| YouTube Channel

शशादः (zazAdaH)

 
Wordnet
Sanskrit
Synonyms:
शशादः
noun
इक्ष्वाकोः राजपुत्रः।
"शशादस्य वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
श्येनः, पत्री, शशादः, शशादनः, कपोतारिः, क्रव्यादः, क्रूरः, वेगी, खगान्तकः, करगः, लम्बकर्णः, रणप्रियः, रणपक्षी, पिच्छवाणः, स्थूलनीलः, भयङ्करः, शशघातकः, खगान्तकः, घातिपक्षी, नीलपिच्छः, सत्काण्डः, पतद्भीरुः, ग्राहकः, मारकः
noun
पक्षिविशेषः-यः भारतदेशे सर्वत्र दृश्यते।
"श्येनः काकसदृशः श्वेतोदरः नीलपृष्ठवान् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
शशादः,
पुं,
(शशमत्तीति अद + अच् ।) श्येन-पक्षी इति राजनिर्घण्टः
(इक्षाकुपुत्त्रः ।यथा, महाभारते २२१ ।“इक्षाकौ संस्थिते राजन् शशादः पृथिवी-मिमाम् ।प्राप्तः परमधर्म्मात्मा सोऽयोध्यायां नृपोऽभवत्
”अस्य विकुक्षिरिति नाम आसीत् अयं हिपित्रनुज्ञातः श्राद्दार्थं मांसमानेतुं वनं गतःमृगान् व्यापादयामास ततोऽतिश्रान्तः क्षुत्-परीत एकं शशमभक्षत् अतोऽस्य शशाद इतिनाम अजायत एतद्बिवरणं भागवते ६अध्याये तथा विष्णुपुराणे अध्याये चद्रष्टव्यम्
)