| YouTube Channel

व्यापी (vyApI)

 
शब्दकल्पद्रुमः
Sanskrit
व्यापी, [न्]
पुं,
(व्याप्नोति सर्व्वमिति वि +आप + णिनिः ।) विष्णुः यथा, --“स्वपनः स्ववशो व्यापी नैकात्मा नैककर्म्मकृत्
”इति महाभारते ।तस्य सहस्रनामस्तोत्रे १३ १४९ ६३
त्रि, व्यापकः यथा, --“त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।न तत्र युग्गादरणमन्यत्र हरिवासरात्
”इति तिथ्यादितत्त्वधृतपराशरवचनम्