| YouTube Channel

वृञ् (vRJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वृ
मूलधातुः:
वृञ्
धात्वर्थः:
वरणे
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वृणोति, वृणुते
धातुः:
वृ
मूलधातुः:
वृञ्
धात्वर्थः:
आवरणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
वारयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
वृञ् वरणे
- वृणोति वृणुते ववार वव्रे वरिता वरीता विवरिषति विवरीषति वुवूर्षति वेव्रीयते वृतम् वृतिः वृत्यम् 9
वृञ् आवरणे
- वारयति वरति वरते अन्यत्र वृणोति वृणुते 258
क्षीरतरङ्गिणी
Sanskrit
वृञ् वरणे
-उदात्तौ- वृणोति, वृणते प्रावरिता प्रावरीता, वॄतो वा (7238) इतीटो वा दीर्घः सिचि परस्मैपदेषु (तु0 7240) इतीट्-प्रावारीत्, प्रावारिष्टाम् लिङ्सिचोरत्मनेपदेषु (7242) वा-प्रावरिषाताम्, प्रावृषाताम्, वृषीष्ट वरिषीष्ट, लिङि (7239) इति दीर्घो नास्ति इट् सनि वा (7241)-वुवूर्षति विवरिषति विवरीषति अवद्यपण्यवर्या (31101) इत्यनिरोधे वर्यः, वार्योऽन्यः एतिस्तुशासु (31109) इति क्यप्-वृत्यम् ण्यदपीष्यते-वार्यम् संज्ञायां भृतॄ (3246) इति पतिंवरा कन्या ग्रहवृदृ (3358) इत्यप्-वरः नौ वृ धान्ये (3348) घञ्-नीवारः वृणोतेराच्छादने (3354)-प्रवारः अण्डन् कृसृभृवृञः (उ0 1129)-वरण्डः जॄवृञ ऊथन् (उ0 25 श्वेत0 A। B। पाठः)-वरूथो रथगुप्तिः सुयुरुवृञो युच् (उ0 274)-वरणः अजिवृरीभ्यो निच्च (उ0 338)-वणुर्नाम नदः कॄगॄशॄवृञ्चतिभ्यः ष्वरच् (दश0 उ0 847)-वर्वरः कुञ्चिताः केशाः सृवृभृशृषिमुषिभ्यः कित् (दश0 उ0 319)-वृकः वृञश्चित् (उ0 3107)-वरत्रा चर्मरज्जुः जनिदाच्युः (उ0 4104) इति वृशो वाशिका वसिवपिवदिराजि (दश0 उ0 153) इतीञ्-वारि ण्यन्तात् क्विपि वाः-वारां निधिः
वृञ् आवरणे
- आवारयति
आवरति, आवरते स्वादौ (59) वृणुते, वृणोति, क्र्य्यादौ वृङ सम्भक्तौ (942) वृणीते 260
धातुवृत्तिः
Sanskrit
वृञ् (अर्थः) वरणे
उदात्तः ( वृणोति वृणुते ववारः वव्रतुः ववरिथ वव्र ववार ववर ववृव वव्रे ववृषे ववृढ्वे ववृवहे ) क्रादिपाठादिनट्त्वम् थलि तु "बभूथाततन्थजगृभ्मववर्थेति निगमे'' इति निगमे इडभावस्य निपातनाद्भाषायामिडागमः ( वरिता वरीता वरिष्यति वरीष्यति वरिष्यते वरीष्यते ) "वृतो वा'' इत्यलिटीटो वा दीर्घः ( वृणोतु वृणुताम् अवृणोत् अवृणुत वृणुयात् वृण्वीत आशिषि ( व्रियात् ) "रिङ्शय'' इति रिङादेशः रीङि प्रकृते रिङ्विधानसामर्थ्यात् "अकृत्सार्वधातुकयोः'' इति दीर्घाभावः (वृषीष्ट वरिषीष्ट) "वृत'' इत्यधिकारे "लिङ्सिचोरात्मनेपदेषु''इति वा इडागमः "वृतः'' इति दीर्घस्य "न लिङि'' इति निषेधः इडभावे "उश्च'' इति लिङ्सिचोः कित्त्वान्न गुणः ( अवारीत् अवारिष्टाम् "वॄतो वा'' इति दीर्घस्य "सिचि परस्मैपदेषु'' इति निषेधः ( अवृत अवृषाताम् अवरिष्ट अवरिष्ट अवरिषाताम्, अवरीषाताम् ) "लिङ्सिचोः'' इतीट्पक्षे "वॄत'' इति वा दीर्घः ध्वम्यनिट्पक्षे नित्यो मूर्द्धन्यः, इटि तु विकल्पेन दीर्घश्च वेति पञ्च रूपाणि (अवृद्ध्वम्, अवरिद्ध्वम्, अवरीद्ध्वम्, अवरीध्वम्, अवरिढ्वम्, अवरीढ्वम्)इति कर्तृवत् कर्मणि तेऽपि, चिण्विशेषः, (अवारि) इति कर्मकर्तरितु "अचः कर्मकर्तरि'' इति चिणो विकल्पनात्सिजपि, तत्र कर्तृवद्वा इट्, तस्य चेटो दीर्घविकल्पः, पक्षे चिण्वदिट्, प्रकृतस्येटो दीर्घविधानादस्य दीर्घ इति ( अवारि, अवृत, अवरिष्ट, अवरीष्ट अवारिष्ट, ) इति पञ्च रूपाणि द्विवचनादौ चिण्वर्ज्यं चातूरूप्यम् ध्वमि तु कर्तृवत्पञ्च रूपाणि, चिण्वदिटि मूर्द्धन्यविकल्पेन (अवारिढ्वम्, अवारिध्वम् ) इति द्वयमिति सप्त रूपाणि (वुवूर्षतिविवरिषति विवरीषति ) "वृत'' "इट् सनि वा'' इति वा इट्, तस्य वा दीर्घः, अनिट्पक्षे "इको झल्'' इति सनः कित्त्वे "अज्झन'' इति दीर्घ "उदोष्ठ्यपूर्वस्य'' इति उत्वे रपरे सति "हलि च'' इति इक उपधाया दोर्घः (वेवीयते) "रीङृतः'' इति रीङ् ( वर्वर्त्ति ) इत्यादि ( वारयति यवेभ्यो गाः अवीवरत् ) "वारणार्थानामीप्सितः'' इत्याप्तुमिष्यमाणस्यापादानत्वम् प्रवृत्तिविघातो वारणम् ) ( कण्टकैः परिवारयति वृक्षम् परिवारयन्ति कण्टका वृक्षं स्वयमेव ) करणेन तु [तुल्यक्रियः कर्ता कमर्वद्बहुलम्] इति ण्यन्ते करणस्यात्र कर्मवद्भावः, यक्चिणौ तु "णिश्रन्थि'' इतीति निषेधान्न भवतः ( वृत्यः ) "एतिस्तु'' इत्यादिना क्यप् (वार्याऋत्विज) इति क्रैयादिकस्य ण्यति, क्यब्विधौ हि वृञो ग्रहणमिप्यते ( पतिंवरा ) "संज्ञायां भृतॄवृजि'' इति खच् "खित्यनव्ययस्य'' "अरुर्द्विषद्''इति मुमागमः (नीवारः) "नौ वृ धान्ये'' इति घञ् "उपसर्गस्य घञ्यमनुष्ये'' इति दीर्घः अधान्ये ( निवरः ) "ग्रहवृदृनिश्चिगमश्च'' इत्यप्, स्त्रियामपि बाहुलकात्क्तिनं बाधित्वाऽयमेव भवतीति हरदत्तः तेन ( निवरा ) कन्येति भवति लिङ्गकारिकायामबन्तस्य पुंस्त्वशासनं प्रायिकमिति न्यासः खच्प्रभृतयोऽमी त्रयः प्रत्ययाः क्रैयादिकस्यापीति तस्यापि समानं रूपं, ( प्रावरः प्रवर उत्तरासङ्ग, ) "वृणोतेराच्छादने'' इति प्रोपसृष्टाद्घञपौ, घञि "उपसर्गस्य'' इति दीर्घः आच्छादनादन्यत्रावेव अत्रापि बाहुलकात् क्तिन्विषयेऽबेव भवतीति हरदत्तः ( प्रवरा ) गौरिति "अवद्यपण्य'' इत्यादौ वर्येति निपातनं क्रैयादिकस्येति स्थितमिति इह नोदाहृतम् ( वर्म ) मनिन् ( वर्मी ) व्रीह्यादिः वर्म्मिणोऽपत्यं ( वार्म्मिकायणिः ) वाकिनादिषु "चर्म्मिवर्म्मिणोर्नलोपश्च'' इति पाठात्फिञ् कुगागमो नलोपश्च, वर्मणा संनह्मति ( सम्वर्मयति ) "सत्यापपाश'' इत्यादिना णिच् अभिधानशक्तिस्वाभाव्यादयं संनह्यतीत्यर्थे अपहारवर्मणोरपत्यमापहारवर्मणः "न मपूर्वोऽपत्येऽवर्मण'' इति प्रकृतिभावनिषेधस्तत्रैवावर्मण इति पर्युदासान्न भवतीति "अन्'' इति प्रकृतिभाव एव भवति ( वरूथो ) रथगुप्तिः "जॄवृञ्भ्यामूथन्''इत्यूथन् ( वर्षम् ) "वृतॄवदिहनिकषिभ्यः स'' इति सः (वर्णः) "ऋज्रेन्द्र' इति सूत्रे वर्णशब्दस्य पाठोऽनार्षः, "कॄवृजृसिदृपन्यमिस्वपिभ्यो नित्'' इति नप्रत्ययेन सिद्धत्वादित्युज्वलदत्तः "खुरभद्रोप्रभ्रैरभैलशुक्लशुक्रतीव्रवर्णेरामाला'' इति रन्प्रत्यये तद्रेफस्य णत्वं निपात्यते ( वर्णी ब्रह्मचारी )"वर्णाद्ब्रह्मचारिणि'' इति मत्वर्थीय इनिः ( ब्राह्मणवर्णी ) "धर्मशीलवर्णान्ताच्च'' इति मत्वर्थीय इनिः, सिद्धे प्रत्यये पुनर्विधानं ठनादिनिवृत्त्यर्थम् ( वरुणः ) "कवृदारिभ्य उनन्'' ( वरुणानी ) "इन्द्रवरुण'' इति ङीषानुकौ पुंयोगे मित्रावरुणौ देवते अस्य ( मैत्रावरुणः ) "देवताद्वंद्वे च'' इत्यानङ् पूर्वपदस्य "सास्य देवता'' इत्यण् "देवताद्वन्द्वे च'' इत्युभयपदवृद्धिः "दीर्घाच्च वरुणस्य'' इति निषिध्यते वरुणदत्तो नाम कश्चित् अनुकम्पितोऽसौ ( वरुणिकः ) (वरुणिलः, वरुणदत्तकः) "बह्वचो मनुष्यनाम्नष्ठज्वा'' "घनिलचौ च'' इत्यनुकम्पायां ठच्घनिलकनो विधीयन्ते "शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्''इति ठजादौ प्रत्यये तृतीयादच ऊर्ध्वं लुप्यते वर्णुर्नदः) "अजिवृरीभ्यो नित्'' इति नुप्रत्ययो नित् ( वरत्री ) "वृञश्चित्'' इति अत्रन् प्रत्ययश्चित् वृङ् सम्भक्ताविति क्र्यादौ तथा दीर्घान्तो ञिदञ्चिच्च वरणार्थस्तत्र वृञ् आवरणइति चुरादौ 8
वृञ् (अर्थः) आवरणे
( वारयति वरति वरते वरिता वरीता, ) इटो दीर्घविकल्पः आत्मनेपदेषु लिङ्सिचोः सनि "लिङ्सिचोरात्मनेपदेषु'' "इट् सनि वा'' इतीड्विकल्पः लिङि परस्मैपदपरे सिचि "न लिङि'' "सिचि परस्मैपदेषु'' इतीटो दीर्घाभावाश्च वृञ्वन्नेयःञितत्त्वादुभयपदित्त्वम् वृणोति वृणुत इति श्नौ वृणीते इति सम्भक्तौ श्नि 273
कृदन्तरूपमाला
Sanskrit
1 {@“वृञ् वरणे”@} 2 ‘भक्तौ वृणीते वरणे वृणोति वृणुते वृञः।
वृञ आवरणे वा णौ वारयेद् वरते वरेत्।।’ 3 इति देवः।
‘वरणे--आवरणे’ इति काशकृत्स्नः।
‘वरणम् स्वीकारश्च्छादनं वा’ इति धा।
का।
व्याख्या 4।
5 वारकः-रिका, वारकः-रिका, 6 विवरिषकः-विवरीषकः-वुवूर्षकः-र्षिका, 7 वेव्रीयकः-यिका
वरिता-वरीता-त्री, वारयिता-त्री, विवरिषिता-विवरीषिता-वुवूर्षिता-त्री, वेव्रीयिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि क्रैयादिकवृणातिवत् 8 ऊह्यानि।
शतरि 9 विवृण्वन् 10 -ती, ण्यन्तात् क्विपि-वाः-वारौ-वारः 11 वारांनिधिः], 12 प्रावारः, 13 प्रवरः उत्तरासङ्गः, 14 यवेभ्यो गां वारयन्, 15 विवारी, 16 परिवारः-परीवाराः, 17 परिवारयमाणाः कण्टका वृक्षं स्वयमेव, 18 वृत्यम् 19, 20 वार्यम्, वर्यः, 21 पतिं- वरा 22, 23 वराकः, 24 वराकी, 25 वरः, 26 नीवारः, वारम्, 27 अश्ववाराः, निवरः, 28 वर्मा-वर्मी, वार्मिकायणिः, संवर्मयिता, चाक्रवर्मणः, वरितुम्- 29 आवरीतुम्, 30 आपहारवर्मणः, 31 वर्णः, वर्णी-ब्रह्मचारी, ब्राह्मणवर्णी, 32 वरुणः, वारुणी, 33 वरुणानी, मैत्रावरुणः, 34 वारि, 35 वर्णुः, 36 वृकः, 37 वर्गः, 38 वरण्डः, 39 वरणम्, वारणः, वरणा, 40 वरसानः, 41 वरूथः, 42 वर्वरः-वर्वरी, 43 वरत्रा, 44 वरुत्रम्, 45 वरूषः, 46 वृशः, सन्नन्तात् उप्रत्यये-विवरिषुः-विवरीषुः-वुवूर्षुः 47।
प्रासङ्गिक्यः
01
=>
(१६२६)
02
=>
(५-स्वादिः-१२५४। सक। सेट्। उभ।)
03
=>
(श्लो। ३२)
04
=>
(२-६८)
05
=>
[पृष्ठम्१२५२+ २५]
06
=>
[[१। सन्नन्ते ‘इट् सनि वा’ (७-२-४१) इति इडागमविकल्पः। तस्य ‘वॄतो वा’ (७-२-३८) इति वा दीर्घः। अनिट्पक्षे ‘इको झल्’ (१-२-९) इति सनः कित्त्वे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इति उत्वे, रपरत्वे ‘हलि च’ (८-२-२७) इति (उपधायाः) इकः दीर्घे रूपमेवम्।]]
07
=>
[[२। यडन्ते ‘रीङ् ऋतः’ (७-४-२७) इति रीङादेशे रूपमेवम्।]]
08
=>
(१६२२)
09
=>
[[३। शतरि, ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुप्रत्ययः। यणादेशः।]]
10
=>
[[आ। ‘तेजः क्षात्रं विवृण्वन्तं दिधक्षन्तमिवानलम्।।’ भ। का। ६-४०।]]
11
=>
[[[४। ण्यन्तात् क्विपि वाः--वारांनिधिः इति क्षीरस्वामिना उक्तम्।]]
12
=>
[[५। प्रोपसृष्टात् ‘वृणोत्तेराच्छादने’ (३-३-५) इति आच्छादनेऽर्थे घञ्प्रत्ययः। ‘उप- सर्गस्य घञि--’ (६-३-१२२) इति दीर्घे प्रावारः। आच्छादनादन्यत्र प्रवरः-उत्तरासङ्ग इति अबेव। ‘अन्यत्रापि बाहुलकात् क्तिन्विषये प्रवरा गौरिति अबेव भवति’ इति हरदत्तः।]]
13
=>
[[B। ‘ययुर्विन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिव।’ भ। का। ७-५३।]]
14
=>
[[६। ‘वारणार्थानामीप्सितः’ (१-४-२७) इति वारणार्थे यवस्य अपादानसंज्ञा भवति। वारणम् प्रवृत्तिविघात इत्यर्थः।]]
15
=>
[[७। णिनिप्रत्यये रूपमेवम्।]]
16
=>
[[८। ‘द्वौ वारावद्य मे वारो गवां वारश्च सञ्चये। परिवारस्तु ण्यन्ताद् बाहुलकेन कर्तरि घञि।।’ इति भोजः इति प्रकिया- सर्वस्वे। परिवारस्तु--ण्यन्तात् बाहुलकेन कर्तरि घञ्। अन्यत्र परी- वाराः = कपयः इति।]]
17
=>
[पृष्ठम्१२५३+ २७]
18
=>
[[१। ‘एतिस्तुशास्वृ--’ (३-१-१०९) इति क्यप्प्रत्यये तुकि रूपमेवम्।]]
19
=>
[[आ। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः।’ भ। का। ६-५६।]]
20
=>
[[२। ‘ण्यदपीष्यते’ इति क्षीरस्वामी। अस्य मूलं मृग्यम्। तन्मते ण्यति रूपमेवम्। वर्यः इत्यत्र तु ‘अवद्यपण्यवर्याः--’ (३-१-१०१) इति निपात्यते अनिरोधेऽर्थे। वार्योऽन्यः। स्त्रियां वर्या।]]
21
=>
[[B। ‘विश्वंभरा साम रथन्तराख्यं पतिंवरा चापि धनञ्जयश्च।’ इति प्रक्रियासर्वस्वे।]]
22
=>
[[३। ‘संज्ञायां भृतॄवृजि--’ (३-२-४६) इति खच्। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुमागमे रूपमेवम्।]]
23
=>
[[४। ‘जल्पभिक्षकुट्टलुण्टवृञः--’ (३-२-१५५) इति षाकन्प्रत्ययः। स्त्रियां ङीष्प्रत्यये वराकी। स्त्रियां बाहुलकात् क्तिनं बाधित्वाऽयमेव भवति इति हरदत्तः।]]
24
=>
[[C। ‘मृत्योरुपेतात् परिपालये सतीम् एतां वराकीमथ सोऽभ्युपैतु वा।’ वा। वि। १-५२]]
25
=>
[[५। ‘ग्रहवृदृ--’ (३-३-५८) इत्यप्प्रत्ययः। निवरः इत्यप्। निवरा कन्या। ‘लिङ्गकारिकायामबन्तस्य पुंस्त्वानुशासनं प्रायिकम्’ इति न्यासः (३-३-४८)। इति धातुवृत्तिः।]]
26
=>
[[६। ‘नौ वृ धान्ये’ (३-३-४८) इति निशब्द उपपदे धान्यविशेषेऽभिधेये घञ्प्रत्ययः। अपोऽपवादः। ‘उपसर्गस्य घञि--’ (६-३-१२२) इति दीर्घः। अधान्ये निवरः।]]
27
=>
[[ड्। ‘परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः।।’ शि। व। ३-६६।]]
28
=>
[[७। औणादिके मनिन्प्रत्यये रूपमेवम्। वर्मी--इत्यत्र वीह्यादित्वात् इनिप्रत्यये रूपमेवम्।]]
29
=>
[[E। ‘आवरीतुमिवाकाशं वरितुं वीनिवोत्थितम्।’ भ। का। ९-२४।]]
30
=>
[[८। ‘वॄतो वा’ (७-२-३८) इति दीर्घविकल्पः।]]
31
=>
[[९। ‘कॄवृ--’ (द। उ-५-४२) इति नप्रत्यये, गुणे रेफात्परस्य नकारस्य णत्वे रूपमेवम्।]]
32
=>
[[१०। ‘कॄवृ--’ (द। उ। ५-५२) इत्यादिना उनन्प्रत्यये गुणणत्वयोश्च रूपमेवम्।]]
33
=>
[पृष्ठम्१२५४+ ३०]
34
=>
[[१। णिजन्तात् औणादिके (द। उ। १-५३) इञ्प्रत्यये रूपम्। वार्यते तदिति वारि जलम्।]]
35
=>
[[२। औणादिके (द। उ। १-१४८) णुप्रत्यये रूपमेवम्। वृणोति व्रियते वा वर्णुः = नदविशेषः।]]
36
=>
[[३। ‘सृवृभूशुषि--’ (द। उ। ३-१९) इति कप्रत्ययो भवति किच्च। वृकः--श्वापदः, क्षुद्रश्च।]]
37
=>
[[४। औणादिकः (द। उ। ३-६२) गन्प्रत्ययः। वर्गः = संघातः।]]
38
=>
[[५। औणादिके (द। उ। ५-९) अण्डन्प्रत्यये रूपमेवम्। वृणोति व्रियते वा वरण्डः = काष्ठादिसंघातः।]]
39
=>
[[६। ‘सुयुरुवृञो युच्’ (द। उ। ५-२०) इति युच्प्रत्ययः। वरणम् = कन्याप्रदानम्। ल्युटि सिद्धमपीदं पदं संज्ञार्थमुणादिष्वपि निष्पादितमिति ज्ञेयम्। ‘रूढिशब्दप्रकाराः ताच्छीलिकाः’ (भाष्यम् ३-२-५६) इत्यत्र स्पष्टमिदम्।]]
40
=>
[[७। औणादिके (द। उ। ५-२९) असानच्प्रत्यये रूपमेवम्। वरसानः = मनोरथः।]]
41
=>
[[८। औणादिकः (द। उ। ६-३१) ऊथन्प्रत्ययः। वरूथः = रथगुप्तिः।]]
42
=>
[[९। ‘कॄगॄशॄवृञ्चतिभ्यः ष्वरच्’ (द। उ। ८-४७) इति ष्वरच्प्रत्यये रूपमेवम्। वर्वरः = कामः। स्त्रियां तु ङीषि वर्वरी = नदी।]]
43
=>
[[१०। ‘वृञश्चित्’ (द। उ। ८-५८) इति अत्रन्प्रत्ययो भवति। वरत्रा = चर्मरज्जुः।]]
44
=>
[[११। औणादिके (द। उ। ८। ९३) उत्रप्रत्यये रूपमेवम्। वरुत्रम् = अभिप्रेतम्।]]
45
=>
[[१२। औणादिके (द। उ। ९-१९) ऊषन्प्रत्यये रूपमेवम्। वरूषः = भोजनम्।]]
46
=>
[[१३। औणादिके (द। उ। १०-१५) शक्प्रत्यये रूपमेवम्। वृशः = आर्द्रकम्।]]
47
=>
[[आ। ‘संवुवूर्षुः स्वमाकूतमाज्ञां विवरिषुर्द्रुतम्’।ऽ भ। का। ९-२६।]]
1 {@“वृञ् आवरणे”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘वृञ आवरणे वा णौ वारयेद् वरते वरेत्।।’ 3 इति देवः।
वारकः-रिका, विवारयिषकः-षिका, वारकः-रिका, विवरिषकः-विवरीषकः- वुवूर्षकः-र्षिका, वेव्रीयकः-यिका
वारयिता-त्री, विवारयिषिता-त्री, वरिता-वरीता-त्री, विवरिषिता-विवरीषिता- वुवूर्षिता-त्री, वेव्रीयिता-त्री
4 इत्यादिकानि रूपाणि सर्वाण्यपि ण्यन्तं, तत्प्रकृतिकसन्नन्तं विना क्रैयादिक- वृणातिवत् 5 ज्ञेयानि।
ण्यन्ते तत्प्रकृतिकसन्नन्ते यथासम्भवमूह्यानि।
प्रासङ्गिक्यः
01
=>
(१६२७)
02
=>
(१०-चुरादिः-१८१४। सक। सेट्। उभ।)
03
=>
(श्लो। ३२)
04
=>
[पृष्ठम्१२५५+ ३०]
05
=>
(१६२२)