| YouTube Channel

व्याप्यः (vyApyaH)

 
शब्दकल्पद्रुमः
Sanskrit
व्याप्यः, त्रि, (वि + आप् + ण्यत् ।) व्याप्ति-विशिष्टः व्यापनीयः यथा, --“प्रस्थानं ते कुलिशकलनान्निश्चितं पण्डिताग्रौ-श्चित्तेऽस्माकं तदपि रमते याहि याहीति वाणी ।अप्रामाण्यं कथयति सदा नन्दसूनोर्वियोगोव्याप्यज्ञानाद्व्रजकुलभुवां व्यापकस्यापिसिद्धौ
”इति पदाङ्कदूतः
(यथा, भागवते २२ ।“प्रत्यगात्मस्वरूपेण दृश्यरूपेण स्वयम् ।व्याप्य व्यापकनिर्द्देश्यो ह्यनिर्द्देश्योऽविकल्पितः
”)