शस्यं (zasyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशस्यं [शस्-यत्] 1 Corn or grain in general
दुदोह गां स यज्ञाय शस्याय मघवा दिवं R. 1. 26.
2 The produce or fruit of a plant or tree
शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते
see तंडुल also.
3 A merit.
Comp.
क्षेत्रं a corn-field.
भक्षक a. granivorous.
मंजरी {1} an ear of corn. {2} a fruit-stalk.
मालिन् a. crowned with harvests.
शालिन्,
संपन्न a. abounding in corn.
शूकं a beard of corn.
संपद् f. abundance of corn.
संब (व) रः the Sāla tree.
शब्दकल्पद्रुमः
Sanskritशस्यं, (शस + “तकिशसिचतियतीति ।”३ । १ । ९७ । इत्यस्य वार्त्तिकोक्त्या यत् ।) वृक्षादि-निष्पन्नम् । तत्पर्य्यायः । फलम् २ । इत्यमरः ॥
वृक्षाणां लतादीनाञ्च फलं निष्पन्नत्वमागतंआम्रादिकं शस्यं सस्यपदवाच्यं इत्यन्वयः ।फलति निष्पद्यते फलं फलनिष्पत्तौ पचादित्वा-दन् । सस्ति स्वपिति सस्यं सस लु र स्वप्ने कृद्धो-रिति यः सस्यं द्बिदन्त्यम् । ग्राम्यकविकथानुबन्धइव नीरसस्यमनोहरो देश इति नलदमयन्ती-श्लेषात् ।“श्रंसनं सीसकं सस्यं ग्रस्तं सास्ना च साध्व-सम् ॥
”इत्युष्मविवेकाच्च ॥
तालव्यादिदन्त्यान्तश्च तथाहि शन्सु हिंसास्तुत्योरित्यस्मात् कृ वृष मृजेतिक्यपि यत् शस्यं तत् क्रियावाच्येऽपि फलेऽपिदृश्यते । तालव्या अपि दन्त्याश्च शस्यशूकर-पांशव इत्युष्मभेदः । इति तट्टीकायां भरतः ॥
* ॥
क्षेत्रस्थधान्यादि । यथा, --“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतम् ॥
”इति स्मृतिः ॥
ग्राम्यशस्यानि यथा, --“व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः ।प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः ॥
”उदाराः दीर्घशालयः ।“माषा मुद्गा मसूराश्च निष्पावाः सकुलत्यकाः ।आढक्यश्चणकाश्चैव शाणाः सप्तदश स्मृताः ॥
इत्येता ओषधीनान्तु ग्राम्याणां जातयो मुने ॥
”ग्राम्यारण्यशस्यानि यथा, --“ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्द्दश ।व्रीहयश्च यवा माषा गोधूमाश्चाणवस्तिलाः ॥
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ।श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ॥
तथा वेणुयवाः प्रोक्तास्तथा मर्कटका मुने ।ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्द्दश ॥
”इति विष्णुपुराणे १ अंशे ६ अध्यायः ॥
* ॥
नवशस्यसम्भोगनक्षत्राणि यथा, --“अनुराधा मृगशिरो रेवती चोत्तरात्रयम् ।हस्ता चित्रा मघा पुष्या श्रवणा च पुनर्व्वसुः ॥
रोहिणी नवशस्यादिनवद्रव्याशनादिषु ।प्रशस्तं नवपीठादिसम्भोगं ग्रहविद्बदेत् ॥
” * ॥
नवशस्यश्राद्धादिकालो यथा, --“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥
”इत्यनेन शरद्बसन्तविहितनवशस्येष्टेः ।“श्यामाकैर्व्रीहिभिश्चैव यवैरन्योन्यकालतः ।प्राग्यज्ञं युज्यतेऽवश्यं न त्वत्राग्रयणात्ययः ॥
”इति कालान्तरदर्शनात् श्राद्धेऽपि तथा ।आग्रयणं नवशस्येष्टिः ।“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः ।अपरे क्रियमाणं हि धनुष्येव कृतं भवेत् ॥
धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु ।पितरस्तन्न गृह्णन्ति नवान्नामिषकाङ्क्षिणः ॥
”अपरे कृष्णपक्षे ।“पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः ।भवेत् जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥
यद्यपि व्रीहिपाके च यवपाके च पार्थिव ।न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥
”इति विष्णुधर्म्मोत्तरवचने श्राद्धं प्रति व्रीहियव-पाकयोर्निमित्तत्वं प्रतीयते । तथापि नवोदकेनवान्ने च इति शातातपवचने पूर्व्वोक्तबहुषुवचनेषु च नवान्नस्य श्रुतेर्नवान्नत्वेनैवोभयसाधा-रणं निमित्तं लाघवात् । अभिलापवाक्ये नवा-न्नागमनिमित्तमिति नियोज्यम् । न तु यवान्ना-गमादि । वृश्चिके शुक्लपक्षे च इति तु धनुरादि-पर्य्युदस्तेतरगौणकालमध्ये वृश्चिकस्य प्राशस्त्य-मात्रार्थं न तु श्राद्धान्तरार्थमिति । इति मल-मासतत्त्वम् ॥
अन्यत् नवान्नशब्दे द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
