| YouTube Channel

वेणृ (veNR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वेण्
मूलधातुः:
वेणृ
धात्वर्थः:
गति-ज्ञान-चिन्ता-निशामन-वादित्र-ग्रहणेषु
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वेणति-ते
धातुप्रदीपः
Sanskrit
वेणृँ वेणृ गति, ज्ञान, चिन्ता, निशामन, वादित्रग्रहणेषु
- वेणति वेणते अविवेणत् इन् वेणिः प्रवेणिः ।। 881 ।।
क्षीरतरङ्गिणी
Sanskrit
वेणृँ वेणृ गति, ज्ञान, चिन्ता, निशामन, वादित्रग्रहणेषु
- (अर्थविवरणम्) वादित्रं वाद्यभाण्डम्, तस्य वादनार्थं ग्रहणम्
वेणते, वेणति, अविवेणत् रास्ना सास्ना (उ0 315) इति वीणा इन् (दश0 उ0 146) वेणिः, वेणिका, वेणी वेनिस्तु वीज्याज्वरिभ्यो निः (उ0 348) णः वेण्णाख्या नदी 848
धातुवृत्तिः
Sanskrit
वेणृँ वेणृ (अर्थः) गति, ज्ञान, चिन्ता, निशामन, वादित्र, ग्रहणेषु
(अर्थविवरणम्) वादित्रग्रहणं नाम वादित्रस्य वाद्यभाण्डस्य वादनार्थं ग्रहणमिति
क्षीरस्वामी ( वेणति विवेण वेणिता विवेणिषति वेवेन्यते वेवेण्टि वेणयति अविवेणत् वेणते विवेणे इत्यादि वेणिः "कृदिकारादक्तिनः'' इति ङीष्वा उत माता महिषमत्त्वेनम् इत्यत्र भाष्यकारास्तवर्गपञ्चमान्तममुं पेठुः 862
कृदन्तरूपमाला
Sanskrit
1 {@“वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु”@} 2 ‘वादित्रं वाद्यभाण्डम्, तस्य वादनार्थग्रहणम्’ इति क्षीरस्वामी।
‘वीणृ ज्ञानचिन्तानिशामनेषु’ इति काशकृत्स्नः।
तत्र भ्वादौ इतः पूर्वं णकारदण्डके ‘वेणृ गतिप्रेषणाश्लेषणेषु’ इति दृश्यते।
‘उत माता महिषमन्ववेनत्’ 3 इत्यत्र भाष्यकारास्तवर्गपञ्चमान्तममुं पेठुः।
‘वेनृ--इत्येके’ इति पक्षमवलम्ब्य धा।
का।
व्याख्यायां 4 शानचि प्रयोगः दृश्यते- ‘प्रबुन्द्यवेणीजववेनमाना…’ इति।
वेणकः-णिका, वेणकः-णिका, विवेणिषकः-षिका, वेवेणकः-णिक्म
वेणिता-त्री, वेणयिता-त्री, विवेणिषिता-त्री, वेवेणिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककेलतिवत् 5 ऊह्यानि।
6 वेणिः, वेणिका, 7 वेणी, 8 वीणा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६४१)
02
=>
(१-भ्वादिः-८७७। सक। सेट्। उभ।)
03
=>
(तै। सं। ३-२-११३)
04
=>
(२-७७)
05
=>
(२६२)
06
=>
[[१। औणादिके (द। उ। १-४६) इन्प्रत्यये रूपमेवम्। ततो ण्वुलि स्त्रियां टापि वेणिका इति।]]
07
=>
[[२। ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति ङीष्प्रत्यये रूपम्। वेणी = स्त्रीजटा।]]
08
=>
[[३। ‘रास्नासास्नास्थूणावीणाः’ (द। उ। ५-४७) इति (नकारपाठपक्षे) नकारस्य णत्वं अगुणत्वं निपात्यते। तेन रूपमेवम्। वीणा = वल्लकी।]]