व्रीहिः (vrIhiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishव्रीहिः [vrīhiḥ], [व्री-हि किच्च]
Rice
as in बहुव्रीहि q. v.
A grain of rice. -अगारम् a granary. -काञ्चनम् a kind of pulse (Mar. मसुरा). -मयः a sacrifial cakeश
Apte 1890
EnglishWordnet
Sanskrit धान्यम्, शस्यम्, सीत्यम्, गारित्रः, स्तम्बकरिः, बीजरुहः, जीवसाधनम्, व्रीहिः
प्रकाण्डरहितवृक्षस्य बीजानि।
"एतद् प्रकोष्ठं धान्येन पूरितम्।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilவ்ரீஹி: : நெல், அரிசி.
अमरकोशः
SanskritWord: व्रीहिः
Root: व्रीहिः
Gender: undefined
Number: undefined
Meaning(s):
⇒ rice
⇒ any grain
⇒ field of rice
⇒ rice grains of rice
⇒ rice ripening in the rainy season
Shloka(s):
2|9|15|2 ► आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ॥ (वैश्यवर्गः)
Synonym(s):
➠ 2|9|15|2 ⇢ आशुः (आशु) (पुं)
➠ 2|9|15|2 ⇢ आशुः (आशु) (स्त्री)
➠ 2|9|15|2 ⇢ आशुम् (आशु) (नपुं)
➠ 2|9|15|2 ⇢ व्रीहयः (व्रीहि) (पुं) ⇒ rice, any grain, field of rice, rice grains of rice, rice ripening in the rainy season
➠ 2|9|15|2 ⇢ पाटलः (पाटल) (पुं) ⇒ pink, pallid, pale red, pink color, red lodhra, rose colour, pale red hue, form of durgA, kind of fresh water fish, species of rice ripening in the rains, red kamala plant [Mallotus philippensis - Bot.], kaaSTa paaTali tree [Bignonia Suaveolens - Bot.]
Related word(s):
परा_अपरासंबन्धः ➡ व्रीहिभेदः
उपाधि ➡ प्राकृतिकखाद्यम्
शब्दकल्पद्रुमः
Sanskritव्रीहिः, (वर्हति वृद्धिं गच्छतीति । वृह वृद्धौ+ “इगुपधात् कित् ।” उणा० ४ । ११९ । इतिइन् । पृषोदरादित्वात् साधुः ।) धान्यमात्रम् ।आशुधान्यम् । इत्यमरः ॥
अस्य सामान्यनाम-गणना गुणाश्च यथा, --“धान्यं भोग्यञ्च भोगार्हमन्नाद्यं जीवसाधनम् ।तच्च तावत्त्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥
व्रीह्यादिकं यदि ह शूकसमन्वितं स्यात्यत् शूकधान्यमयमुद्गमकुष्टकादि ।शिम्बीनिगूढमिति तत्प्रवदन्ति शिम्बी-धान्यं तृणोद्भवतया तृणधान्यमन्यत् ।तत्र त्रिदोषशमनं लघु शूकधान्यंतेजोबलातिशयवीर्य्यविवृद्धिदायि ।शिम्बीभवं गुरु हिमञ्च विबन्धदायिवातालकन्तु शिशिरं तृणधान्यमाहुः ॥
देशे देशे शूकधान्येषु संख्याज्ञातुं शक्या नैव तैर्द्दैवतैर्व्वा ।अस्मादेषां येषु भोगोपभोगा-स्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥
शालयः कलमा रुच्या व्रीहिश्रेष्ठा नृपप्रियाः ।धान्योत्तमाश्च विज्ञेयाः कैदाराः सुकुमारकाः ॥
राजान्नषष्टिकसितेतररक्तमुण्ड-स्थूलाणुगन्धतिरियादिकशालिसंज्ञाः ।व्रीहिस्तथेति दशधा भुवि शायनाः स्यु-स्तेषां क्रमेण गुणनामगणं ब्रवीमि ॥
व्रीहिर्गौरो मधुरशिशिरः पित्तहारी कषायःस्निग्धो वृष्यः कृमिकफहरस्तापरक्तापहश्च ।पुष्टिं दत्ते श्रमशमनकृद्वीर्य्यवृद्धिं विधत्तेरुच्योऽत्यन्तं जनयति मुदं वातकृन्मेचकोऽन्यः ॥
”इति राजनिर्घण्टः ॥
अपि च ।“वार्षिकाः काण्डिताः शुक्ला व्रीहयश्चिर-पाकिनः ।कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि ॥
शालमुखो जतुमुख इत्याद्या व्रीहयः स्मृताः ।कृष्णव्रीहिः स विज्ञेयो यत्कृष्णतुषतण्डुलाः ॥
पाटलः पाटलापुष्पवर्णको व्रीहिरुच्यते ।कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कुटाण्डक उच्यते ॥
शालमुखः कृष्णशूकः कृष्णतण्डुल उच्यते ।लाक्षावर्णमुखं तस्य ज्ञेयो जतुमुखस्तु सः ॥
व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः ।अल्पाभिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः ॥
कृष्णव्रीहिर्व्वरस्तेषां तस्मादल्पगुणाः परे ॥
”इति भावप्रकाशः ॥
तस्य यज्ञीयत्वं यथा, --“यज्ञार्थं तन्तु भूतानां भक्ष्यमित्येव वै श्रुतिः ।दिव्यो भौमस्तथा पैत्रो मानुषो ब्राह्म एव च ॥
एते पञ्च महायज्ञा ब्रह्मणा निर्म्मिताः पुरा ।ब्राह्मणानां हितार्थाय इतरेषां च तन्मुखाः ॥
इतरेषां तु वर्णानां ब्राह्मणैः कारिताः शुभाः ।एवं कृत्वा नरो भुक्त्वास्माद्धरित्रि ! विशुध्यति ॥
अन्यथा व्रीहयोऽप्येते एकैके मृगपक्षिणः ।मन्तव्या दातृभोक्तॄणां महामांसं तु तत्स्मृतम् ॥
”इति वाराहे आदिकृतवृत्तान्ताध्यायः ॥
तेन पितृतृप्तिर्यथा । मनुः ।“तिलैर्वीहियवैर्माषैरद्भिर्मूलफलेन वा ।दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥
”व्रीहिः शरत्पक्वधान्यम् । याज्ञवल्क्यः ।“हविष्यान्नेन वै मासं पायसेन च वत्सरम् ।मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ।मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥
”हरिष्यान्नेन शालिव्रीह्यन्नेन । इति । अमा-वास्यास्त्रिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयो-दशी व्रीहियवपाकौ च ।“एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा-पतिः ।श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥
”इति विष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहि-यवोभयप्राप्तिविषयकत्वेन विधायकं ग्रैष्मादि-धान्यव्युदासाय । शालिधान्यस्य तु प्राप्तिः ।“शरद्वसन्तयोः केचित् नवयज्ञं प्रचक्षते ।धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥
”इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येऽष्टौ-शालिविधानात् यज्ञतुल्यन्यायात् श्राद्धेऽपि तथाकल्पनात् । इति च श्राद्धतत्त्वम् ॥
* ॥
नवान्न-श्राद्धकालो यथा । विष्णुः । अमावस्यास्तिस्रो-ऽष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्टपद्यूर्द्ध्वं कृष्ण-त्रयोदशी व्रीहियवपाकौ च ।“एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ।श्राद्धमेतेष्वकुर्व्वाणो नरकं प्रतिपद्यते ॥
व्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव ।न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥
”इति मलमासतत्त्वम् ॥
तेन यागकरणं यथा, --व्रीहिभिर्यजेत यवैर्यजेत इति श्रूयते ॥
तत्र“व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः ।अप्रतीतयवाप्रामाण्यकल्पनम् ।” इत्येकादशी-तत्त्वम् ॥
* ॥
व्रीह्यप्राप्तौ शालिधान्येन कर्म्म-करणं यथा, --“यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।यवानामिव गोधूमा व्रीहीणामिव शालयः ॥
”इति तिथ्यादितत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
