शङ्खः (zaGkhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishशङ्खः [śaṅkhḥ] ङ्खम् [ṅkham], ङ्खम् [शम्-ख 1.12]
The conch-shell, a shell
न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तो$पि 4.11
शङ्खान् दध्मुः पृथक् पृथक् 1.18.
The bone on the forehead
शङ्खान्तरद्योति विलोचनं यत् 7.33
6. 48.1.
The temporal bone.
The part between the tusks of an elephant.
A hundred billions.
A military drum or other martial instrument.
A kind of perfume (नखी).
One of the nine treasures of Kubera.
of a demon slain by Viṣṇu.
of the author of a Smriti (mentioned in conjunction with लिखित q. v. ).
A bracelet (made of conchshell)
अवघ्नन्त्या प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् 11. 9.6. -अन्तरम् the forehead.
आवर्तः the convolution of a shell.
a kind of fistula in the rectum. -उदकम् the water poured into a conch-shell. -कारः, -कारकः a shell-cutter described as a kind of mixed caste. -क्षीरम् an impossibility
खपुष्प. -चरी, -चर्ची a mark made with sandal (on the forehead). -चूर्णम् powder produced from shells. -जः a large pearl (of the shape of a pigeon's egg). -द्रावः, -द्रावकः a solvent for dissolving shells. -द्राविन् Rumex Vesicarius (आम्ल- वेतस्, चुका). -ध्मः, -ध्मा a shell-blower, conchblower
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः BriUp.* 2.4.8. -ध्वनिः the sound of a conch (sometimes, but erroneously, used to denote a cry of alarm or despair). -नखः a kind of aquatic animal, snail
लग्नैः शङ्खनखैः * 13.5.2.
पालः an epithet of the sun.
a kind of sweetmeat (Mar. शंकरपाळे).
a kind of snake. -प्रस्थः a spot on the moon. -भृत् an epithet of Viṣṇu. -मुखः an alligator. -मुक्ता the mother of pearls. -लिखितः a righteous or just king. (-dual) of two writers of Smṛitis. -वलयः a shell-bracelet.-वेला the hour at which the conch is blown
यथा शङ्खवेलायामागन्तव्यमिति यस्मिन्नपि ग्रामे शङ्खो नाध्मायते तस्मिन्नपि स तथाकालो$स्तीति न आगमनं परिहास्यते ŚB. on MS.* 6.4.42.-स्वनः the sound of a conch.
Hindi
Hindi(पु) एक शंख
Apte Hindi
Hindiशङ्खः
- शम्+ख
शंख का बना कंकण
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit शङ्खः, काहलः
वाहनादिषु अन्यान् सूचयितुं वर्तमानं वस्तु यस्य नोदनेन ध्वनिः श्रूयते।
"भारवाहकस्य शङ्खस्य ध्वनिः दूरे अपि श्रूयते।"
शङ्खः
छप्पयछन्दसः एकसप्ततौ भेदेषु एकः।
"शङ्खे द्विपञ्चाशताधिकैशतमात्राः अथवा नवचत्वारिंशत् वर्णाः भवन्ति।"
शङ्खः
गण्डस्थलस्य हड्डम्।
"चिकित्सकः शङ्खे क्षरश्मेः प्रयोगं करोति।"
शङ्खः
एकस्य अग्रे सप्तदशशून्यलेखनेन प्राप्ता सङ्ख्या।
"शतपद्मैः एकः शङ्खः भवति।"
शङ्खः, अम्भोजः, कम्बुः, कम्बोजः, अम्बुजः, अब्जः जलजः, अर्णोभवः, पावनध्वनिः, अन्तकुटिलः, महानादः, श्वेतः, पूतः, मुखरः, दीर्घनादः, बहुनादः, हरिप्रियः
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्मिकादिषु अनुष्ठानेषु नादः क्रियते।
"पण्डितः सत्यनारायणकथायां शङ्खस्य नादः करोति।"
शङ्खः, कम्बुः, कम्बोजः, अब्जः, अर्णोभवः, पावनध्वनाः, अन्तकुटिलः, महानादः, श्वेतः, पूतः, मुखरः, दीर्घनादः, बहुनादः, हरिप्रियः, कस्रुः, दरम्, जलजः, रेवटः
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
"शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।"
ललाटः, ललाटम्, अतिकम्, गोधिः, महाशङ्खः, शङ्खः, भालः, कपालकः, अलीकम्
अवयवविशेषः, मस्तकस्य अग्रभागः।
"रामस्य ललाटः तेजसा आभाति ।/ उन्नतैः, विपुलैः शङ्खैः ललाटैः विषमैः तथा निर्धना धनवन्तश्च अर्ध्देन्द्रसदृशैर्नराः।"
अमरकोशः
SanskritWord: शङ्खः
Root: शङ्ख
Gender: पुं
Number: all
Meaning(s):
⇒ temple
⇒ temporal bone
⇒ kind of metre
⇒ particular mantra
⇒ military drum or other martial instrument
⇒ elephant's cheek or the part between the tusks
⇒ one of the ingredient of the Mosaic incense [Unguis Odoratus - Bot.]
Shloka(s):
1|10|23|1 ► मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ। (वारिवर्गः)
3|3|32|2 ► अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु॥ (नानार्थवर्गः)
Synonym(s):
➠ 1|10|23|1 ⇢ शङ्खः (शङ्ख) (पुं) ⇒ temple, temporal bone, kind of metre, particular mantra, military drum or other martial instrument, elephant's cheek or the part between the tusks, one of the ingredient of the Mosaic incense [Unguis Odoratus - Bot.]
➠ 1|10|23|1 ⇢ शङखम् (शङ्ख) (नपुं) ⇒ temple, temporal bone, kind of metre, particular mantra, military drum or other martial instrument, elephant's cheek or the part between the tusks, one of the ingredient of the Mosaic incense [Unguis Odoratus - Bot.]
➠ 1|10|23|1 ⇢ कम्बुः (कम्बु) (पुं) ⇒ neck, conch, shell, elephant, tube-shaped bone, sort of turmeric, bracelet in general, bracelet or ring made of shells, three lines or marks in the neck, vein or tubular vessel of the body
➠ 1|10|23|1 ⇢ कम्बु (कम्बु) (नपुं) ⇒ neck, conch, shell, elephant, tube-shaped bone, sort of turmeric, bracelet in general, bracelet or ring made of shells, three lines or marks in the neck, vein or tubular vessel of the body
➠ 3|3|32|2 ⇢ अब्जः (अब्ज) (पुं) ⇒ moon, conch, born in water, son of vizAla, giga- [computer], Indian Oak [Barringtonia acutangula - Bot.]
Related word(s):
जातिः ➡ जलीयः
परा_अपरासंबन्धः ➡ सूक्ष्मशङ्खः
उपजीव्य_उपजीवक_भावः ➡ शङ्खवादकः
शब्दकल्पद्रुमः
Sanskritशङ्खः, (शाम्यति अशुभमस्मादिति । शम +“शमेः खः ।” उणा० १ । १०४ । इति खः ।)समुद्रोद्भवजन्तुविशेषः । शाँख इति भाषा ।तत्पर्य्यायः । कम्बुः २ । इत्यमरः ॥
कम्बोजः ७अब्जः ४ जलजः ५ । इति शब्दरत्नावली ॥
अर्णोभवः ६ पावनध्वनिः ७ अन्तःकुटिलः ८महानादः ९ श्वेतः १० पूतः ११ मुखरः १२दीर्घनादः १३ बहुनादः १४ हरिप्रियः १५ ।अस्य गुणाः । कटुरसत्वम् । शीतत्वम् । पुष्ठि-वीर्य्यबलप्रदत्वम् । गुल्मशूलकफश्वासविषदोषना-शित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।“कम्बुशङ्खनखश्चापि शुक्तिशम्बूककर्कटाः ।जीवा एवंविधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥
कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः ।वृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥
”इति भावप्रकाशः ॥
अन्यच्च ।“शङ्खोदधिमलौ शीतौ कषायावतिलेखनौ ।”इति राजवल्लभः ॥
* ॥
अस्योत्पत्त्यादिर्यथा ।“अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ।ग्रीष्ममध्याह्नमार्त्तण्डशतकरुचमुत्तमम् ॥
शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि ।चकार भस्मसात्तञ्च सरथञ्चावलीलया ॥
स शिवस्तेन शूलेन दानवस्यास्थिजालकम् ।प्रेम्णा च प्रेरयामास लवणोदे च सादरम् ॥
अस्थिभिः शङ्खचूडस्य शङ्खजातिर्ब्बभूव ह ।नानाप्रकाररूपा च शश्वत्पूता सुरार्च्चने ॥
प्रशस्तं शङ्खतोयञ्च देवानां प्रीतिदं परम् ।तीर्थतोयस्वरूपञ्च पवित्रं शम्भुना विना ॥
शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा ।स स्नातः सर्व्वतीर्थेषु यः स्नातः शङ्खवारिणा ॥
शङ्खे हरेरधिष्ठानं यतः शङ्खस्ततो हरिः ।तत्रैव सततं लक्ष्मीर्द्दूरीभूतममङ्गलम् ॥
स्त्रीणाञ्च शङ्खध्वनिभिः शूद्रानाञ्च विशेषतः ।भीता रुष्टा याति लक्ष्मीः स्थलमन्यत् स्थला-त्ततः ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १८ अध्यायः ॥
* ॥
अथ शङ्खमाहात्म्यम् ।ब्रह्मोवाच ।“शृणु शङ्खस्य माहात्म्यं सर्व्वपापहरं शुभम् ॥
कपिला क्षीरमादाय शङ्खे कृत्वा जनार्द्दनम् ।यज्ञायुतसहस्रस्य स्नापयित्वा लभेत् फलम् ॥
पयस्विन्याः शुभं क्षीरं शङ्खे कृत्वा तु नारद ।यः स्नापयति देवेशं स गच्छेद्ब्रह्मणः पदम् ॥
क्षिप्त्वा गङ्गोदकं शङ्खे यः स्नापयति माधवम् ।नमो नारायणेत्युक्त्वा मुच्यते योनिसङ्कटात् ॥
शङ्खलग्नन्तु यत्तोयं भ्रमितं केशवोपरि ।निःक्षिपेन्मूर्द्ध्नि सततं गङ्गास्नानेन तस्य किम् ॥
कृत्वा पादोदकं शङ्खे वैष्णवाय प्रयच्छति ।तिलमिश्रं तुलस्या च चान्द्रायणफलं लभेत् ॥
नदीतडागजं वारि वापीकूपह्रदोद्भवम् ।गाङ्गेयं तद्भवेत् सर्व्वं कृतं शङ्खे हरिप्रिय ॥
गृहीत्वा विष्णुपादाम्बु शङ्खे कृत्वा च वैष्णवः ।यो वहेत् शिरसा नित्यं स मुने तापसोत्तमः ॥
त्रैलोक्ये यानि तीर्थानि वासूदेवाज्ञया मुने ।शङ्खं तान्यधितिष्ठन्ति तस्मात् शङ्खं सदार्च्चयेत् ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।नमितः सर्व्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥
पुरतो वासुदेवस्य सपुष्पफलचन्दनैः ।शङ्खः समर्च्चितो येन तस्य लक्ष्मीर्न दुर्लभा ॥
दर्शनेनापि शङ्खस्य किमु तस्यार्च्चनेन च ।विलयं यान्ति पापानि हिमः सूर्य्योदये यथा ॥
गर्भा देवारिनारीणां विनश्यन्ति सहस्रधा ।तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥
तीर्थोदकं हरेर्मूर्द्ध्नि भ्रामयेत् शङ्खसंस्थितम् ।ददाति मुक्तिं देवेशः क्षीरसागरजाप्रियः ॥
यमदूताश्च कुष्माण्डपिशाचोरगराक्षसाः ।दृष्ट्वा शङ्खोदकं मूर्द्ध्नि भीता यान्ति दिशो दश ॥
नित्ये नैमित्तिके काम्ये स्नानार्च्चनविलेपने ।शङ्खं समर्च्चयति यः श्वेतद्बीपे वसेद्धि सः ॥
”इति पाद्मोत्तरखण्डे १२९ अध्यायः ॥
* ॥
अथ दक्षिणावर्त्तशङ्खमाहात्म्यम् ।“दक्षिणावर्त्तशङ्खेन गत्वा प्राक्श्रोतसं नदीम् ।कृत्वाभिषेकं विधिवत् ततः पापैः प्रमुच्यते ॥
दक्षिणावर्त्तशङ्खेन तिलमिश्रोदकेन तु ।उदके नाभिमात्रे तु यः कुर्य्यादभिषेचनम् ॥
प्राक्श्रोतस्यां तु वै नद्यां नरस्तत्राम्भसाप्लुतः ।यावज्जीवकृतं पाषं तत्क्षणादेव नश्यति ॥
दक्षिणावर्त्तशङ्खेन पात्रशोधं धरे स्थितम् ।उदकं यः प्रतीच्छेत शिरसा हृष्टमानसः ॥
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ।न शङ्खेन पिबेत्तोयं न हन्यान्मत्स्यशूकरौ ॥
”इति वाराद्वे प्रबोधनीमाहात्म्याध्यायः ॥
* ॥
दक्षिणावर्त्तशङ्खतोयेन विष्णुपूजाफलं यथा ।स्कान्दे ।“दक्षिणावर्त्तशङ्खस्य तोयेन योऽर्च्चयेद्धरिम् ।सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
”इत्याह्निकाचारतत्त्वम् ॥
स च शङ्खः रत्नविशेषः । तल्लक्षणादि यथा, --“क्षीरोदकूलेऽपि सुराष्ट्रदेशेतदन्यतोऽपि प्रभवन्ति शङ्खाः ।अरुष्कवर्णाः शशिशुभ्रभासःसुसूक्ष्मवक्त्रा गुरवो महान्तः ॥
ते वामदक्षिणावर्त्तभेदेन द्विविधा मताः ।दक्षिणावर्त्तशङ्खस्तु कुर्य्यादायुर्यशो धनम् ॥
तेनैव शिरसा यस्तु श्रद्दधानः प्रतीच्छति ।वारि हित्वा स पापानि पुण्यमाप्नोति मानवः ॥
वृत्तत्वं स्निग्धताच्छत्वं शङ्खस्येति गुणत्रयम् ।आवर्त्तभङ्गदोषो हि हेमयोगाद्बिनश्यति ॥
ब्रह्मादिजातिभेदेन स पुनस्तु चतुर्व्विधः ॥
” * ॥
इति युक्तिकल्पतरुः ॥
श्रीकृष्णार्ज्जुनादिशङ्खनामानि यथा, --“पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥
अनन्तविजयं राजा कुन्तीपुत्त्रो युधिष्ठिरः ।नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
”इति श्रीभगवद्गीतायाम् १ अध्यायः ॥
अयन्तु रणवाद्यविशेषः । यथा, --“भक्ततूर्य्यं गन्धतूर्य्यं रणतूर्य्यं महास्वनः ।संग्रामपटहः शङ्खस्तथा चाभयडिण्डिमः ॥
महाद्बन्द्वो नृपाभीरुर्भीरुः कोलाहलोऽपि च ।युद्धवादस्य पर्य्यायश्चान्ये भेदाः शलादयः ॥
”इति शब्दरत्नावली ॥
ललाटास्थि । (यथा, सुश्रुते । १ । ५ ।“तत्र भ्रूगण्डशङ्खललाटाक्षिपुटौष्ठदन्तवेष्टकक्षा-कुक्षिवङ्खणेषु तिर्य्यक्छेद उक्तः ॥
”) कुवेरस्यनिधिविशेषः । (यथा, महाभारते । २ । १० ।३६ ।“निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ ॥
”यथा च मार्कण्डेये । ६८ । ४२ -- ४५ ।“रजस्तमोमयश्चान्यः शङ्खसंज्ञो हि यो निधिः ।तेनापि नीयते विप्र तद्गुनित्वं निधीश्वरः ॥
एकस्यैव भवत्येष नरं नान्यमुपैति च ।यस्य शङ्खो निधिस्तस्य स्वरूपं क्रौष्टुके शृणु ॥
एक एवात्मना सृष्टमन्नं भुङक्ते तथाम्बरम् ।कदन्नभुक् परिजनो न च शोभनवस्त्रधृक् ॥
न ददाति सुहृद्भार्य्या भ्रातृपुत्त्रस्नुषादिषु ।स्वपोषणपरः शङ्खी नरो भवति सर्व्वदा ॥
”)नखीनामगन्धद्रव्यम् । इत्यमरमेदिनीकारौ ॥
(यथा, सुश्रुते । ६ । १७ ।“मनःशिला त्र्यूषणशङ्खमाक्षिकैःससिन्धुकासीसरसाञ्जनैः क्रियाः ॥
”)कर्णसमीपास्थि । इति राजनिर्घण्टः ॥
(यथा, याज्ञवल्क्ये । ३ । ९६ ।“कर्णौ शङ्खौ भ्रुवौ दण्डवेष्टावोष्ठौ ककुन्दरे ॥
”)अष्टनागनायकान्तर्गतनागविशेषः । (यथा, मनसापूजापद्धतौ ।“अनन्तो वासुकिः पद्मो महापद्मस्तु तक्षकः ।कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकी-र्त्तिताः ॥
”)हस्तिदन्तमध्यम् । इति त्रिकाण्डशेषः ॥
दश-निखर्व्वसंख्या । लक्षकोटिरिति यावत् । यथा, “एकं दशशतञ्चैव सहस्रमयुतं तथा ।लक्षञ्च नियुतं चैव कोटिरर्व्वुदमेव च ॥
वृन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः ।अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥
”इति भरतधृतब्रह्माण्डपुराणवचनम् ॥
* ॥
धर्म्मशास्त्रप्रयोजकमुनिविशेषः । यथा, --“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।यमापस्तम्बसम्बर्त्ताः कात्यायनबृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥
”इति याज्ञवल्क्यवचनम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
