| YouTube Channel

वैवाहिकः (vaivAhikaH)

 
शब्दकल्पद्रुमः
Sanskrit
वैवाहिकः,
पुं,
(विवाहाद्भवः विवाह + ठञ् ।)कन्यापुत्त्रयोः श्वशुरः वेयाइ इति वङ्गभाषा
सम्धी इति हिन्दीभाषा (तत्पर्य्यायः सम्बन्धी२
यथा, कौतुकसर्व्वस्वे ।“अस्मन्नामसमानतासखसुतावैवाहिक-श्यालक-श्वश्रूकामुकरथ्यया गतवती न्याय्या तदेषा मम
”)विवाहसम्बन्धिनि, त्रि यथा, --“पञ्चमे सप्तमे चैव येषां वैवाहिकी क्रिया ।ते सान्तानिनः सर्व्वे पतिताः शूद्रतां गताः
”इत्युद्बाहतत्त्वम्
अपि ।“कन्याभ्यश्च पितृद्रव्याद्देयं वैवाहिकं वसु ।अपुत्त्रकस्य कन्या स्वा धर्म्मजा पुत्त्रवद्धरेत्
”इति दायतत्त्वे देवलः
(यथा मनुः ६७ ।“वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकःस्मृतः
”)