| YouTube Channel

वेषः (veSaH)

 
Hindi
Hindi
make-ups/garbs/roles
Wordnet
Sanskrit
Synonyms:
वेशः, वेषः, वस्त्रम्, वासः, वसनम्, परिधानम्, भरणम्, आभरणम्, परिच्छदः, अम्बरः, भूषणम्, विभूषणम्, प्रसाधनम्, आच्छादनम्
noun
यद् अङ्गम् आच्छादयति।
"अद्य विद्यालये सर्वे पारम्पारिकं वेशं परिदधति।"
शब्दकल्पद्रुमः
Sanskrit
वेषः,
पुं,
वेवेष्टि व्याप्नोति अङ्गं वेषः पचादित्वादन्मूर्द्धन्यान्तः विशन्ति नयनमनांस्यत्रेत्याधारेघञि वेशस्तालव्यान्तश्च इति भरतः
नेप-थ्यम् (यथा, मनुः ।“विनीतवेषाभरणः पश्येत्कार्य्याणि कार्य्यि-णाम्
”)वेश्याजनाश्रयः “द्वे दारिकाणां निवासस्थाने ।विशति यूनां मनः कामुको वा वेशः शौ विशप्रवेशे घञ् ।‘नेपथ्ये गृहमात्रे वेशो वेश्यागृहेऽपि ।’इति तालव्यान्ते रभसः
‘गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तुतालव्यः ।तालव्यो मूर्द्धन्योऽलङ्करणे कथित आचार्य्यैः
’इत्युष्मविवेकः ।वेविषति व्याप्नुवन्ति जनमनांसीति धञि वेषोमूर्द्धन्यान्तोऽपि इत्येके तत्तु हृद्यं मूर्द्धन्यान्तेषुसर्व्वत्र कोषादावनुपात्तत्वादिति मुकुटः ।” इतिच भरतः
(संस्थानविशेषः यथा, रामा-यणे १७ १९ ।“यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः
”“वेषः संस्थानविशेषः ।” इति तट्टिका
*
वेवेष्टि व्याप्नोति कर्त्तॄनिति पचाद्यच् कर्म्म ।इति निघण्टः
*
विष व्याप्तौ +घञ् व्याप्तिः यथा, वाजसनेयसंहितायाम्१ ।“कर्म्मणे वां वेषाय वाम् ।”“वेषायच विषॢ व्याप्तौ घञ् वेषो व्याप्तिः ।सूचितकर्म्मसु व्याप्त्यर्थं वां युवामह-माददे ।” इति तद्भाष्ये महीधरः
)