| YouTube Channel

वैकुण्ठः (vaikuNThaH)

 
Apte
English
वैकुण्ठः [vaikuṇṭhḥ], 1 An epithet of Viṣṇu
मन्दं जहास वैकुण्ठो मोहयन्निव मायया
Bhāg.*
1.8.44.
Of Indra.
Holy basil.
ण्ठम् The heaven of Viṣṇu
ततो वैकुण्ठमगमद्भास्वरं तमसः परम्
Bhāg.*
1.88.25.
Talc.
Comp.
-चतुर्दशी the fourteenth day of the bright half of Kārtika. -लोकः the world of Viṣṇu.
Apte Hindi
Hindi
वैकुण्ठः
पुं*
- विकुण्ठायां मायायां भवः-अण्
विष्णु का विशेषण
वैकुण्ठः
पुं*
- विकुण्ठायां मायायां भवः-अण्
इन्द्र का विशेषण
वैकुण्ठः
पुं*
- विकुण्ठायां मायायां भवः-अण्
तुलसी का पौधा
Wordnet
Sanskrit
Synonyms:
वैकुण्ठः, वैकुण्ठलोकम्, श्रीधामः
noun
विष्णोः निवासस्थानम्।
"विष्णोः भक्तः मृत्योः अनन्तरं वैकुण्ठं गच्छन्ति।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
वैजयन्तीकोषः
Sanskrit
Word: वैकुण्ठः
Root: वैकुण्ठ
Gender: पुं
Number: all
अर्थः
Meaning(s):
Kind of white Tulasi
Tamil Veṇ tul̤aśi
Shloka(s):
3|3|121|2 अल्पमात्रे तु वैकुण्ठो बिल्वगन्धो वचाच्छदः॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|121|2 अल्पमात्रः (अल्पमात्र) (पुं) Small sort of white Tulasi
Tamil Veṇ tulaśi
3|3|121|2 वैकुण्ठः (वैकुण्ठ) (पुं) Kind of white Tulasi
Tamil Veṇ tul̤aśi
3|3|121|2 बिल्वगन्धः (बिल्वगन्ध) (पुं) Kind of white Tulasi
Tamil Veṇ tul̤aśi
3|3|121|2 वचाच्छदः (वचाच्छद) (पुं) Kind of white Tulasi
Tamil Veṇ tul̤aśi
Related word(s):
परा_अपरासंबन्धः तुलसी
Tamil
Tamil
வைகுண்ட2: : துளசிச் செடி, விஷ்ணு.
शब्दकल्पद्रुमः
Sanskrit
वैकुण्ठः,
पुं,
कृष्णः (यथा, भागवते ।१५ ४६ ।“ते साधुकृतसर्व्वार्था ज्ञात्वात्यन्तिकमात्मनः ।मनसा धारयमासुर्वैकुण्ठचरणाम्बुजम्
”)इन्द्रः इति मेदिनी
सितार्जकः इति राज-निर्घण्टः अस्य व्युत्पत्तिर्यथा “विकुण्ठायाअपत्यं वैकुण्ठः बाह्वाद्यत इति शिवादित्वात्ष्णः ।‘चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।विकुण्ठायामसौ जज्ञे वैकुण्ठे दैवतैः सह
’इति विष्णुपुराणम्
किंवा कुण्ठत्यनया कुण्ठा माया कुठि खोटन-वैकल्यालस्ये सेमक्तात् सरोरिति अः विविधाकुण्ठा माया विद्यतेऽस्य वैकुण्ठः विकारसंघेतिअस्त्यर्थे ष्णः विष्णुसहस्रनामटीकायां शङ्करा-चार्य्यस्त्वाह विविधा कुण्ठा गतेः प्रतिहति-स्तस्याः कर्त्ता इति वैकुण्ठः जगदारम्भे विशि-ष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिंप्रत्यबध्नादिति वा वैकुण्ठः ।‘मायासंश्लेषिता भूमिरद्भिर्व्योम्ना वायुना ।वायुश्च तेजसा सार्द्धं वैकुण्ठत्वं ततो मम
’इति शान्तिपर्व्वणीति ।”इत्यमरटीकायां भरतः
*
अपि ।“कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या ।विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम्
गुणाश्रयेण भगवान् तस्यां जातः स्वसृष्टये ।परिपूर्णतमं तेन वैकुण्ठञ्च विदुर्ब्बुधाः
*
अस्य नाम्नो माहात्म्यम् यथा, --“राम नारायणानन्त मुकुन्द मधुसूदन ।कृष्ण केशव कंसारे हरे वैकुण्ठ वामन
इत्येकादश नामानि पठेद्वा पाठयेद्यदि ।जन्मकोटिसहस्राणां पातकादवमुच्यते
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः
“साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।वैकुण्ठनामग्रहणमशेषाघहरं विदुः
”इति श्रीभागवते अजामिलोपाख्यानाध्यायः
*विष्णुधामविशेषः तद्वर्णनं यथा, --“उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम् ।सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः
भूर्लोकात् परिसंख्यातः कोटिरष्टादश प्रभो ।यत्रास्ते श्रीपतिः साक्षात् सर्व्वेषामभयप्रदः
वैकुण्ठादुत्तरे शैवो लोकः षोडशकोटयः ।तिर्य्यगेव महाराज कैलासाख्यस्तु पर्व्वतः ।पार्व्वत्या सहितः शम्भुर्यत्रास्ते स्वगणैर्व्वृतः
”इति पाद्मे स्वर्गखण्डे अध्यायः
*
अपि ।“अमृतं शाश्वतं नित्यमनन्तं परमं पदम् ।हिरण्मयं मोक्षप्रदं ब्रह्मानन्दसुखाह्वयम्
एवमादिगुणोपेतं तद्विष्णोः परमं पदम् ।यद्गत्वा निवर्त्तन्ते तद्धाम परमं हरेः
नहि वर्णयितुं शक्यं कल्पकोटिशतैरपि ।अपि द्रष्टुमशक्यं तद्ब्रह्मरुद्रादिदैवतैः
ज्ञानेन शास्त्रमार्गेण द्रक्ष्यते योगिपुङ्गवैः ।तत् स्थानमुपभोक्तव्यमव्यक्तब्रह्मसेविनाम्
श्रीशाङ्घ्रिभक्तिसेवैकरसाभोगविवर्ज्जिताः ।महात्मानो महाभागा भगवत्पदसेवकाः
तद्विष्णोः परमं धाम यान्ति ब्रह्मसुखप्रदम् ।नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम्
प्राकारैश्च विमानैश्च सौधै रत्नमयैर्युतम् ।तन्मध्ये नगरी दिव्या सायोध्येति प्रकीर्त्तिता
चतुर्द्वारसमायुक्ता हेमगोपुरसंयुता ।चण्डादिद्वारपालैस्तु कुमुदाद्यैः सुरक्षिता
चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रमुभद्रकौ ।वारुण्यां जयविजयौ सौम्ये धातृविधातरौ
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ।शङ्कुकर्णः सर्व्वनिद्रः सुमुखः सुप्रतिष्ठितः
तस्मिन् बन्धविनिर्मुक्ताः प्राप्यन्ते सुसुखं पदम् ।यं प्राप्य निवर्त्तन्ते तस्मान्मोक्ष उदाहृतः
मोक्षं परं पदं लिङ्गममृतं विष्णुमन्दिरम् ।अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम्
नित्यञ्च परमव्योम सर्व्वोत्कृष्टं सनातनम् ।पर्य्यायवाचकान्यस्य परं धाम्नोऽच्युतस्य हि
”इति पाद्मे उत्तरखण्डे २९ अध्यायः
*
अन्यच्च ।“अन्तःपुरनिवासिन्यः सर्व्वलक्षणभूषिताः ।ताभिः परिवृतो देवः शुशुमे परमः पुमान्
एवं वैकुण्ठनाथोऽसौ नाथते परमे पदे ।तद्व्यूहभेदाल्लोकांश्च वक्ष्यामि गिरिजे शुभे
प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम् ।आग्नेय्यां लक्ष्मीलोकस्तु याम्यां सङ्कर्षणालयः
सारस्वतन्तु नैरृत्यां प्राद्युम्नः पश्चिमे तथा ।रतिलोकस्तु वायव्यामुदीच्यामनिरुद्धभूः
ऐशान्यां शान्तिलोकः स्यात् प्रथमावरणंस्मृतम् ।केशवकीर्त्त्यादिलोका द्बितीयावरणं तथा
मत्स्यकूर्म्मादिलोकस्तु तृतीयावरणं परम् ।सत्ययुतानन्ददुर्गाविष्वक्सेनगजाननाः
शङ्खपद्मनिधीलोकाश्चतुर्थावरणं स्मृतम् ।ऋग्यजुः सामाथर्व्वाणो लोकादिषु महत्सु
सावित्र्या विहगेशस्य धर्म्मस्य सुखस्य ।पञ्चमावरणं प्रोक्तमक्षयं सर्व्ववाङ्मयम्
शङ्खचक्रगदापद्मखड्गशार्ङ्गहलं तथा ।मौषलञ्च तथा लोकाः सर्व्वशस्त्रास्त्रसंयुताः
षष्ठमावरणं प्रोक्तं शस्त्रास्त्रमयमक्षयम् ।ऐन्द्रपावकयाम्यञ्च नैरृतं वरुणं तथा
वायव्यं सौम्यमैशानं तप्तमं मुनिभिः स्मृतम् ।साध्या मरुद्गणाश्चैव ये चान्ये दिवौकसः
नित्याः सर्व्वे परे धाम्नि विश्वेदेवास्तथैव ।ते वै प्राकृतनाकेऽस्मिन्न नित्यास्त्रिदिवेश्वराः
तेनाहं वच्मि माये सञ्चिन्त्य इति वैस्मृतिः ।एवं परं पदैर्नित्यैर्युक्तैर्भोगपरायणैः
दिव्याभिर्महिषीभिश्च राजते विष्णुरीश्वरि ।न तद्भासयते सूर्य्यो शशाङ्को पावकः
यद्गत्वा निवर्त्तन्ते योगिनः शंसितव्रताः ।द्वयैकमन्त्रनिष्ठा ये ते वै यान्ति तदव्ययम्
वेदयज्ञाध्ययनैर्न वेदैर्न व्रतैः शुभैः ।न तपोभिर्निराहारैर्न साधनकर्म्मभिः
एकेन द्बयमन्त्रेण तथा भक्त्या त्वनन्यया ।तद्गम्यं शाश्वतं दिव्यं प्रपद्ये वै सनातनम्
”इति पाद्मोत्तरखण्डे ३० अध्यायः
(तत्रस्थदेवगणे, पुं भूम्नि यथा, भागवते ।८ ।“पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः ।तयोः स्वकलया जज्ञेवैकुण्ठो भगवान् स्वयम्
”)
कृदन्तरूपमाला
Sanskrit
1 {@“कुठि प्रतीघाते”@} 2 3 कुण्ठकः-ण्ठिका, कुण्ठकः-ण्ठिका, चुकुण्ठिषकः-षिका, चोकुण्ठकः-ण्ठिका
कुण्ठिता-त्री, कुण्ठयिता-त्री, चुकुण्ठिषिता-त्री, चोकुण्ठिता-त्री
कुण्ठन्-न्ती, कुण्ठयन्-न्ती, चुकुण्ठिषन्-न्ती
-- कुण्ठिष्यन्-न्ती-ती, कुण्ठयिष्यन्-न्ती-ती, चुकुण्ठिषिष्यन्-न्ती-ती
4 व्यतिकुण्ठमानः, कुण्ठयमानः, चोकुण्ठ्यमानः
व्यतिकुण्ठिष्यमाणः, कुण्ठयिष्यमाणः, चोकुण्ठिष्यमाणः
कुन्-कुण्ठौ-कुण्ठः
-- -- कुण्ठितम्- 5 तः, कुण्ठितः-तम्, चुकुण्ठिषितः, चोकुण्ठितः-तवान्
कुण्ठः, 6 वैकुण्ठः, कुण्ठः, चुकुण्ठिषुः, चुकुण्ठयिषुः, चोकुण्ठः
कुण्ठितव्यम्, कुण्ठयितव्यम्, चुकुण्ठिषितव्यम्, चोकुण्ठितव्यम्
कुण्ठनीयम्, कुण्ठनीयम्, चुकुण्ठिषणीयम्, चोकुण्ठनीयम्
कुण्ठ्यम्, कुण्ठ्यम्, चुकुण्ठिष्यम्, चोकुण्ठ्यम्
ईषत्कुण्ठः दुष्कुण्ठः सुकुण्ठः
-- -- कुण्ठ्यमानः, कुण्ठ्यमानः, चुकुण्ठिष्यमाणः, चोकुण्ठ्यमानः
कुण्ठः, कुण्ठः, चुकुण्ठिषः, चोकुण्ठः
कुण्ठितुम्, कुण्ठयितुम्, चुकुण्ठिषितुम्, चोकुण्ठितुम्
कुण्ठा, कुण्ठना, चुकुण्ठिषा, चुकुण्ठयिषा, चोकुण्ठा
कुण्ठनम्, कुण्ठनम्, चुकुण्ठिषणम्, चोकुण्ठनम्
कुण्ठित्वा, कुण्ठयित्वा, चुकुण्ठिषित्वा, चोकुण्ठित्वा
प्रकुण्ठ्य, विकुण्ठ्य, प्रचुकुण्ठिष्य, प्रचोकुण्ठ्य
कुण्ठम् २, कुण्ठित्वा २, कुण्ठम् २, कुण्ठयित्वा २, चुकुण्ठिषम् २, चुकुण्ठिषित्वा २, चोकुण्ठम्
चोकुण्ठित्वा २। 7
प्रासङ्गिक्यः
01
=>
(२०९)
02
=>
(१-भ्वादिः-३४२। सक। सेट्। पर।)
03
=>
[[१। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्। ष्टुत्वेन णकारः।]]
04
=>
[[२। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति कर्मव्यतीहारे आत्मनेपदम्।]]
05
=>
[[आ। ‘शठत्वमार्गें शुठितैरकुण्ठितैरलुण्ठिताशुण्ठितसौहृदान्वितैः।’ धा। का। १-४५।]]
06
=>
[[३। विगतः कुण्ठः यस्याः सा विकुण्ठा। तस्या अपत्यं वैकुण्ठः, शिवाद्यण्। कर्तरि अच्। यद्वा, विकुण्ठ एव वैकुण्ठः अप्रतिहतशक्तिक इत्यर्थः। विविधा कुण्ठा माया अस्यास्तीति वा वैकुण्ठः।]]
07
=>
[पृष्ठम्०२०४+ २४]