| YouTube Channel

शतह्नदा (zatahnadA)

 
शब्दकल्पद्रुमः
Sanskrit
शतह्नदा,
स्त्री,
(शतं ह्रदा अर्चिंषि यस्याः ।यद्वा, शतं ह्रादाः शब्दाः यस्याः निपातनात्ह्रस्वः ।) विद्युत् इत्यमरः
(यथा, हरिवंशे ।१४६ ४८ ।“समुद्रमेघः रराज राजन्शतह्रदास्त्रीप्रभयाभिरामः
”)वज्रम् इति मेदिनी
दक्षकन्याविशेषः यथा, “ददौ बाहुपुत्त्राय द्वौ तडिच्च शतह्रदा ।तयोः पुत्त्राश्च विद्वांसश्चतस्रो विद्युतः शुभाः
”इति वह्निपुराणे सर्गानुकीर्त्तने सतीदेहत्यागोनामाध्यायः
वाचस्पत्यम्
Sanskrit
शतह्नदा स्त्री शतं ह्रादाः शब्दायस्याः पृषो० ह्रस्वः ।१ विद्युति अमरः वज्रे मेदि० दक्षकन्याभेदे वह्निपु०