| YouTube Channel

शास्यः (zAsyaH)

 
शब्दकल्पद्रुमः
Sanskrit
शास्यः, त्रि, (शास् + ण्यत् ।) शासनीयः ।शासितव्यः (यथा, मनौ १९१ ।“यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम्
”शिक्षणीयः यथा, ऋग्वेदे १८९ ।“अभिपित्ते मनवे शास्यो भूः ।”“शास्यो भूः शिक्षणीयो भव इदं कुरु इदं कुरुइति विधेयो भव ।” इति तद्भाष्ये सायणः
)