| YouTube Channel

शाट्यायनं (zATyAyanaM)

 
Apte 1890
English
शाट्यायनं An oblation for remedying anything wrong in the performance of a rite.
शब्दकल्पद्रुमः
Sanskrit
शाट्यायनं,
क्ली,
प्रकृतकर्म्मवैगुण्यप्रशमनाथहोमः ।यथा यत्तु प्रकृतकर्म्मवैगुण्यप्रशमनाय शाट्या-यनहोमाभिधानं भवदेवभट्टसम्मतं तन्न प्रामा-णिकं तस्मादपि महाप्रामाणिकैर्भट्टनारायण-चरणैर्गोभिलभाष्ये तदप्रमाणीकृतत्वात् ।छन्दोगपरिशिष्टेऽपि प्रायश्चित्तार्थं प्रकारत्रय-मात्रमुक्तम् यथा, --“यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे यथा
अपि वाज्ञातमित्येषा प्राजापत्यापि बाहुतिः ।होतव्या त्रिर्व्विकल्पोऽयं प्रायश्चित्तविधिःस्मृतः
”त्रिर्व्विकल्प इत्यनेन कल्पान्तरनिषेधात् गोभि-लीयकर्म्मणि शाट्यायनहोमो युक्तः किन्तुव्यस्तसमस्तमहाव्याहृतिभिश्चतसृभिः प्राय-श्चित्तहोमो युक्तः विशारदप्रभृतयोऽप्येवम् ।शाट्यायनहोमस्य समूलत्वेऽपि शाख्यन्तरीय-त्वम् इति तिथ्यादितत्त्वम्