| YouTube Channel

वैशाखः (vaizAkhaH)

 
Apte
English
वैशाखः [vaiśākhḥ], 1
N.
of the second lunar month (corresponding to April-May).
A churning-stick
द्रुततर- करदक्षाः क्षिप्तवैशाखशैले ... कलशिमुदधिगुर्वी वल्लवा लोडयन्ति
Śi.*
11. 8
कालेन वैशाखधरं विधाय प्रभाकरं बिम्बममन्थि सिन्धुः Rām. ch. 6.39. -खम् A kind of attitude in shooting
see विशाख.-खी The full-moon day in the month of Vaiśākha.
Apte 1890
English
वैशाखः 1 N. of the second lunar month (corresponding to AprilMay).
2 A churning-stick
द्रुततरकरदक्षाः क्षिप्तवैशाखशैले… कलशिमुदधिगुर्वी वल्लवा लोडयति Śi. 11. 8.
खं A kind of attitude in shooting
see विशख.
खी The full-moon day in the month of Vaiśākha.
Apte Hindi
Hindi
वैशाखः
पुं*
- विशाख + अण्
चान्द्रवर्ष का दूसरा महीना (अप्रैल-मई)
वैशाखः
पुं*
- विशाख + अण्
रई का डण्डा
Wordnet
Sanskrit
Synonyms:
मन्थानदण्डः, वैशाखः, मन्थः, मन्थानः, मन्थाः, करहर्षकः, तक्राटः, भक्ताटः, मन्थनी
noun
दध्नः मन्थनाय यो दण्डः।
"यशोदा मन्थानदण्डेन दधि मन्थयति।"
Synonyms:
वैशाखः, माधवः, राधः
noun
सः मासः यः चैत्राद् अनन्तरं ज्येष्ठाद् पूर्वम् अस्ति।
"वैशाखस्य मासे वैशाखी इति आनन्दोत्सवः अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: वैशाखः
Root: वैशाख
Gender: पुं
Number: all
अर्थः वैशाखो नाम चान्द्रमासः
Meaning(s):
Second month of the spring season (Vasanta)
Shloka(s):
2|1|83|2 चैत्रिको मन्मथसखो वैशाखो राध उच्छुनः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|83|2 वैशाखः (वैशाख) (पुं) Second month of the spring season (Vasanta) वैशाखो नाम चान्द्रमासः
2|1|83|2 राधः (राध) (पुं) Epithet of Vaiśakha वैशाखो नाम चान्द्रमासः
2|1|83|2 उच्छुनः (उच्छुन) (पुं) Epithet of Vaiśakha वैशाखो नाम चान्द्रमासः
Related word(s):
अवयव_अवयवीसंबन्धः वैशाखी
परा_अपरासंबन्धः मासः
जातिः कालः
Tamil
Tamil
வைசா’க2: : வைசாக மாதம், மத்து.
शब्दकल्पद्रुमः
Sanskrit
वैशाखः,
पुं,
(विशाखा प्रयोजनमस्य विशाखा+ “विशाखाषाढादिति ।” ११० ।इति अण् ।) मन्थानदण्डः (यथा, शिशुपाल-वघे ११ ।“द्रुततरकरदक्षाः क्षिप्तवैशाखशैले
”वैशाखी पौर्णमासी अस्मिन् “सास्मिन्पौर्णमासीति ।” २१ इति अण् ।)द्बादशमासान्तर्गतप्रथममासः तत्पर्य्यायः ।माधवः राधः इत्यमरः
चान्द्रस्यतस्य लक्षणम् ।“विशाखातारकायुक्ता वैशाखी पूर्णिमा भवेत् ।सा वैशाखी यत्र मासे वैशाखः प्रकीर्त्तितः
”इति शब्दरत्नावली
तु मेषस्थरविकः सौरः तत्र जातफलम् ।“पुमान् विनीतो द्बिजदेवभक्तोधर्म्मस्य कर्त्ता सुजनस्य भर्त्ता ।गुणाभिरामोऽथ जगत्प्रियः स्यात्वैशाखमासे खलु जन्म यस्य
”इति कोष्ठीप्रदीपः
*
अथ वैशाखकृत्यम् तत्र पद्मपुराणम् ।“तुलामकरमेषेषु प्रातःस्नानं विधीयते ।हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम्
”वैष्णवामृते ।“गवामर्द्धप्रसूतानां लक्षं दत्त्वा तु यत् फलम् ।तत् फलं लभते राजन् मेषे स्नात्वा तु जाह्र-वीम्
”पितामहः ।“कार्त्तिकस्य तु यत् स्नानं माघे मासि विशेषतः ।कृच्छ्रांदिनियमानाञ्च चान्द्रमानप्रमाणतः
”आभ्यां कार्त्तिकादिस्नाने सौरचान्द्रयोर्व्विकल्पे-नानुष्ठानम् तत्र चान्द्रमपि द्बिविधम् तथाच विष्णुः ।“दर्शं वा पौर्णमासीं वा प्रारभ्य स्नानमाचरेत् ।पुण्यान्यहानि त्रिंशत्तु मकरस्थे दिवाकरे
”दर्शं दर्शान्तयागसम्बन्धिनीं प्रतिपदमारभ्यत्रिंशत्तिथिम् नारायणोपाध्यायस्तु दर्शपोर्ण-मासीति पूर्व्वदिनसङ्कल्पपरमिति तत्र सौर-कृत्ये राश्युल्लेखः कार्य्यः ।“संक्रान्तिविहिते कार्य्ये संक्रान्तिः परि-कीर्त्तिता ।मासोल्लेखश्चेतरस्मिन् रविराशिस्थितिस्तथा
”इति गारुडात्
*
ततश्चारुणोदयकाले मज्जनं कृत्वाचम्य उदङ्-मुखः ओँ तत् सदित्युच्चार्य्य अद्य वैशाखे मासिअमुकपक्षे अमुकतिथावारभ्य मेषस्थरविं यावत्प्रत्यहं अमुकगोत्रः श्रीअमुकदेवशर्म्मा श्रीविष्णु-प्रीतिकामः प्रातःस्नानमहं करिष्ये इति ।गङ्गायान्तु अर्द्धप्रसूतगवीलक्षदानजन्यफलसम-फलप्राप्तिकामो विष्णुप्रीतिकामो वा इतिसङ्कल्प्य यथोक्तविघिना स्नायात् प्रतिदिन-सङ्कल्पे तु आरभ्य मेषस्थरविं यावत् प्रत्यह-मिति वक्तव्यं किन्तु मासीत्यनन्तरं मेष-राशिस्थरवौ इत्यधिकं वक्तव्यम् चान्द्रे तुमास्यनन्तरं शुक्लपक्षे प्रतिपदि तिथावारभ्यदर्शपर्य्यन्तमित्यूहनीयम् प्रतिदिनसङ्कल्पेत्वारभ्य प्रत्यहमित्यन्तं वक्तव्यम् एवं कृष्ण-प्रतिपदारम्भे ऊहनीयम् एवं मासान्तरेचोहनीयम् सङ्कल्पाकरणे फलहानिमाहभविष्यपुराणम् ।“सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः ।फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत्
*महार्णवे ।“यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् ।पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते
विप्रेभ्यः पादुकां छत्रं पितृभ्यो विषुवे शुभम् ।”पितृभ्यः पितॄनुद्दिश्य अत्र विष्णुरहस्यम् ।“अयने कोटिगुणितं लक्षं विष्णुपदीषु ।षढशीतिसहस्रन्तु षडशीत्यामुदाहृतम्
शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये ।विषुवे शतसाहस्रमा-का-मा-वैष्वनन्तकम्
”इति मत्स्यपुराणोक्तशतसहस्रगुणिततत्कर्म्मफल-जनकत्वेन विवक्षणीयत्वान्मेषादावित्यपि विषुव-संक्रान्तिपुण्यकालपरम् अन्यथा कालद्बय-कल्पनापत्तेः व्यवहारोऽपि तथा
*
संक्र-मणपुण्यकालस्तु दिनसंक्रमणे कृत्स्नं दिनम् ।“षडशीतिमुखेऽतीते वृत्ते विषुवद्वये ।भविष्यत्ययने पुण्यमतीते चोत्तरायणे
”इति तु पुण्यतरकालपरं दिनवृत्तोत्तरायणादि-विहितविंशतिदण्डादीनां रात्रिप्रविष्टभाग-स्यापि पुण्यत्वम् रात्रिसंक्रमे तु दण्डन्यून-प्रथमयामद्बयाभ्यन्तरे तद्दिवसीयशेषयामद्वयंपुण्यम् दण्डद्वयात्मकमध्यरात्रे तद्दिवसीय-तिथेरभेदे तु तद्दिवसीयशेषयामद्वयं पुण्यम् ।भेदे तु तद्दिवसीयशेषयामद्बयं पुण्यं परदिव-सीयाद्ययामद्बयञ्च तिथ्यभेदभेदयोर्दक्षिणायनेतद्दिवसीयशेषयामद्बयम् उत्तरायणे पर-दिवसीयशेषयामद्बयम् दण्डाधिकशेषार्द्ध-रात्रिसंक्रमणे परदिनाद्ययामद्बयम् सन्ध्या-संक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे रात्रे-र्व्यवस्थेति
*
संक्रान्त्यां स्नानमावश्यकम् ।अनिष्टसंक्रमणे तु तद्दोषशान्त्यर्थं धुस्तूरबीज-सलिलेन सर्व्वौषधिजलेन स्नानं विष्णुपूजनंतन्मन्त्रजपः संक्रान्तिकाल एव स्त्रीतैलमांस-वर्ज्यम् इन्दुक्षयेऽमावास्यायाम् दिनक्षये तिथि-क्षये आ-का-मा-वैषु आषाढकार्त्तिकमाघ-वैशाखपौर्णमासीषु
*
ततः कृतस्नानादिःप्राङ्मुख उदङ्मुखं ब्राह्मणं गन्धपुष्पाभ्यां पूज-यित्वा जलघटान्वितशक्तूंश्च जलघटान्वित-शक्तुभ्यो नमः इति पूजयित्वा ब्राह्मणहस्ते जलंदत्त्वा घटं संप्रोक्ष्य वामहस्ते स्पृष्ट्वा कुशत्रय-तिलजलान्यादाय ओँ तत् सदित्युच्चार्य्य ओम्अद्यामुके मास्यमुकपक्षेऽमुकतिथौ महाविषुव-संक्रान्त्यां अमुकगोत्रस्य पितुरमुकदेवशर्म्मणःसर्व्वपापविमुक्तिकामः एतान् जलघटान्वित-शक्तून् विष्णुदेवताकान् अमुकगोत्राय अमुक-देवशर्म्मणे ब्राह्मणाय तुभ्यमहं संप्रददानीतिब्राह्मणहस्ते जलं दद्यात् ब्राह्मणस्तु दक्षिण-हस्ततलमध्यभागाग्नेयतीर्थेन ओमित्यनेन गृ-हीत्वा स्वस्तीत्युक्त्वा गायत्त्रीं कामस्तुतिञ्च पठेत् ।जलघटान्विताः शक्तवो विष्णुदेवताकाः इतिवदेत् ततो दक्षिणां दद्यात् यथा ओँ अद्ये-त्यादि कृतैतत् जलघटान्वितशक्तुदानकर्म्मणःप्रतिष्ठार्थं दक्षिणां किञ्चित् काञ्चनमूल्यं ब्राह्म-णायाहं ददानीति ततः अच्छिद्रावधारणम् ।ब्राह्मणविशेषानुपदेशे यथासम्भवगोत्रनाम्नेब्राह्मणायेति विशेषः तत्र ब्राह्मणासन्निधानेतुभ्यमिति देयम् भूमौ त्यागजलप्रक्षेपः ।एवमन्यत्रापि सम्प्रददे इति वाक्ये विशेषः ।सत्पात्राभावे तत्सत्त्वेऽपि तत्तत्कामो विष्णुप्रीति-कामो वा विष्णवे दत्त्वा ब्राह्मणाय पश्चात्प्रतिपादयेत् ।“देवे दत्त्वा तु दानानि देवे दत्त्वा तु दक्षिणाम् ।तत् सर्व्वं ब्राह्मणे दद्यादन्यथा निष्फलं भवेत्
”इति मत्स्यसूक्तात्
दत्त्वेत्यत्र देयानीति वाराहीये पाठः
*
“वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने ।ददात्यभुक्त्वा राजेन्द्र याति परमां गतिम्
”अत्रापि यथायोग्यं संपूज्य पूर्व्ववद्वाक्येन मनो-रथफलार्थिना सभोज्यघटो देयः
*
स्मृतिः ।“मेषादौ शक्तवो देया वारिपूर्णा गर्गरी
”तत्रापि यथायोग्यं संपूज्य पूर्व्ववत् वाक्यं कृत्वापठेत्“ओँ एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।अस्य प्रदानात् सफला मम सन्तु मनोरथाः
”इति मन्त्रलिङ्गान्मनोरथफलत्वं ज्ञेयम्
*
कृत्यचिन्तामणौ ।“मसूरं निम्बपत्राभ्यां योऽत्ति मेषगते रवौ ।अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति
”उत्तरार्द्धे तु ।“मेषस्थे विधौ तत्र नास्त्यङ्गे विषजं भयम्
”इति संवत्सरप्रदीपे पाठः
ततश्च मेषस्थरविस्थितिकाले मसूरं निम्बपत्र-द्वयञ्च भक्षयेत्
*
भविष्ये ।“या शुक्ला नरशार्दूल वैशाखे मासि वै तिथिःतृतीया साक्षया ख्याता गीर्व्वाणैरपि वन्दिता
योऽस्यां ददाति करकान् वारिवाजसमन्वितान् ।स याति पुरुषो वीर लोकान् वै हेममालिनः
”वाजमन्नम् हेममालिनः सूर्य्यस्य ततो जलान्न-समन्वितकरकदाने सूर्य्यलोकगमनं फलम् ।दानानुष्ठानं पूर्व्ववत्
*
ब्रह्मपुराणम् ।“वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् ।कार्त्तिके शुक्लपक्षे त्रेता नवमेऽहनि
अथ भाद्रपदे मासि त्रयोदश्यान्तु द्बापरम् ।माघे तु पौर्णमास्यान्तु घोरं कलियुगं स्मृतम्
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः
”तत्र वैशाखादयः पौर्णमास्यन्ता एव तथैवतिथिकृत्याभिधानात् मुख्यवाचित्वे कार्त्तिकेनवमेऽहनीति सिद्धौ शुक्लपक्ष इति व्यर्थंस्यात्
*
आसां प्रशंसामाह विष्णुपुराणम् ।“एता युगाद्याः कथिताः पुराणै-रनन्तपुण्यास्तिथयश्चतस्रः ।उपप्लवे चन्द्रमसो रवेस्त्रि-ष्वप्यष्टकास्वप्ययनद्बये
पानीयमप्यत्र तिलैश्च मिश्रंदद्यात् पितृभ्यः प्रणतो मनुष्यः ।श्राद्धं कृतं तेन समाः सहस्रंरहस्यमेतत् पितरो वदन्ति
”उपप्लवे ग्रहणे
*
देवीपुराणम् ।“युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।रवेरुदयमीक्षन्ते तत्र तिथियुग्मता
*
अक्षयतृतीयामधिकृत्य ब्रह्मपुराणम् ।“तस्यां कार्य्यो यवैर्होमो यवैर्विष्णुं समर्च्चयेत् ।यवान् दद्यात् द्बिजातिभ्यः प्रयतः प्राशयेद्-यवान्
पूजयेच्छङ्करं गङ्गां कैलासञ्च हिमालयम् ।भगीरथञ्च नृपतिं सागराणां सुखावहम्
*
स्कान्दे ।“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।तत्र मां लेपयेद्गन्धैर्लेपनैरतिशोभनैः
”मां जगन्नाथम्
*
अन्यत्रापि ।तथा जगन्नाथस्नानमधिकृत्य भविष्ये ।“संवत्सरफलं राजन् नवम्यां कार्त्तिके तथा ।मन्वादौ युगादौ मासत्रयफलं भवेत्
*मन्वादयस्तु भविष्यमात्स्ययोः ।“अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।तृतीया चैत्रमासस्य यथा भाद्रपदस्य
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।आषाढस्यापि दशमी तथा माघस्य सप्तमी
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ।कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशीसिताः
मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः
”अमावास्याष्टमीव्यतिरिक्ताः शुक्लाः उपक्रमोप-संहारयोः शुक्लात्वकीर्त्तनात्
*
नारदीये ।“वैशाखे शुक्लपक्षे तु द्वादशी वैष्णवी तिथिः ।तस्यां शीतलतोयेन स्नापयेत् केशवं शुचिः
”इयं पिपीतकद्वादशी नात्र युग्मादरापेक्षा ।तत्र विष्णुपूजने उपवासोत्तरविधानात्
*
अथ यवान्नश्राद्धम् तत्र वैशाखशुक्लपक्षे कुज-शनिशुक्रेतरवारे नन्दारिक्तात्रयोदशीतरतिथौजन्मचन्द्राष्टमचन्द्रजन्मतिथिजन्मनक्षत्रत्रयपञ्च-मतारात्रयेतरेषु पूर्व्वफल्गुनीपूर्व्वभाद्रपदपूर्व्वा-षाढामघाभरण्यश्लेषार्द्रेतरनक्षत्रेषु यवश्राद्धंकर्त्तव्यम् तच्छेषभोजनन्तु एतादृग्निषिद्धायांविषुवसंक्रान्तौ अक्षयतृतीयायाञ्च विशेषतःकर्त्तव्यम् वैशाखाकरणे ज्यैष्ठशुक्लपक्षेआषाढशुक्लपक्षे हरिशयनेतरत्र कर्त्तव्यम् ।इति कृत्यतत्त्वम्
*
*
अथ वैशाख-माहात्म्यम् ।“ये कार्त्तिकव्रतपरा ये माघपरिनिष्ठिताः ।ये वैशाखव्रतासक्तास्तेषां तुष्टः सदा हरिः
सर्व्वेषामेव मासानां वैशाखः प्रवरः स्मृतः ।पुरा हरिमुखे राजन् श्रुतमेतन्न संशयः
तत्र स्नानं जपो होमः श्राद्धं दानादि यत्कृतम् ।तत् सर्व्वं भूपतिश्रेष्ठ सत्यमक्षयमुच्यते
एकतः सर्व्वतीर्थानि सर्व्वे यज्ञाः सदक्षिणाः ।भूप वैशाखमासाद्य कोट्यंशेनापि नो समाः
मेरुतुल्यानि हेमानि सर्व्वदानानि चैकतः ।एकतः सर्व्वदा भूप माधवो माधवप्रियः
असंख्यानि पापानि वहुजन्मार्ज्जितानि ।निमेषार्द्धेन राजेन्द्र विलयं यान्ति माधवे
वैशाखमागतं दृष्ट्वा पितॄणामुत्सवो भवेत् ।पुत्त्रो नियममाचर्य्य अस्मभ्यमुद्धरिष्यति
आगतं माधवं दृष्ट्वा कम्पन्ते पापसञ्चयाः ।अस्माकं नाशकालोऽयं भूपते ध्रुवमागतः
वैशाखं परमं मासं माधवस्येति प्रियम् ।नियमेन समाचर्य्य भूयो जायते नरः
मनसा संस्मरेद्यस्तु नियमं माधवोद्भवम् ।पूयते पातकैः सर्व्वैः शक्रेण सह मोदते
वचसा यो वदेद्भूप वैशाखं माधवप्रियम् ।अहं समाचरिष्यामि गच्छेद्ब्रह्मणः पुरम्
यः समाचरते भूप नियमेन तु माधवम् ।स विष्णो रूपमासाद्य विष्णुना सह मोदते
नियनेन समाचर्य्य एकाहमपि भूपते ।पितरस्तारितास्तेन यास्यन्ति परमां गतिम्
तस्मिन् स्नात्वा विशुद्धात्मा दम्भमात्सर्य्यवर्ज्जितः ।ईप्सितान् लभते कामान् श्रीविष्णोर्दयितो भवेत्
ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नस्त्रीविघातकः ।नियमेन नयेन्मासं मुक्तः सर्व्वपातकात्
पातकानामेकमेव प्रायश्चित्तं विदुर्ब्बुधाः ।सर्व्वपापसमुद्भूतौ नात्र कार्य्या विचारणा
वैशाखस्नायिनो लोकाः श्रीविष्णुसेवनोत्सुकाः ।पापं तेषां मतिमन्निह लोके परत्र
सर्व्वस्वदानं विधिवत् सर्व्वदा परिशोधनम् ।चान्द्रायणञ्च विधिना कृच्छ्रं चैवातिकृच्छ्रकम्
पुण्यक्षेत्राभिगमनं सर्व्वपापप्रणाशनम् ।देवताभ्यर्च्चनं चैव तथैवातिथिसेवनम्
कदापि यैर्नाचरितं वाङ्मनःकायकर्म्मभिः ।संप्राप्य ते तु कुर्व्वन्तु माधवे नियमं नराः
समाचरन्ति ये मासं माधवं कृतबुद्धयः ।सदा प्रीतिमनास्तेषां श्रीकृष्णो देवकीसुतः
या नारी विधावा भूत्वा माधवे नियमं चरेत् ।कुलायुतसहस्रन्तु नयते परमं पदम्
पुत्त्रेणापीह किं कार्य्यं येन नाचरितं नृप ।वैशाखं पुत्त्रशतकात् नारी घन्या हरिप्रिया
यो माधवेऽर्च्चयेद्राजन् गोविन्दं गोपवल्लभम् ।न तस्य विद्यते संख्या पूजनस्य फलस्य
वैष्णवस्य तु धर्म्मस्य पारं गन्तुं यदीच्छसि ।नरेन्द्र माधवं मासं नियमेन समाचर
किं करिष्यति सांख्येन योगेन नरनायक ।मुक्तिमिच्छसि चेद्राजन् माधवं माधवेऽर्च्चय
अभक्षसम्भवं राजन् कुप्रतिग्रहसम्भवम् ।तत्पापं संक्षयं याति माधवे नियमे कृते
रणे यदि रिपुं जेतुं त्वमिच्छसि नराधिप ।नियमेन तदा विष्णोः प्रियं माधवमाचर्
यदि सांसारिकं दुःखं हन्तुमिच्छसि भूमिप ।तदा नियममास्थाय माधवे माधवं भज
राज्यभोगांश्च विपुलान् पुत्त्रमित्रादिसम्पदम् ।यदिच्छसि तदा विष्णोः प्रियं माधवमाचर
त्यक्तुमिच्छसि राजेन्द्र जन्ममृत्युजरादिकम् ।भयं यदि तदा विष्णोः प्रियं माधवमाचर
यैर्नाचरितो मासो माधवः पापबुद्धिभिः ।नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः
वैशाखसमो मासो विशेषः केशवप्रियः ।अव्रतेन क्षिपेद्यस्तु तं विद्यान्निकषात्मज
यतिश्च विधवा चैव विशेषेण वनाश्रमी ।वैशाखे नरकं याति ह्यकृत्वा नियमं नरः
तस्माद्राजन् प्रयत्नेन कुरु त्वं माधवव्रतम् ।यस्याचरणमात्रेण हरिस्तुष्टो भविष्यति
तावद्गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ।यावन्नायाति राजेन्द्र माधवो माधवप्रियः
अणुमात्रन्तु यत्किञ्चिद्यो ददाति माधवे ।काले वा यदि वाकाले कोटिकोटिगुणं भवेत्
ययोदधीनां राजर्षे ! क्षयो नैवोपपद्यते ।तथैव माधवे मासि क्षयं प्रापपुण्ययोः
नाचारि धर्म्माचरणेन माधवंनाराधितो यैः पुरुषप्रधानः ।यैर्न श्रुता भूप कथा मुरारे-स्तेषां वृथा जन्म नराधमानाम्
पीडयन्ति ग्रहराक्षसा गणायक्षाः पिशाचोरगभूतदानवाः ।यो माधवे मासि नरेन्द्रवर्य्यध्रुवं मुरारेर्व्रतमाचरन्ति
”इति पाद्मोत्तरखण्डे वैशाखमाहात्म्यकथने १६८अध्यायः