| YouTube Channel

शनिवारः (zanivAraH)

 
Wordnet
Sanskrit
Synonyms:
शनिवारः, शनिवासरः, मन्दवारः, मन्दवासरः, कृतान्तः
noun
सप्ताहस्य षष्ठः दिनः।
"शनिवासरे विरामो अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
शनिवारः,
पुं,
(शनिभोग्यः शनेर्वा वारः ।) शनि-भोग्यसावनदिनम् तत्तु उदयादोदयकालः ।यथा, --“सूतकादिपरिच्छेदो दिनमासाब्दपास्तधा ।मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः
”दिनाधिपस्य रव्यादेर्भ्योग्यं दिनं वाररूपंसावनगणनोक्तम् ।“उदयादोदयाद्भानोर्भौमसावनवासराः
”इति तिथ्यादितत्त्वम्
शतभिषानक्षत्रयुक्तमधुकृष्णत्रयोदश्यां शनिवार-योगे महावारुणी स्यात् यथा स्कन्दपुराणे ।“वारुणेन समातुक्ता मधौ कृष्णा त्रयोदशी ।गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ।शनिवारसमायुक्ता सा महावारुणी स्मृता
”इति तिथ्यादितत्त्वम्
*
तत्र जातफलं यथा, --“कृशः सुवेशः कुलकीर्त्तिहीनोज्वरायुतो मध्यधनोऽङ्गहीनः ।तमोगुणः क्लेशकरो नराणांमन्दस्य वारप्रभवोऽतिमन्दः
”इति कोष्ठीप्रदीपः
*
तत्र यात्रानिषेधो यथा, --“संत्यजेद्दिवसे यात्रां सूर्य्यारार्कीन्दुवक्रिणाम् ।”इति ज्योतिस्तत्त्वम्
वारवेलादि शनिशब्दे द्रष्टव्यम्