| YouTube Channel

व्रीङ् (vrIG)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
व्री
मूलधातुः:
व्रीङ्
धात्वर्थः:
वरणे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
व्रीयते
अनुबन्धादिविशेषः:
ओदित्
धातुप्रदीपः
Sanskrit
व्रीङ् वृणोत्यर्थे
- व्रीयते विव्रिये व्रीणः (1) स्वादय ओदितः (10) ओदित्त्वस्य फलम् ओदितश्च (8245) इति निष्ठानत्वम् 34
क्षीरतरङ्गिणी
Sanskrit
व्रीङ् वृणोत्यर्थे
- (अर्थविवरणम्) वृणोत्यर्थो वरणम्
व्रीयते व्रीणः क्र्य्यादौ व्री वरणे (935)-व्रीणति 32
धातुवृत्तिः
Sanskrit
व्रीङ् (अर्थः) वृणोत्यर्थे
दन्त्योष्ठ्यादिः (व्रीयते विव्रीये) संयोगपूर्वतृवाद्यण् भवति ( व्रेता ) इत्यादि रीवत् "स्वादय ओदितः' "षूङ् प्राणिप्रसव' इत्यारभ्य एतदन्ता ओदितः तत्फलम् "ओदितश्च'' इति निष्ठानत्वम् व्री वरणे इति क्र्यादौ 32
कृदन्तरूपमाला
Sanskrit
1 {@“व्रीङ् वृणोत्यर्थे”@} 2 ‘-- वरणे-आवरणे सामीप्ये’ इति काशकृत्स्नः।
‘व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि।’ 3 इति देवः।
‘-- छादनं परिग्रहो वा तत्’ इति धा।
का।
व्याख्यायाम् 4।
व्रायकः-यिका, व्रायकः-यिका, विव्रीषकः-षिका, वेव्रीयकः-यिका
व्रेता-त्री, व्राययिता-त्री, विव्रीषिता-त्री, वेव्रीयिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि दैवादिकधीङ्धातुवत् 5 ज्ञेयानि।
धातोरस्य आत्मनेपदित्वात् शानचि व्रीयमाणः, व्रेष्यमाणः इति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६६६)
02
=>
(४-दिवादिः-११४०। सक। अनि। आत्म।)
03
=>
(श्लो। १९)
04
=>
(१-५८)
05
=>
(९०१)