| YouTube Channel

शिरोरोग (ziroroga)

 
शब्दसागरः
English
शिरोरोग
m.
(-गः) Disease of the head.
E.
शिरस्, रोग sickness.
Yates
English
शिरो-रोग (गः) 1.
m.
Disease of the
head.
Wilson
English
शिरोरोग
m.
(-गः) Disease of the head.
E.
शिरस्, and रोग sickness.
Monier Williams Cologne
English
शिरो—रोग
m.
any disease of the head,
Suśr.
शब्दकल्पद्रुमः
Sanskrit
शिरोरोगः,
पुं,
(शिरसो रोमः ।) मस्तकपीडा ।यथा, --अथ शिरोरोगाधिकारः अत्र शिरोरोगस्यनिदानं सख्याञ्चाह ।“शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः ।सन्निपातेन रक्तेन क्षयेण कृमिभिस्तथा
सूर्य्यावर्त्तानन्तवातशंखकार्द्धावभेदकाः ।एकादशविधस्यास्य लक्षणानि प्रचक्षते
”शिरोरोगा अत्र शिरोरोगः शूलरूपा रुगभि-धीयते वातपित्तकफैस्त्रिभिः ननु वातपित्त-कफैरित्युक्ते तत्त्रित्वबोधात् किमर्थं त्रिभि-रिति पदम् वातपित्तकफानां पृथक्कार-णत्वबोधनार्थम् तर्हि सर्व एव शिरोरोगाःसन्निपातसमुद्भवा इति कथम् तदा वातादयउल्वणतया पृथक्कारणानि बोद्धव्यानि क्षयेणरसादिक्षयेण
*
वातिकस्य लक्षणमाह ।“यस्यानिमित्तं शिरसो रुजश्चभवन्ति तीव्रा निशि चातिमात्रम्बन्धोपतापैः प्रशमश्च यत्रशिरोऽभितापः समीरणेन
”भवेदिति विशेषः अनिमित्तं अतर्कितविप्र-कृष्टनिमित्तम् निशि चातिमात्रं रात्री शैत्येनरोगाधिक्यात् प्रतापः स्वेदनम् शिरोऽभि-तापः शिरःपीडा
*
पैत्तिकमाह ।“यस्योष्णमङ्गारचितं यथैवभवेच्छिरो दह्यति नाक्षिनाशम् ।शीतेन रात्रौ भवेच्छमश्चशिरोऽभितापः तु पित्तकोपात्
दह्यतीत्यार्षत्वात्
*
श्लैष्मिकमाह ।“शिरो भवेद्यस्य कफोपदिग्धंगुरु प्रतिष्टब्धमथो हिमञ्च ।सूनाक्षिनासावदनञ्च यस्यशिरोऽभितापः कफप्रकोपात्
”कफोपदिग्धं अन्तःकफलिप्तम् प्रतिष्टब्धं स्तब्ध-शिरम्
*
सान्निपातिकमाह ।“शिरोऽभितापे त्रितयप्रवृत्तेसर्वाणि लिङ्गानि समुद्भवन्ति
*
रक्तजमाह ।“रक्तात्मिकः पित्तसमानलिङ्ग-स्पर्शासहत्वं शिरसो भवेच्च
”पैत्तिकाद्भेदकलिङ्गमाह शिरःस्पर्शासहत्व-मिति
*
क्षयजमाह ।“वसावलासक्षतसम्भवानांशिरोगतानामतिसंक्षयेण ।क्षयप्रवृत्तिः शिरसोऽभितापःकष्टो भवेदुग्ररुजोऽतिमात्रम्
”क्षतसम्भवं रुधिरम् कष्टः कृच्छ्रसाध्यः ।“श्रमो भ्रमति तुद्येत शिरो विभ्रान्तनेत्रता ।मूर्च्छा गात्रावसादश्च शिरोरोगे क्षयात्मिके
”कृमिजमाह ।“निस्तुद्यते यस्य शिरोऽतिमात्रंसंभक्ष्यमाणं स्फुरतीव चान्तः ।घ्राणाच्च गच्छेद्रुधिरं सपूयंशिरोऽभितापः कृमिभिः सघोरः
”संभक्ष्यमाणं कृमिभिरिति शेषः घ्नाणाच्चेतिचकारेण कृमिनिर्गमोऽपि बोध्यते
*
सूर्य्या-वर्त्तमाह ।“सूर्य्योदयं या प्रतिमन्दमन्द-मक्षिभ्रुवं रुक् समुपैति गाढम् ।विवर्द्धते चांशुमता सहैवसूर्य्याववृत्तौ विनिवर्त्तते
शीतेन शान्तिं लभते किञ्चि-दुष्णेन जन्तुः सुखमाप्नुयाद्वा ।सर्व्वात्मकं कष्टतमं विकारंसूर्य्याववर्त्तं तमुदाहरन्ति
”सूर्य्योदयमिति लक्षीकृत्य आरभ्येति यावत् ।सूर्य्यस्याववृत्ती सूर्य्यस्याधोगतौ
*
अनन्त-वातमाह ।“दोषास्तु दुष्टाः स्वयमेव मन्यांसंपीड्य घाटां स्वरुजां सुतीव्राम् ।कुर्वन्ति सोऽक्ष्णि भ्रुवि शङ्खदेशेस्थितिं करोत्याशु विशेषतस्तु
गण्डस्य पार्श्वे तु करोति कम्पंहनुग्रहं लोचनजान् विकारान् ।अनन्तवातं तमुदाहरन्तिदोषत्रयोत्थं शिरसो विकारम्
”एवशब्दोऽत्राप्यर्थः अव्ययानामनेकार्थत्वात् ।स्वरुजां स्वस्य रुजां व्यथादाहगौरवादिरूपांदोषाः कुर्वन्ति अयमनन्तवातः अनन्त-वातः अक्ष्यादिषु स्थितिं करोति विशेषतःगण्डपार्श्वे स्थितिं करोति पीडया स्थितिंकृत्वा कम्पादींश्च करोति
*
शङ्खकमाह ।“पित्तरक्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम्
शिरोविषवद्वेगान् निरुध्याशु गलं तथा ।त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः ।त्र्यहाज्जीवति भैषज्यं प्रत्याख्येयस्य कारयेत्
”पित्तरक्तानिलाः अत्र कफोऽपि योज्यः कृतानु-तापः कफपित्तरक्तैरिति सुश्रुतवचनात् विमू-र्च्छिताः प्रवृद्धाः शोथः त्रिरात्रात्त्रिरात्रमध्ये मारयति
*
अर्द्धावभेदकमाह ।“रूक्षाशनाद्यध्यशनावश्याप्राग्वातमैथुनैः ।वेगसंधारणायासव्यायामैः कुपितोऽनिलः
केवलः सकफो वार्द्धं गृहीत्वा शिरसो बली ।मन्याभ्रूशङ्खकर्णाक्षिललाटार्द्धेषु वेदनाम्
शस्त्राशनिनिभां कुर्य्यात्तीव्रां सोऽर्द्धावभेदकः ।नयनं वाथवा श्रोत्रमभिवृद्धौ विनाशयेत्
”अवश्या अवश्यायः आयासः अतिबलेनभारोद्वहनादिभिः व्यायामः स्वल्पश्रमः ।शस्त्राशनिनिभां शस्त्रपातेनैव वज्रपातेनैव वेद-नाम्
*
अथ शिरोरोगाणां चिकित्स्या ।“वातजाते शिरोरोगे स्नेहस्वेदं विवर्द्दनम् ।पानाहारोपनाहांश्च कुर्य्याद्वातामयापहां
कुष्ठमेरण्डमूले नागरे तत्र पेषितम् ।कटूष्णं शिरसः पीडां भाले लेपनतो हरेत्
रसः श्वासकुठारोत्थस्तस्य नस्यं विशेषतः ।शिरःशूलं हरत्येव विधेयो नात्र संशयः
*
अथ शिरोवस्तिविधिः ।“आशिरोव्यापि तच्चर्म्म षोडषाङ्गुलमुच्छ्रितम् ।तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत्
निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत् ।धारयेदारुजः शान्त्यै यामं यामार्द्धमेव
शिरोवस्तिर्हरत्येष शिरोरोगं मरुद्भवम् ।हनुमन्याक्षिकर्णार्त्तिमर्द्दितं मूर्द्धकम्पनम् ।विना भोजनमेवैष शिरोवस्त्याः प्रयुज्यते
दिनानि पञ्च वा सप्त रुजि तत्परतोऽपि वा ।ततोऽपनीतस्नेहस्तु मोचयेद्वस्तिबन्धनम्
शिरोललाटवदनग्रीवादीनि विमर्द्दयेत् ।सुखोष्णेनाम्भसा गात्रं प्रक्षाल्याश्नाति यद्धितम
आमिषं जाङ्गलं पथ्यं तत्र शाल्यादयोऽपि ।मुद्गान् माषान् कुलत्थांश्च खादेद्वा निशिकेवलान्
कटुकोष्णान्ससर्पिष्कानुष्णं क्षीरं पिबेत्तथा ।पित्तात्मके शिरोरोगे शीतानां चन्दनाम्भसाम्
कुमुदोत्पलपद्मानां स्पर्शाः सेव्याश्च मारुताः ।सर्पिषः शतधौतस्य शिरसा धारणं हितम्
रसः श्वासकुठारोत्थः कर्पूरं कुङ्कुमं नवम् ।शीतं छागीपयः सर्वं वदनेनानुवर्षयेत्
तस्य नस्यं भिषग्दद्यात् पित्तलायां शिरोरुजि ।किन्तु मस्तकशूलेषु सर्वेष्वेवं हितं मतम्
गुडनागरकल्कस्य नस्यं मस्तकशूलनुत्
*
रक्तजे पित्तवत् सर्वं भोजनालेपसेवनम्
शीतोष्णयोश्च विन्यासो विशेषो रक्तमोक्षणम् ।कफजे लङ्घनं स्वेदो रूक्षोष्णैः पावकात्मकैः
*
सन्निपातभवे कार्य्या सन्निपातहरी क्रिया ।पुराणसर्पिसः पानं विशेषेण दिशन्ति हि
एरण्डमूलं तगरं शताह्वाजीवन्तिका सैन्धवरास्निके ।भृङ्गं विडङ्गं मधुयष्टिका चविश्वौषधं कृष्णतिलस्य तैलम्
अजापयस्तैलविमिश्रितञ्चचतुर्गुणं भृङ्गरसे विपक्वम् ।षड्बिन्दवो नासिकयोः प्रदेयाःसर्व्वाणि हन्युः शिरसो विकारान्
च्युतांश्च केशान् पलितांश्च दन्तान्निर्बध्य मूलान् प्रकटीकरोति ।सुपर्णगृध्रप्रतिमञ्च चक्षुःकुर्वन्ति बाह्वोरधिकं बलञ्च
”जीवन्तिका अत्र हरीतकी शाकविशेषश्च ।इति षड्बिन्दुतैलम्
*
“क्षयजे क्षयनाशाय कर्त्तव्यो बृंहणो विधिः ।पाने नस्ये सर्पिः स्याद्वातघ्नैर्मधुरैः शृतम्
*
कृमिजे व्योषणञ्चाहुः शिग्रुबीजैश्च लावणम् ।अजामूत्रयुतं नस्यं कर्त्तव्यं कृमिनुत् परम्
सूर्य्यावर्त्ते विधातव्यं नस्यकर्म्मादिभेषजम् ।योजयेत् सगुडं सर्पिर्घृतपूपांश्च भक्षयेत्
लावनं क्षीरसर्पिर्भ्यां पानञ्च क्षीरसर्पिषोः ।क्षीरपिष्टस्तिलैः स्वेदी जीवनीयैश्च शस्यते
भृङ्गराजरसच्छागक्षीरतुल्यार्कतापितः ।सूर्य्यावर्त्तं निहन्त्याशु नस्येनैव प्रयोगराट्
*
अर्द्धावभेदके पूर्व्वं स्नेहस्वेदो हि भेषजम्
विरेकः कायशुद्धिश्च धूपस्निग्धोष्णभोजणम् ।विडङ्गानि तिलान् कृष्णान् समान् पिष्ट्वाविलेपयेत्
नस्यं वाप्याचरेत्तस्मादर्द्धभेदं व्यपोहति ।पिबेत् सशकरं क्षीरं नीरं वा नारिकेलजम्
सुशीतं वापि पानीयं सर्पिर्व्वा नस्ततस्तयोः
”नस्ततः नासिकया पिबेदित्यन्वयः तयोःसूर्य्यावर्त्तार्द्धभेदयोः
*
“अनन्तवाते कर्त्तव्यः सूर्य्यावर्त्तहितो विधिः ।शिराव्यधश्च कर्त्तव्योऽनन्तवातप्रशान्तये
आहारश्च प्रदातव्यो वातपित्तविनाशनः ।मधुमस्तकसंयावघृतपूपैर्विशेषतः
”संयावः पक्वान्नविशेषः एरकिया इति लोके ।स मधुमस्तकः मघुनोपलिप्तः घृतपूरो-ऽपूपः ।“पथ्याक्षधात्री रजनी गुडूचीभूनिम्बनिम्बैः सगुडः कषायः ।भ्रूशङ्खकर्णाक्षिशिरोऽर्द्धशूलंनिहन्ति नासानिहितः क्षणेन
”इति पथ्यादिक्वाथः
*
“दार्व्वी हरिद्रा मञ्जिष्ठा सनिम्बोशीरपद्मकम् ।एतत्प्रलेपनं कुर्य्याच्छङ्खकस्य विनाशयेत्
पीततोयाभिषेकञ्च शीतलक्षीरसेवनम् ।कल्कैश्च क्षीरवृक्षाणां शङ्खके लेपनं हितम्
”सर्वषु ।“यष्टीमधुकमाषः स्यात् तूर्य्यांशन्तु विषम्भवेत् ।तयोश्चूर्णन्तु सूक्ष्मं स्यात्तच्चूर्णं सर्षपोन्मितम्
नासिकाभ्यन्तरे न्यस्तं सर्व्वां शीर्षव्यथां हरेत् ।दृष्टप्रयोगो योगोऽयमनुभाविभिरादृतः
आर्द्रं यच्छक्तिकाचूर्णं चूर्णितं नवसादरम् ।उभयं योजितं गन्धात्तस्य नश्यति शीर्षरुक
”इति भावप्रकाशे शिरोरोगाधिकारः
वाचस्पत्यम्
Sanskrit
शिरोरोग
पु०
त० सुश्रुतोक्ते मस्तकरोगभेदे तल्लक्षणं यथाअथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः ।शिरो रुजति गर्त्त्यानां वातपित्तकफैस्त्रिभिः सन्निपातेन रक्तेन क्षयेण क्रिमिभि स्तथा सूर्य्यावर्त्ता ८न्तबाता र्द्धावभेदक १० शङ्खकैः ११ एकादशप्रकारस्य लक्षणसप्रवक्ष्यते यस्यानिमित्त शिरसो रुजश्च भवन्ति तीतनिशि चातिमात्रम् बन्धोपताप्रैश्च भवेद्विशेषः शिरो-ऽभितापः समोरणेन यस्योष्णमङ्गारचितं यथैवमवेच्छिरो धूमवती नासा शीतेन रात्रौ भवेद्वि-शेषः शिरोऽभितापः तु पित्तकोपात् शिरोनलं यस्यकफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च शूनाक्षिकूटंवदनं यस्य शिरोऽभितापः कफप्रकोपात् शिरो-ऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवान्त ।रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसोभवेच्च वसाबलासक्षतसम्भवानां शिरोगतानामिहसंक्षयेण क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदु-ग्ररुजोऽतिमात्रम् संस्वेदनच्छर्दनधूमनस्यैरसृग्विमो-क्षैश्च विवृद्धिमेति निस्तुद्यते यस्य शिरोऽतिमात्रंसन्तक्ष्यमाणं स्फुरतीव चान्तः ध्राणाच्च गच्छेत्सलिलंसरक्तं शिरोऽभितापः कृमिभिः घोरः सूर्य्योदयंया प्रतिमन्दमन्दमक्षिभ्रुवंरुक् समुपैति गाढम् विव-कन चांशुमता सहैव सूर्य्यापवृतौ विनिवर्त्तते ।शातेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुख-माप्नुयाच्च तं भास्करावर्त्त मुदाहरन्ति सर्वात्मकंकष्टतमं विकारम् दोषास्तु दुष्टास्त्रय एव मन्यांसंपीड्य घाटां सरुजां सुतीव्राम् कुर्वन्ति साक्षिभ्रुव-जखदेशे स्थितिं करोत्याशु विशेषतस्तु गण्डस्य पार्श्वेषुकरोति कम्पं हनुग्रहं लोचनजांश्च रोगान् अनन्त-वातं तमुदाहरन्ति दोषत्रयोत्थं शिरसोविकारम् ।यस्योत्तमाङ्गार्द्धमतीव जन्तोः सम्भेदतोदभ्रमशूलजुष्टम् ।यक्षाद्दशाहादथ वाप्यकस्मात्तस्यार्द्धभेदं १० त्रितयाद्व्यव-स्येत् शङ्खाश्रितो वायुरुदोर्णवेगः कृतामुयात्रःकफपित्तरक्तैः रुजः सुतीब्राः प्रतनोति मूर्ध्रि विशेषतश्चापि हि शङ्खयोस्तु सुकष्टमेनं खलु शङ्खकाख्यं ११महर्षयो वेदविदः पुराणाः व्याधि वदन्त्युद्गतमृत्युकल्पंभिषक्सहस्रैरपि दुर्निवारम्”