| YouTube Channel

शाक्तः (zAktaH)

 
शब्दकल्पद्रुमः
Sanskrit
शाक्तः, त्रि, शक्तिर्देवता अस्य (शक्ति + “सास्यदेवता ।” २४ इत्यण् ।) शक्त्युपासकः ।अस्य प्रशंसा यथा, --“स्वर्गे मर्त्ये पाताले नास्ति शाक्तात् परःप्रियः ।सौराणां गाणपत्यानां वैष्णवानां तथैव
तदन्ते चैव शाक्ताः स्युः क्रमशः क्रमशः प्रिये ।शृणु देवि वरारोहे नास्ति शाक्तात् परो जनः
शाक्तोऽपि शङ्करः साक्षात् परं ब्रह्मस्वरूप-भाक् ।आराधिता येन काली तारा त्रिभुवनेश्वरी
षोडशी चैव मातङ्गी छिन्ना गलवामुखी ।आराधिता महेशानि शिवो नात्र संशयः
अतिगोप्यं महेशानि शाक्तानां परमं पदम् ।यो जानाति महीमध्ये शिवो नात्र संशयः
ब्रह्माद्यर्च्चितपादाब्जं यो भजेत् सततं मुदा ।स यात्यचिरकालेन मुक्तिमन्दिरमेव हि ।पार्व्वतीचरणद्वन्द्वभजनाकिङ्करो भवेत् ।स्वर्गभोगश्च मोक्षश्च शाक्तानां भवेत् किमु
शाक्तानाञ्चैव निन्दां ये कुर्व्वन्ति हि नराधमाः ।तेषां लोहितपानं वै कुर्व्वन्ति भैरवीगणाः
भैरवाश्चैव भैरव्यः सदा हिंसन्ति पामरान् ।शाक्तान् हिंसन्ति गर्जन्ति निन्दन्ति बहु-जल्पकाः
छिनत्ति तेषां देवेशि शिरांसि हरवल्लभा ।शाक्तेभ्य उत्तमो नास्ति स्वर्गे मर्त्ये रसातले
शाक्तस्तु शङ्करो ज्ञेयस्त्रिनेत्रश्चन्द्रशेखरः ।स्वयं गङ्गाधरो भूत्वा विहरेत् क्षितिमण्डले
”देवीं प्रति शिववाक्यम् ।“मदंशाश्चैव ये भूतास्ते शैवा नात्र संशयः ।त्वदंशाश्चैव शाक्ताश्च सत्यं वै गिरिनन्दिनि ।बहुवर्षसहस्रान्ते शैवाः शक्तिपरायणाः ।शाक्ता वै शङ्करा देवि यस्य कस्य कुलोद्भवाः
चाण्डाला ब्राह्मणाः शूद्राः क्षत्त्रिया वैश्य-सम्भवाः ।एते शाक्ता जगद्धात्रि मनुष्याः कदाचन
पश्यन्ति मानुषान् लोके केवलं कर्म्मचक्षुषा ।ब्राह्मणैः क्षत्त्रियैर्व्वैश्यैः शूद्रैरेव जातिभिः
वाममार्गप्रभावेण कर्त्तव्यं जपपूजनम् ।ये शाक्ता ब्राह्मणा देवि क्षत्त्रिया ब्राह्मणाःस्मृताः
वैश्याश्च ब्राह्मणा देवि सर्व्वे शूद्राश्च ब्राह्मणाः ।ब्राह्मणाः शङ्कराश्चण्डि त्रिनेत्राश्चन्द्रशेखराः
”इति मुण्डमालातन्त्रे पटलाः
*
“शाक्ता एव द्बिजाः सर्व्वे शैवा चवैष्णवाः ।उपासन्ते यतो देवीं गायत्त्रीं परमाक्षरीम्
”इति निर्व्वाणतन्त्रे पटलः
शक्त्युपासनानन्तरमन्योपासननिषेधो यथा, --“अस्याश्चाराधनं कृत्वा नान्यस्याराधनं चरेत् ।अन्यस्य स्मरणाद्देवि योगिनीशापमालभेत्
”इति गन्धर्व्वतन्त्रे पटलः
*
तस्य आभ्यन्तरस्नानं यथा, --“शाक्तमाभ्यन्तरस्नानमुक्तं श्रीपञ्चमीमते ।स्नानप्रकारो द्विविधो बाह्याभ्यन्तरभेदतः
आन्तरं आनमत्यन्तं रहस्यमपि सादरात् ।कथयामि भयध्वस्त्यै चतुर्व्वर्गफलाप्तये
सम्बित्त्रयमनुसृत्य चरणत्रयमध्यतः ।स्रवस्कं सच्चिदानन्दप्रभावं भावगोचरम्
विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् ।तेन प्लावितमात्मानं भावयेत् भयशान्तये
”इति विश्वसारतन्त्रे पटलः
*
तस्य कुशविशेषो यथा, --“तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया ।एष एव कुशः शाक्ते दर्भो वनसम्भवः
”इति श्यामारहस्यम्
(शक्तिमान् यथा, ऋग्वेदे १०३ ।“वाचं शाक्तस्येव वदति शिक्षमाणः
”“शिक्षमाणः शिक्ष्यमाणः शिष्यः शाक्तस्येवशक्तिमतः शिक्षकस्य वाचं यथा अनुवदतितद्वत् ।” इति तद्भाष्ये सायणः
)