| YouTube Channel

व्यञ्जना (vyaJjanA)

 
Spoken Sanskrit
English
व्यञ्जना - vyaJjanA -
f.
- allusion
उल्लेख - ullekha -
m.
- allusion
प्रस्ताव - prastAva -
m.
- allusion
ध्वनि - dhvani -
m.
- allusion
उपक्षेप - upakSepa -
m.
- allusion
सङ्केत - saGketa -
m.
- allusion
न्यङ्ग - nyaGga -
n.
- allusion
उपक्षेपण - upakSepaNa -
n.
- allusion
ध्वनन - dhvanana -
n.
- allusion
व्यञ्जन - vyaJjana -
n.
- allusion
समुत्क्षेप - samutkSepa -
m.
- allusion to
सूचन - sUcana -
n.
- allusion to
गाम्भीर्य - gAmbhIrya -
n.
- hidden allusion
ध्वनित्व - dhvanitva -
n.
- figurative allusion
प्रस्तोभ - prastobha -
m.
- allusion or reference to
पूर्ववाक्य - pUrvavAkya -
n.
- allusion to a former utterance
ध्वनिमत् - dhvanimat -
adj.
- containing a hint or an allusion
व्यङ्ग्य - vyaGgya -
adj.
- indicated by allusion or insinuation
उन्मीलित - unmIlita -
n.
- unconcealed or open reference or allusion to
मैथुनाभाषण - maithunAbhASaNa -
n.
- conversation in which allusions are made to sexual intercourse
प्रस्तुताङ्कुर - prastutAGkura -
m.
- allusion by the mention of any passing circumstance to something latent in the hearer's mind
Apte
English
व्यञ्जना [vyañjanā], 1 See व्यञ्जन (12) above.
Irony, sarcasm.
Insinuation.
Articulation, utterance of words
हीनव्यञ्जनया प्रेक्ष्य भीतचित्त इवाब्रूवम्
Rām.*
2.64.11.
Comp.
-वृत्तिः
f.
insinuation, figurative or elliptical mode of expression.
Monier Williams Cologne
English
व्य्-अ॑ञ्जना (आ),
f.
(in rhet.) implied indication, allusion, suggestion,
Sāh.
Pratāp.
a figurative expression (°ना-वृत्ति
f.
figurative style),
W.
Apte Hindi
Hindi
व्यञ्जना
स्त्री*
- -
तीनों शब्दशक्तियों में अन्तिम जिससे अर्थ उपलक्षित या ध्वनित होता है
शब्दकल्पद्रुमः
Sanskrit
व्यञ्जना,
स्त्री,
(वि + अञ्ज + णिच् + युच् टाप् ।)शब्दस्य वृत्तिविशेषः तस्या लक्षणं यथा, --“विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः ।सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य
”शब्दबुद्धिकर्म्मणां विरम्य व्यापाराभाव इतिनयेनाभिधा लक्षणा तात्पर्य्याख्यासु तिसृषुवृत्तिषु स्वं स्वमर्थं बोधयित्वा उपक्षीणासुययान्योऽर्थो बोध्यते सा शब्दस्यार्थस्य प्रकृति-प्रत्ययादेश्च वृत्तिर्व्यञ्जन-ध्वनन-गमन-प्रत्यायना-दिव्यपदेशविषया व्यञ्जना नाम तत्र ।“अभिधालक्षणामूला शब्दस्य व्यञ्जना द्बिधा
”अभिधामूलामाह ।“अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया
”आदिशब्दाद्विप्रयोगादयः उक्तं हि ।“संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता ।अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः
”इति
सशङ्खचक्रो हरिरित्यत्र शङ्खचक्रसंयोगेन हरि-शब्दो विष्णुमेवाभिधत्ते अशङ्खचक्रो हरिरितितद्बियोगेन तमेव भीमार्ज्जुनाविति अर्ज्जुनःपार्थः कर्णार्ज्जुनाविति कर्णः सूतपुत्त्रः स्थाणुंवन्दे भवच्छिदे इति स्थाणुः शिवः सर्व्वंजानाति देव इति देवो भवान् कुपितो मकर-ध्वजः इति मकरध्वजः कामः देवः पुरारि-रिति पुरारिः शिवः मधुना मत्तः पिक इतिमधुर्वसन्तः पातु वो दयितामुखमिति मुखंसांमुख्यम् विभाति गगने चन्द्रः इति चन्द्रःशशी निशि चित्रभानुरिति चित्रभानुर्वह्रिः ।भाति रथाङ्गमिति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इतितस्य विषये नोदाहृतम् इदञ्च केऽप्यसहमानाआहुः स्वरोऽपि काक्कादिरूपः काव्ये विशेष-प्रतीतिकृदेव उदात्तादिरूपोऽपि मुनेःपाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदे-वेति एतद्विषये उदाहरणमुचितमेव इतितन्न तथाहि स्वराः काक्कादय उदात्तादयो वाव्यङ्ग्यरूपमेव विशेषं प्रत्याययन्ति खलु प्रकृ-तोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशे-षम् किञ्च यदि यत्र क्वचिदनेकार्थशब्दानांप्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयो-रनुरूपस्वरवशेनैकत्र नियमनं वाच्यं तदातथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः तथाअतएवाहुः श्लेषनिरूपणप्रस्तावे काव्यमार्गेस्वरो गण्यते इति नय इत्यलमुपजीव्यानांमान्याना व्याख्यानेषु कटाक्षनिक्षेपेण आदि-शब्दादेतावन्मात्रस्तनीत्यादौ हस्तादिचेष्टा-दिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्द-स्यान्यार्थबुद्धिहेतुः शक्तिः सा अभिधामूलाव्यञ्जना यथा मम तातपादानां महापात्र-चतुर्द्दशभाषावारविलासिनीभुजङ्गमहाकवी-श्वरश्रीचन्द्रशेखरसान्धिविग्रहिकाणाम् ।“दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसाप्रोद्यद्राजकलो गृहीतगरिमा विश्वग्वृतोभोगिभिः ।नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिंधारयन् ।गामाक्रम्य विभूतिभूषिततनूराजत्युमावल्लभः
”अत्र प्रकरणेनाभिधया उमावल्लभशब्दस्यउमानाम्नी महादेवी तद्वल्लभभानुदेवनृपति-रूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपो-ऽर्थो बोध्यते एवमन्यत्
*
लक्षणामूला-माह ।“लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया
”गङ्गायां घोष इत्यादौ जलमयाद्यर्थबोधनादभि-धायां विरतायां तटाद्यर्थबोधनाच्च लक्षणायांविरतायां यया शीतत्वपावनत्वाद्यतिशयादि-र्बोध्यते सा लक्षणामूला व्यञ्जना
*
एवंशाब्दीं व्यञ्जनामुक्त्वा आर्थीं व्यञ्जनामाह ।“वक्तृबोद्धव्यवाक्यानामन्यसन्निधिवाच्ययोः ।प्रस्तावकालदेशानां काकोश्चेष्टादिकस्य ।वैशिष्ट्यादन्यमर्थं या बोधयेत् सार्थसम्भवा
”व्यञ्जना इति संवध्यते तत्र वक्तृवाक्यप्रस्ताव-देशकालवैशिष्ट्ये यथा मम ।“कालो मधुः कुपित एष पुष्पधन्वाधीरा वहन्ति रतिखेदहराः समीराः ।केलीवनीयमपि वञ्जुलकुञ्जमञ्जु-र्दूरे पतिः कथय किं करणीयमद्य
”अत्र एतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वयाप्रेष्यतामिति सखीं प्रति कयाचित् द्योत्यते
*
बोद्धव्यवैशिष्ट्ये यथा, --“निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरोनेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडा-गमेवापीं स्नातुमितो गतासि पुनस्तस्याधमस्या-न्तिकम्
”अत्र तदन्तिकमेव गतासीति विपरीतलक्षणयालक्ष्यं तस्य रन्तुमिति व्यङ्ग्यं प्रतिपाद्य दूती-वैशिष्ट्याद्बोध्यते
*
अन्यसन्निधिवैशिष्ट्येयथा, --“उअ निच्चल णिप्फन्दाभिसिनी पत्तम्भि रेहैबलाआ ।णिम्मल मरगअ भाअण परिट्ठिआ संखसुत्तिव्व
”अत्र बलाकाया निष्पन्दत्वेन विश्वस्तत्वं तेनास्यदेशस्य विजनत्वमतः सङ्केतस्थानमेतदितिकयापि सन्निहितप्रच्छन्नकामुकं प्रत्युच्यते ।अत्रैव स्थाननिर्जनत्वरूपव्यङ्ग्यार्थवैशिष्ट्यं प्रयो-जनम् ।“भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते
”इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्योज्ञातव्याः
*
एतद्वैशिष्ट्ये यथा, --“गुरुपरतन्त्रतया वतदूरतरं देशमुद्यतो गन्तुम् ।अलिकुलकोकिलललितेनेष्यति सखि ! सुरभिसमयेऽसौ
”अत्र नेष्यतीत्यपि तर्हि एष्यत्येव इति काक्वाव्यज्यते
*
चेष्टावैशिष्ट्ये यथा, --“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्
”अत्र सन्ध्या सङ्केतकाल इति पद्मनिमीलनादि-चेष्टया कयात्तित् द्योत्यते एवं वक्त्रादीनांव्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम्
*
“त्रैधिध्यादियमर्थानां प्रत्येकं त्रिविधा मता
”अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्व्वाअप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः तत्र वाच्या-र्थस्य व्यञ्जना यथा कालो मधुरित्यादि
लक्ष्यार्थस्य यथा निःशेषच्युतचन्दनमित्यादि
व्यङ्ग्यार्थस्य यथा उअ णिच्चल इत्यादि
*
प्रकृतिप्रत्ययादिव्यञ्जनन्तु प्रपञ्चयिष्यते ।“शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता
”यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्ष्यते अर्थो-ऽपि शब्दं तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारि-त्वमवश्यमङ्गीकरणीयम् ।“अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः ।शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा
”अभिधोपाधिको वाचकः लक्षणोपाधिकोलक्षकः व्यञ्जनोपाधिको व्यञ्जकः किञ्च ।“तात्पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।तात्पर्य्यार्थं तदर्थञ्च वाक्यं तद्बोधकं परे
”अभिधाया एकैकपदार्थबोधनविरमात् वाक्यार्थ-रूपस्य पदान्वयस्य बोधिका तात्पर्य्या नामवृत्तिस्तदर्थश्च तात्पर्य्यार्थस्तद्बोधकञ्च वाक्यमित्य-भिहितान्वयवादिनां मतम् इति साहित्यदर्पणेवाक्यस्वरूपनिरूपणो नाम द्वितीयः परि-च्छेदः