| YouTube Channel

शासु (zAsu)

 
Monier Williams 1872
English
शासु, उस्, m., Ved. a governor, ruler [cf. शास्तृ]
a command, (Sāy. = शासनम्।)
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शास्
मूलधातुः:
शासु
धात्वर्थः:
अनुशिष्टौ
गणः:
अदादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शास्ति
धातुः:
शास्
मूलधातुः:
शासु
धात्वर्थः:
इच्छायाम्
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
आशास्ते
अनुबन्धादिविशेषः:
नित्यं आङ् पूर्वः
धातुः:
शास्
मूलधातुः:
शासु
धात्वर्थः:
इच्छायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
आशासते
धातुप्रदीपः
Sanskrit
शासुँ शासु अनुशिष्टौ
- शास्ति शिष्टः शासति शासिता शास्तु शाधि शासानि अशिषत् अशशासत् शासित्वा शिष्ट्वा शासनम् शिष्टिः शिष्टः शास्तिरित्यौणादिकम्, वसेस्तिः (उण्, 4/181) इति उणादौ योगविभागात् तिप्रत्ययः ।। 66 ।।
क्षीरतरङ्गिणी
Sanskrit
शासुँ शासु अनुशिष्टौ
- (अर्थविवरणम्) अनुशिष्टिर्नियोगः
शास्ति शासति शासिता शास इदङ्हलोः (6434) शासिवसि (8360) इति षः-शिष्टः शा हौ (6435)-शाधि तिप्यनस्तेः (8273) इति दः-अशाद् भवान् सिपि धातो रुर्वा (8274) अशात् त्वम्, अशास्त्वम् झेर्जुस् (द्र0 34111)-अशासुः सर्तिशास्त्यर्तिभ्यश्च (3156) इत्यङ्-अशिषत् नाग्लोपिशास्वृदिताम् (742)-अशशासत् एतिस्तुशासु (31109) इति क्यप्-शिष्यः तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ (उ0 294)-शास्ता बुद्धः, प्रशास्ता ऋत्विक् क्तिन् आबादिभ्यः (3394 वा)-शिष्टिः शास्तिरुणादौ भाषायां शासियुधि (33130) इति युच्-दुःशासनः उदितो वा (7256) इट्-शिष्ट्वा, शासित्वा शिष्टः 62
धातुवृत्तिः
Sanskrit
शासुँ शासु (अर्थः) अनुशिष्टौ
(अर्थविवरणम्) अनुशिष्टिर्विविच्य ज्ञापनम्
अयं द्विकर्मकः माणवकं धर्मे शास्तीति कर्मणि लादिकार्यं सर्वं ब्रवीतिवन्नेयम् (शास्ति, शिष्टः शासति, शास्सि, शिष्ठः, शिष्ट, शास्मि, शिष्वः शिष्मः, ) "शास इदङ्हलोः'' इत्यङि हलादौ क्ङिति चेत्त्वम् "शासिवसि'' इतीणः परत्वे षत्वे ष्टुत्त्वं तवर्गस्य (शशास, शशासतुः, शशासिथ, शशास, शशासिव शासिता शासिष्यति शास्तु, शिष्टात्, शिष्टां, शासतु, शासतु, शाधि, शिष्टं, शिष्ट, शासानि, शासाव ) हौ "शा हौ'' इति शाभावे, तस्य "असिद्धवदत्र'' इत्यासिद्धत्वात् हुज्झल्भ्यो हेर्धिः'' इति धित्वम् ( अशात्, अशिष्टाम्, अशासुः, अशाः, अशात्, अशिष्टम्, अशासम्, अशिष्व, ) तिप्सिपोः पूर्ववत् दत्वरुत्वे ( शिष्यात्, शिष्याताम् ) आशिषि ( शिष्यात्, शिष्यास्ताम् अशिषत्, अशिषताम्, अशिषन्, अशिषः, अशिषम्, अशिषाव, ) "सर्तिशास्ति'' इत्यङ् अत्र "चकारेण परस्मैपदानुकर्षणमुत्तरार्थम् अयं तु योगाविभागसामर्थ्यादात्मनेपदेऽपि भवति' इति वृत्तितद्व्याख्यानेष्वभिधानाद् ( व्यत्यशिषत् व्यत्यशिषाताम् ) इत्यङेव भवति कर्मणि तेशब्दपरत्वात् "चिण्भावकर्मणोः'' इति चिण् भवति ( अशासीति शिशासिषति शेशिष्यते ) परत्वाद् द्वित्वे कृते द्विर्वचनम् ( शाशासीति, शाशास्ति, शाशिष्टः, ) प्रकृतिग्रहणन्योयेन "शास'' इत्त्वम् "सर्तिशास्ति'' इति तिपा निर्देशात् (अशाशासीत्) इत्यत्राङ् भवति ( शासयति अशशासत् "नाग्लोपि शासु'' इत्युपधाह्रस्वनिषेधः (शिष्यः) "एतिस्तुशासु'' इति क्यप् शास्यस्तु शसु हिंसायामिति भौवादिकस्य "हन्त्यर्थाश्च' इति चुरादिपाठात्स्वार्थे णिचीत्युक्तमात्रेण शास्तेर्हेतुमण्णावपि शक्यते व्युत्पादयितुम् ( दुश्शासनः) [ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः ] इति खलर्थे युच् ( आशीः ) क्विपो लोपे प्रत्ययलक्षणेन हलादिकित्परत्वादित्वे पदत्वेन सकारस्य रुत्वे "र्वोरुपधायाः'' इति दीर्घः चास्ति "वर्णाश्रये नास्ति प्रत्ययलक्षणम्' इति, यत्र वर्णस्य प्राधान्येनाश्रयणं तत्र तदित्युक्तत्वात् ( शिष्ट्वा, शासित्वा ) "उदितो वा'' इतीड्विकल्पः ( शिष्टः ) "यस्य विभाषा'' इत्यनिट्त्वम् ( शिष्टिः ) "तितुत्र'' इतीण्णिषेधः शास्तिशब्दस्तु अस्माद्वाहिंसार्थाद्वा णिचि क्तिनि व्युत्पाद्यः बाहुलकाद् युचा बाधः तथा "अचः परस्मिन्'' इत्यत्र भाष्यम् "पाचयतेः पाक्तिः याजयतेर्याष्टिः' इति औणादिक इति मैत्रेयः हिंसार्थस्य औणादिक इत्यात्रेयः ( शास्ता ) बुद्धः, ( प्रशास्ता ) ऋत्विग्विशेषः "तृन्तृवौ शंसिक्षदादिभ्यस्संज्ञायां चालिटौ'' इति तृच्यनिट्त्वम् "अप्तृन्'' इत्यादिना सर्वनामस्थानेऽसम्बुद्धौ प्रशास्तृशब्दस्य उपधाया दीर्घः अत्र "प्रोपसर्गस्यातन्त्रत्वात् शास्तुरप्ययं दीर्घो भवति' इत्यात्रेयः प्रशास्तुर्भावकर्मणी ( प्राशास्त्रम् )उद्गात्रादित्वादञ् श्वसादय उदात्त उदात्तेतः 65
कृदन्तरूपमाला
Sanskrit
1 {@“2 शासु इच्छायाम्”@} 3 “आत्रेय-मैत्रेय-स्वामि-काश्यपाः अमुमुदितं पठन्ति।
वर्धमान-सम्मता- कारहरदत्तगर्गादयः अनुदितं पठन्ति” इति माधवः।
‘-- इच्छायामाशास्ते, शास्ति शासने।’ 4 इति देवः।
‘नमोवाकं प्रशास्महे।’ इति भवभूति 5 प्रयोगात् प्रायेणायम् आङ्पूर्वः।
6 आशीः, 7 आशिषा, 8 अन्यदाशीः-अन्याशीः, 9 आशासा- आशास्तिः, 10 आशास्यम्, 11 आशासितः, 12 13 14 आशासनः, 15 आशासित्वा-आशास्त्वा, इति विशेषरूपाणि।
इतररूपाणि सर्वाण्यपि आदादिकासधातुवत् 16 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७०३)
02
=>
[आङः]
03
=>
(२-अदादिः-१०२२। सक। सेट्। आत्म।)
04
=>
(श्लो। १८४)
05
=>
(उत्तररामचरिते १-१)
06
=>
[[१। ‘आङः शासः क्वौ’ (वा। ६-४-३४) इति आङ्पूर्वकादस्मात् क्विपि, उपधाया इत्वम्। ‘आशिषि लिङ्लोटौ’ (३-३-१३७), ‘क्षियाशीः--’ (८-२-१०४) इत्यादिनिर्देशाद्वा उपधाया इकारः। धातुसकारस्य ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः। मित्रशीः आर्यशीः इत्यादि तु नास्माद्धातोः, किन्तु ‘शासु अनुशिष्टौ’ इत्यस्मादिति न्यासपदमञ्जर्यादिषु स्पष्टम्।]]
07
=>
[[२। ‘आपं चैव हलन्तानाम्--’ इति वचनात् क्विबन्तात् टाप्। क्विबन्तात्, धातोः इत्वे, ‘शासिवसि--’ (८-३-६०) इत्यादिना षत्वे एवं सम्पद्यते।]]
08
=>
[[३। अन्या आशीः अन्यदाशीः। ‘अषष्ठ्यतृतीयास्थस्यान्यस्य दुग् आशीराशा--’ (६-३-९९) इत्यादिना दुगागमः। षष्ठीतृतीयान्तत्वे तु अन्याशीः इत्येव।]]
09
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्यये रूपमेवम्। एतच्च माधव- मतेनोक्तम्। क्षीरस्वामी तु “आशास्तिः। ‘गुरोश्च हलः’ (३-३-१०३) इति नास्ति
\n\n निष्ठायां सेटोऽकारवचनात् (द्रष्टव्यम् वा। ३-३-९४)।” इत्याह। अत्र प्रयोगः प्रमाणम्।]]
10
=>
[[५। ‘एतिस्तुशास्वृ--’ (३-१-१०९) इत्यत्र उदितो निर्देशात् अस्मात् क्यपः प्रसङ्ग इति आशास्यम् इति ण्यदेव--इति माधवः। अयमाशयः-- ‘निरनुब- न्धकग्रहणे सानुबन्धकस्य’ (परि-८२) इति वचनात् प्रकृतसूत्रे ‘शासु अनुशिष्टौ’ इत्यस्यैव ग्रहणम्, नास्येति। तेनात्र ण्यदेवेति। ‘शास इद् अङ्हलोः’ (६-४-३४) इत्यनेनात्र ण्यत्प्रत्यये इत्वं नाशङ्क्यम्
\n\n संयोगस्य ‘संयोगो विप्रयोगश्च साहचर्यं… विशेषस्मृतिहेतवः।।’ (वाक्यपदीयम् २-३१५) इति विशेषस्मृतिहेतुत्वात् अङ्सम्ब- न्धिन एव शासेः इकारविधौ ग्रहणात्, अस्य अङभावात्।]]
11
=>
[[६। ‘आङः शास’ इति दुर्गसम्मतपाठे निष्ठायामिटि एवं रूपम्। उदित्पक्षपातिनौ आत्रेयमैत्रेयौ तु आशास्तः आशास्तवान् इति निष्ठायां रूपमाहतुरिति माधवीये स्पष्टम्। अयं भावः--उदित्पक्षे क्त्वायामिड्विकल्पनात् निष्ठायाम् ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः, इति तेषां मतम्।]]
12
=>
[[आ। ‘ईड्योऽयमीशः समुपास्तिशीलैराशासितः--।’ धा। का। २-४५।]]
13
=>
[पृष्ठम्१२९५+ ३०]
14
=>
[[१। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्प्रत्ययः।]]
15
=>
[[२। “‘क्त्वाऽपि च्छन्दसि’ (७-१-३८) इति ल्यपोऽपवादे क्त्वादेशे आशास्त्वा आशासित्वा इतीड्विकल्पः” इति आत्रेयमैत्रेयावाहतुरिति माधवः। छन्दसि एवं सम्भवेऽपि लोके ‘समासेऽनञ्पूर्वे--’ (७-१-३७) इति क्त्वाप्रत्ययस्य ल्यबादेशे आशास्य इत्येव न्याय्यमिति बोध्यम्।]]
16
=>
(६१)
1 {@“शासु अनुशिष्टौ”@} 2 जक्षित्यादिः।
‘अनुशिष्टिः = नियोगः’ इति क्षीरस्वामी।
विविच्य ज्ञापने प्रसिद्धः।
‘-- इच्छायामाशास्ते, शास्ति शासने।’ 3 इति देवः।
4 शिष्यः, 5 शास्यम्, 6 दुश्शासनः-दुश्शासः, 7 आशीः, 8 शिष्ट्वा--शासित्वा, 9 शिष्टः, 10 शिष्टिः-शास्तिः, 11 शास्ता प्रशास्ता, माणवकं धर्मं 12 13 शासत्, 14 मित्रशीः-आर्यशीः, इति विशेषरूपाणि।
सामान्यरूपाणि तु आदादिकचकास्तिवत् 15 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७०४)
02
=>
(तःईई#}अदादिः-१०७५। द्विकर्म। सेट्। पर।)
03
=>
(श्लो। १८४)
04
=>
[[३। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यप्। ‘शास इदङ्हलोः’ (६-४-३४) इत्युपधाया इकारः। ‘शासिवसि--’ (८-३-६०) इत्यादिना षत्वम्।]]
05
=>
[[४। शास्यम् इति तु ‘शसु हिंसायाम्’ इति भौवादिकधातोः ‘हन्त्यर्थाश्च’ (ग। सू। चुरादिः) इति वचनाण्णिचि, णिजन्ताद् यति ज्ञेयम्।]]
06
=>
[[५। ‘भाषायां शासि--’ (वा। ३-३-१३०) इत्यादिना खलपवादो युच्प्रत्ययः। तस्य वैकल्पिकत्वं प्रक्रियाकौमुद्यामुक्तम्
\n\n तेन दुश्शास इति खलपीति केचित्।]]
07
=>
[[६। भावे सम्पदादित्वात् (वा। ३-३-९४) क्विपि ‘आशासः क्वावुपधायाः--’ (वा। ६-४-३४) इति उपधाया इकारः।]]
08
=>
[[७। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे इत्वमुपधायाः, इट्पक्षे धात्वाकारस्य उपधात्वाभावाद् नेकार इति विशेषः। अत एव षत्वमपी- काराश्रयं भवति।]]
09
=>
[[८। ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधात् एकमेव रूपं निष्ठायाम्।]]
10
=>
[[९। शिष्टिः इत्यत्र ‘तितुत्र--’ (७-२-९) इतीण्निषेधः। शास्तिः इति तु अस्मादेव धातोः क्तिच्प्रत्यये, यद्वा, धातुनिर्देशे श्तिप्प्रत्यये वा ज्ञेयम्। णिजन्तात् शासना इति भवति। णिजन्तादेव शास्तिः इत्यपि माधवः। तस्या- यमाशयः--बाहुलकात् युचा बाधः, इति।]]
11
=>
[[१०। ‘तृन्’ (३-२-१३५) इति ताच्छीलिकः तृन्प्रत्ययः। प्रशास्ता इत्यप्येवमेव। प्रशास्ता = ऋत्विग्विशेषः। ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां अनिटौ’ (वा। ३-२-१३५) इत्यनिट्त्वम्। संज्ञाभिन्नस्थलेषु ‘प्रशासितारं सर्वेषाम्--’ (मनुः १२-१-२२) इत्यादिषु इड् भवत्येवेति विशेषः।]]
12
=>
[पृष्ठम्१२९६+ २५]
13
=>
[[१। शतरि रूपमेवम्। ‘जक्षित्यादयः षट्’ (६-१-६) इत्यभ्यस्तसंज्ञायाम्, ‘नाभ्य- स्ताच्छतुः (७-१-७८) इति नुम्रिषेधः।]]
14
=>
[[२। मित्राणि शास्तीति मित्रशीः। आर्यान् शास्तीति आर्यशीः। कर्तरि ‘क्विप् च’ (३-२-७६) इति क्विप्। अत्राप्युपधाया इकार इति विशेषः।]]
15
=>
(४८५)