| YouTube Channel

वैन्यः (vainyaH)

 
शब्दकल्पद्रुमः
Sanskrit
वैन्यः,
पुं,
(वेनस्यापत्यं पुमान् वेन + “कुर्व्वा-दिभ्यो ण्यः ।” १५१ इति ण्यः ।)वेनपुत्त्रः तु पृथुराजः यथा, --“वेनस्य मथिते पाणौ बभूव महापुमान् ।वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः ।येन दुग्धा मही पूर्व्वं प्रजानां हितकारणात्
”इति वह्रिपुराणे सर्गानुशासननामाध्यायः
(यथाच ऋग्वेदे १० ।“पृथी यद्बां वैन्यः सादनेष्वेव ।”“वैन्यो वेनस्य पुत्त्रः पृथी एतत्संज्ञो राजर्षिः ।”इति तद्भाष्ये सायणः
)