कृते देवताः सर्व्वाः प्रजाश्च सकला इमाः ।प्राप्नुवन्ति महद्दुःखं शीर्य्यते सकलं जगत्
वाराहं सकलं कायं त्यक्तुमिच्छामि शङ्करः ।त्वं त्याजयस्व तत् कायं यत्नात्मा शङ्कराधुना
त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्वरहरं मुहुः ।आप्यायन्तु तदा देवाः शङ्करो हन्तु पोत्रिणम्
वासुदेवोऽपि तान् सर्व्वान् विसृज्य त्रिदशां-स्तदा ।वाराहं तेजसा हर्त्तुं स्वयं ध्यानपरोऽभवत्
शनैः शनैर्यदा तेज आहरत्येष माधवः ।तदा देहन्तु वाराहं सत्त्वहीनं व्यजायत
तेजोहीनं यदा देहं ज्ञातं सर्व्वैरथामरैः ।आससाद महादेवो यज्ञवाराहमद्भुतम्
ब्रह्माद्यास्त्रिदशाः सर्व्वे महादेवमुपापतिम् ।अनुजग्मुस्तदा तेज आधातुं स्मरनाशने
ततः सर्व्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे ।आदधे तेन बलवान् सोऽतीव समजायत
ततः शरभरूपी तत्क्षणाद्गिरिशोऽभवत् ।ऊर्द्धाधोभागतश्चाष्टपादयुक्तः सुभैरवः ।द्विलक्षयोजनोच्छ्रायः सार्द्धलक्षकविस्मृतः
”इति कालिकापुराणे २९ अध्यायः
अस्य विवाहो यथा, --ईश्वर डवाच ।“हिताय सर्व्वजगतां सम्भोगायात्मनस्तथा ।दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये
साहाय्यं तत्र कुर्वन्तु भवन्तो मम सांप्रतम् ।मदर्थे तनयां कालीं याचन्तान्तु हिमाचलम्
मार्कण्डेय उवाच ।हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् ।तेन संपूजितास्ते तु प्रोचुस्ते मुनयो गिरिम्
यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः ।शापानुग्रहणे शक्तो एको जगतां पतिः
यः संहरति सर्व्वाणि जगन्ति प्रलयोद्भवे ।यो विभूतिप्रदो भक्ते नानारूपो मनोहरः
ते दुहितरं कालीं भार्य्यामादातुमिच्छति ।यदि पश्यति त्वद्योग्यं वरं त्वं दुहितुः समम् ।तदा प्रयच्छ तनयां कालीं शशिभृते गिरे
मार्कण्डेय उवाच ।इत्युक्तस्तैर्गिरिपतिर्वरं यद्धृदयस्थितम् ।दुहितुश्च प्रियं ज्ञात्वा प्राप्यं मुदमगात्तदा
दास्यामि सम्भवे पुत्त्रीं युष्माभिः प्रार्थित-स्त्वहम् ।पूर्व्वमेव तपस्तप्त्वा तयेशः पतिरीहितः
धातुर्नियोजनमिदं कोऽन्याथा कर्त्तुमुत्सहेत् ।कोऽन्यः प्रार्थयितुं शक्तः सुतां मम विनाहरात्
हरेणानुगृहीता या तामन्यः कः समुत्सहेत् ।हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति
इत्युक्त्वा मेनया सार्द्धं सुतां दातुञ्च शम्भवे ।अङ्गीकृत्य विसृष्टास्ते मुनयोऽगुर्महेश्वरम्
ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः ।शैलराजो यदाचष्ट तदूचुर्मदनारये
हिमवांस्तनयां दातुं तुभ्यमुत्सहते हर ।यदिदानीं त्वया कर्त्तुं युज्यते क्रियतान्तु तत्
अस्मांश्चाप्पनुजानीहि हर गन्तुं निजास्पदम् ।सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्ट-वान्
यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन्
कालीविवाहदिवसे यूयमायात मां प्रति ।इति चापि हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः
अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् ।समयं कारयामास विवाहाय हरो गिरिम्
माधवे मासि पञ्चम्यां सितपक्षे गुरोर्द्दिने ।चन्द्रे चोत्तरफल्गुन्यां भरण्यादौ स्थिते रवौ
आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः ।हरेण चिन्तिताः सर्व्वे तथा ब्रह्मादयः सुराः
तथा सर्व्वे दिक्पाला मुनयो ये तपोधनाः ।शच्या सह तदा शक्रो ब्रह्मान्याद्यास्तु मातरः
नारदश्च गतस्तत्र देवषिर्ब्रह्मणः सुतः ।एतैः परिकरैः सार्द्धं गणैराप्यायितः स्वकैः ।कन्याविवाहविधिना गिरिपुत्त्रीं हरोऽग्रहीत्
विवाहे गिरिणा शम्भोः सर्पा येऽष्टौ तनौस्थिताः ।ते जाम्बूनदसन्नद्धा अलङ्कारास्तदाभवन्
द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः ।शिरःस्थितश्चन्द्रखण्डः शोचिषा ज्वलितोऽभवत्ललाटनेत्रमभवत्तढा रत्नं महार्घ्यकम् ।विचित्रवसनं व्याघ्रकृत्तिरासौत्तदा द्विजाः
विभूतिलेपोऽभूत्तस्य सुगन्धिमलयोद्भवः ।चारुरूपो हरस्तत्र बभूवाद्भुतदर्शनः
ततो देवाः सगन्धर्व्वाः सिद्ध्वा विद्याधरोरगाः ।विस्मयं परमं प्रापुर्हरं दृष्ट्वा तथाविधम् ।हिमवान् मुदितश्चाभूत् सहपुत्त्रैश्च मेनया ।ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम्
इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम्
सर्व्वं शिवकरं यस्माद्भस्माद्यस्याभवत् सुराः ।तस्मात् शिवोऽयं लोकेषु नास्मादन्योऽधिकःशिवः
महेश्वरसमायुक्तमीदृशं यः स्मरेद्धृदा ।सततं तस्य कल्याणं वाञ्छितञ्च भविष्यति
एवं काली महामाया योगनिद्रा जगत्प्रसूः ।पूर्व्वं दाक्षायणी भूत्वा पश्चात् गिरिसुताभवत्स्वयं समर्थापि सती काली सम्मोहितुं हरम् ।तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा ।एवं सम्मोहयामास कालिका चन्द्रशेखरम्
इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा ।हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम्
”इति कालिकापुराणे ४३ ध्यायः
*
अस्य गणा यथा, --पुलस्त्य उवाच ।“हरोऽपि शम्बरे याते समाहूयाशु नन्दिनम् ।प्राहामन्त्रय शैलादौ ये स्थितास्तव शासने
ततो महेशवचनान्नन्दी सर्व्वगणाधिपः ।उपस्पृश्य जलं धीमान् सस्मार गणनायकान्
नन्दिना संस्मृताः सर्व्वे गणनाथाः सहस्रशः ।समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदशेश्वरम्
आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः ।सर्व्वान्निवेदयामास शङ्कराय महात्मने
नन्द्युवाच ।यानेतान् पश्यसि शम्भो त्रिनेत्रान् जटिलान्शुचीन् ।एते रुद्रा इति ख्याताः कोट्य एकादशैव
वानरास्यान् पश्यसि यान् शार्द्दूलसमविक्र-मान् ।एते वै द्वारपालास्ते मन्नामानो यशोधनाः
षण्मुखान् पश्यसि यांश्च शक्तिपाणीन् शिखि-ध्वजान् ।षट् षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमार-कान्
एतावत्यस्तथा कोट्यः शाखा नाम षडाननाः ।विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर !
सप्तकोटिशताः शम्भो अमी वै प्रथमोत्तमाः ।एकैकं प्रति देवेश तावत्यो ह्यपि मातरः
भग्नारुणितदेहाश्च त्रिनेत्राः शूलपाणयः ।एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः
तया पाशुपताश्चान्ये भस्मप्रहरणा विभो ।एते गणास्त्वसंख्याताः साहाय्यार्थं समागताः
पिनाकधारिणो रौद्रा गणाः कालमुखाः परे ।तव भक्ताः समायाता जटामण्डलिनोऽद्भुताः
खट्टाङ्गयोधिनो वीरा रक्तचर्म्मसमावृताः ।इमे प्राप्ता गणा योद्ध्वुं महाव्रतिन उत्तमाः
दिग्वाससो यौनिनश्च घण्टाप्रहरणास्तथा ।निरामया नाम गणाः समायाता जगद्गुरो
सार्द्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ।समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः
महापाशुपता नाम चक्रशूलधरास्तथा ।भैरवो विष्णुना सार्द्धमभेदेनार्च्चितो हि यैः
इमे मृगेन्द्रवदनाः शूलबाणधनुर्धराः ।गणास्त्वद्रोमसम्भूता वीरभद्रपुरोगमाः
एते चान्ये बहवः शतशोऽथ सहस्रशः ।साहाय्यार्थं तवायाता यथापीत्यादिशस्व तान्ततोऽभ्येत्य गणाः सर्व्वे प्रणेमुर्वृषकेतनम्
”इति वामनपुराणे ६४ अध्यायः
अस्य लिङ्गपूजादि शिवलिङ्गशब्दे द्रष्टव्यम्
अस्मात् कोचविहारदेशीयराजवंशोत्पत्तिर्यथा, श्रीदेव्यु वाच ।“देवेश परमेशान सर्व्वज्ञ सर्बपूजित ।क्व गच्छसि मुहुर्नाथ कृपया वद शङ्खर
ईश्वर उवाच ।कोचाख्याने देशे योनिगर्त्तसमीपतः ।साध्वी सती वाम्बिका हि रेवती जनविश्रुता
म्लेच्छदेशोद्भवा या तु योगिनी सुन्दरी मता ।तत्कुचौ कठिनौ द्वन्द्वौ योनेस्तस्याश्च पीनता
भिक्षाचारप्रसङ्गेन गच्छामि दिवानिशम् ।तत्सन्निधौ महेशानि तया मे रमणं महत्
देव्युवाच ।कुत्रासीत् किं तपस्तप्तं कथं प्राप्तं महीतलम् ।त्वया सार्द्धं रतिर्यत् स्यात् नाल्पस्य तपसःफलम्
तवापि कृपा तस्यां लक्ष्यते महती मया ।इदानीं किमभूत् सा हि कृपया परया वद
ईश्वर उवाच ।नगेन्द्रतनये बाले शृणु मत्प्राणवल्लभे ।शावरोचरितं किञ्चित् कथयामि शुचिस्मिते
रसक्रीडाञ्चकाराहमेकाम्रकानेन मुदा ।वेदाङ्गसम्भवा साध्वी योगिनी सा सुरी मता ।नाभूत्तस्याः सुतृप्तिर्म्मे मत्क्रियायां नगात्मजेमामाप्तुमुत्कटं तप्तं द्वये मे क्षेत्रकामदे
एकाम्रगहने देवि पर्व्वते तीर्थसङ्कुले ।तत्रैको ब्राह्मणो जातो भिक्षार्थं तामुवाच
दत्तमुत्तरं तस्मै भिक्षा तिष्ठतु दूरतः ।ततः शशाप विप्रस्तां म्लेच्छतां याहि दुर्म्मदे ।इत्युक्त्वा ययौ विप्रो म्लेच्छत्वमाप योगिनी ।अतोऽर्थिनः समर्थश्चेत् याचितं ददाति
दुर्गतिमवाप्नोत्यसमर्थो विनयञ्चरेत् ।तस्यास्तु तपसा देवि क्रीतोऽहमभवं सदा
*
अतस्तया रतिर्जाता मम कामिनि सर्व्वदा ।तस्याः पुत्त्रो विनुसिंहो मदौरससमुद्भवः
एकेन जितवान् कामान् सौमारान् गौडपञ्च-मान् ।विनिर्ज्जित्य नृपान् सर्व्वान् एकः श्रीमान्महामतिः
तस्यापि बहवः पुत्त्राः पृथिवीपरिपालकाः ।कुवाचा धार्म्मिकाः सर्व्वे राजानो युद्धदुर्म्मदाः
ततोऽपि विनुसिंहो योगमाश्रित्य विह्वले ।त्रिष्ठत्यव्यक्तरूपेण पट्टे आकल्पमम्बिके
कामात् सा माधवी देवि मद्देहे लीनतां गतायथा जाया नन्दिमाता तथेयं योगिनी मता
यथा पुत्त्रो भृङ्गरीटिस्तथा विनुर्म्ममात्मजः ।विनुसिहोऽपि कल्पान्ते परां सिद्धिमवाप्स्यति
तद्वशजास्तु राजानः सर्व्वे कैलासवासिनः ।भविष्यन्ति महात्मानो गणेशाः सर्ब्बशालिनः
रूपयौवनसम्पन्नैर्देवकन्यागणैः सह ।विहरन्ति सदा देवि क्रीडन्ति भैरवा यथा
*
यदा यदा ब्रह्मशापः कामाख्यायां भवेत् पुनःतदा तदावतीर्य्याहं विश्वकामस्य पालकः
तथा तद्वंशजाः सर्व्वे भवेयुः कामपालकाः ।कल्पान्तमेवं देवेशि यावत् शापो विमुच्यते
तावदेव महामाये मद्वोर्य्यात् क्रीडते ध्रुवम् ।कल्पमेवं महेशानि कलौ वर्षशतत्रयम्
यावत्तु परमेशानि भुङक्ते शापं परात्मिके ।कामाख्या हि महामाये तदन्ते सफला भवेत्
एव ते कथितं देवि ब्रह्मशापविमोचनम् ।कामाख्याया महेशानि साकल्येन मया ध्रुवम्
”इति श्रीयोगिनीतन्त्रेदेवीश्वरसंवादे चतुर्विंशतिसाहस्रे १३ पटलः
मोक्षः कीलग्रहः ।वालुकम् गुग्गुलुः वेदः पुण्डरीकद्रुमः ।इति मेदिनी
कृष्णधुस्तूरः पारदः इतिराजनिर्घण्टः
देवः इति शब्दरत्नावली
लिङ्गः इत्युणादिकोषः
विष्कुम्भादिसप्त-विंशतियोगान्तर्गतविंशतितमयोगः तत्र जात-फलम् ।“महेशभक्तः श्रुतिपारदृश्वोजितेन्द्रियश्चारुतनुर्म्महात्मा ।शिवाभिधानः खलु योगराजःप्रसूतिकाले यदि मानवानाम्
”इति कोष्ठीप्रदीपः