| YouTube Channel

शतपत्री (zatapatrI)

 
शब्दकल्पद्रुमः
Sanskrit
शतपत्री,
स्त्री,
(शतं पत्राणि यस्याः ङीप् ।)पुष्पविशेषः सेउती इति भाषा पाटल-वर्णासौ गोलाव इति वदन्ति तत्पर्य्यायः ।सुमनाः सुशीता शिववल्लभा सौम्य-गन्धी शतदला सुवृत्ता शतपत्रिका ।अस्या गुणाः हिमत्वम् तिक्तत्वम् कषा-यत्वम् कुष्ठमुखस्फोटपित्तदाहनाशित्वम् ।रुच्यत्वम् सुरभित्वञ्च इति राजनिर्घण्टः