| YouTube Channel

वृद्धत्व (vRddhatva)

 
शब्दसागरः
English
वृद्धत्व
n.
(-त्वं) Old age.
E.
वृद्ध old, त्व
aff.
of the abstracts
also वृद्धता
Yates
English
वृद्धत्व (त्वं) 1.
n.
Old age.
Wilson
English
वृद्धत्व
n.
(-त्वं) Old age.
E.
वृद्ध old, and त्व
aff.
of the abstract
also वृद्धता.
Monier Williams Cologne
English
वृद्ध—त्व
n.
old age,
MBh.
Benfey
English
वृद्धत्व वृद्ध + त्व,
m.
Old age,
Pañc. 226, 2.
Lanman
English
vṛddhatva, n. condition of being old,
old age. [1239.]
अमरकोशः
Sanskrit
Word: वृद्धत्वम्
Root: वृद्धत्व
Gender: नपुं
Number: all
Meaning(s):
old age
Shloka(s):
2|6|40|2 स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्॥ (मनुष्यवर्गः)
Synonym(s):
2|6|40|2 स्थाविरम् (स्थाविर) (नपुं)
2|6|40|2 वृद्धत्वम् (वृद्धत्व) (नपुं)
Related word(s):
परा_अपरासंबन्धः अनेकविधा_अवस्था
गुण-गुणी-भावः वृद्धः
जातिः अवस्था
शब्दकल्पद्रुमः
Sanskrit
वृद्धत्वं,
क्ली,
(वृद्ध + त्व ।) वृद्धस्य भावः तत्-पर्य्यायः स्थाविरम् इत्यमरः
वार्द्धक्यम् ३वार्द्धकम् इति शब्दरत्नावली
(यथा, रघुः २३ ।“अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।तस्य धर्म्मरतेरासीद्वृद्धत्वं जरसा विना
”)बाल्यादेरवधिमाह सुश्रुतः ।“वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा ।ऊनषोडशवर्षस्तु नरो बालो निगद्यते
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्न-भुक् ।दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम्
तदुत्तरं स्यादन्नाशी एवं वालस्त्रिधा मतः
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ।चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्य्यादिपूरितः ।ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः
”वीर्य्यादीत्यादिशब्देन रसादिसर्व्वधात्विन्द्रिय-बलोत्साहा उच्यन्ते क्षीणः सर्व्वधात्विन्द्रिय-बलोत्साहैर्हीनः ।“ततस्तु सप्ततेरूर्द्ध्वं क्षीणधातुरसादिकः ।क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने
वलीपलितखालित्ययुक्तः कर्म्मसु चाक्षमः ।कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः
बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमे-ऽधिकम् ।वार्द्धक्ये वर्द्धते वायुर्विचार्य्यैतदुपक्रमेत्
”उपक्रमेत् चिकित्सेत् तन्त्रान्तरे तु ।“बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ ।बुद्धिः कर्म्मेन्द्रियं चेतो जीवितं दशतो ह्रसेत्
”इति भावप्रकाशः