| YouTube Channel

व्यस्तः (vyastaH)

 
शब्दकल्पद्रुमः
Sanskrit
व्यस्तः (वि + अस् + क्तः ।) व्याकुलः व्याप्तः ।इति मेदिनी
प्रत्येकम् पृथक् पृथक् यथा, विश्वामित्रः ।“कृच्छ्रचान्द्रायणादिनि शुद्ध्यभ्युदयकारणम् ।प्रकाशे रहस्ये संशयेऽनुक्तकेऽस्फुटे
प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः ।अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः
महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः
एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा ।पातकादिषु सर्व्वेषु पातकेषु प्रयत्नतः ।कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये
”इति प्रायश्चित्ततत्त्वम्
विपरीतः यथा, --“प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् ।एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम्
”इति तिथ्यादितत्त्वम्