| YouTube Channel

व्यवायी (vyavAyI)

 
शब्दकल्पद्रुमः
Sanskrit
व्यवायी, [न्] पुं
स्त्री,
(व्यवैतुं शीलमस्य ।णिनिः ।) कामुकः यथा, --“श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य ।व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन्
”इति श्राद्धतत्त्वम्
(व्यवधानकर्त्ता यथा, पाणिनौ “व्यवा-यिनोऽन्तरम् ।” १६६ “व्यवायीव्यवधाता ।” इति काशिका
)