वृजी (vRjI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit वृज्
वृजी
वर्जने
रुधादिः
सकर्मकः
सेट्
परस्मैपदी
वृणक्ति
वृज्
वृजी
वर्जने
चुरादिः
सकर्मकः
सेट्
उभयपदी
वर्जयति-ते
आधृषीयः
धातुप्रदीपः
Sanskritवृजीँ वृजी वर्जने
- वृक्ते । वृजाते । वृजते । ववृजे । वर्जिता । वृक्तम् (10) ।। 20 ।।
वृजीँ वृजी वर्जने
- वृणक्ति ववर्ज ववृजतुः वर्जिता वर्जिष्यति अवृणक् वर्जित्वा वृक्तम् 24
वृजीँ वृजी वर्जने
- वर्जयति वर्जति वर्जितम् अन्यत्र वृङ्क्ते वृणक्ति 257
क्षीरतरङ्गिणी
Sanskritवृजीँ वृजी वर्जने
- वृणक्ति अवृणक् अपवृक्तः वर्गः वृजिनं पापम् वृची वरण इति दौर्गाः-वर्कः अदादौ (220 दुर्गमते ) वृक्ते 24
वृजीँ वृजी वर्जने
- वर्जयति, वर्जति अदादौ (220 व्याख्याने) वृक्ते, रुधादौ (729) वृणक्ति 259
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritवृजीँ वृजी (अर्थः) वर्जने
दन्त्योष्ठ्यादिः इदिदित्यात्रेयादयो दौर्गाश्च ( वृक्ते वृजाते वृक्षे वृग्ध्वे ववृजे ववृजिषे ववृजिवहे वर्जिता वर्जिष्यते वृक्तां, वृक्ष्व वर्जै वर्जावहै ) आटि गुणः ( अवृक्त अवृक्थाः अवृजि वृजीत वृजीथाः वृजीय, ) आशिषि ( वर्जिषीष्ट, ) अत्र "लिङ्सिचौ'' इत्यत्र झलीत्यनुवर्त्तनान्न कित्त्वम् अवर्जिष्ट, अवर्जिष्ठाः अवर्जिषि, विवर्जिषते, वरीवृज्यते ) रीगभ्यासस्य, ( वर्वर्क्ति ) रुगागमः रीग्रिकोरप्युदाहार्यम् ( वर्जयति अवीवृजत्, अववर्जत् ) "उरृत्'' इत्यृकारो वा गुणापवादः ( वर्जित्वा वृक्तम् ) निष्ठायां "श्वीदितो निष्ठायाम्'' इत्यनिट्त्वम्, ( वृज्यः, ) "ऋदुपधाच्च'' इति क्यप् ( वृजयो ) जनपदाः "इगुपधात्किच्च'' इतीन् प्रत्ययः, कित्त्वान्न गुणः वृजिषु भवो ( वृजिकः ) "मद्रवृज्योः कन्'' इति कन् शैषिकः ( वर्गः ) घञि कुत्वम्, वर्गे भवो ( वर्ग्यः ) दिगादित्वाद्यत् ( कवर्गीयः ) "वर्गान्ताच्च'' इति भवार्थे छः, वासुदेववर्गे भवो वासुदेववर्ग्यः वासुदेववर्गीणः, "अशब्दे यत्खावन्यतरस्याम्'' इति यत्खै, अन्यतरस्यां ग्रहणाच्छश्च, वासुदेववर्गीय इति वृजिनं पापं, "वृजेः किच्च'' इतीनच् प्रत्ययः कित्त्वान्न गुणः (वृजनम् ) "कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युन्'' इति क्युन्यनादेशः अयं रुधादौ युजादौ च अयमिदिदिति मैत्रैयः तथा चाधीयते चक्षुरेव भ्रातृव्यस्य वृङ्क्तेइति तथा च शाबरभाष्ये प्रवृञ्जनमिति प्रयुज्यते तथा च स्वामी वृज इति दौर्गाः, तेषां वृक्ते वर्जितेति, शाकटायनस्यापीदित्वमेवेष्टं, यदाह पिजु वृजु पृचै सम्पर्चन इति, तेन ह्युदिदिदित्स्थाने क्रियते एदिदीदित् स्थाने, तन्मते पूर्वोऽयं वक्ष्यमाण( 1 ) ( 1 ) वक्ष्यमाणास्रय इति क्वाचित्कोऽपपाठः श्च सम्पर्चनार्थः ( वृञ्जाते वृञ्जतेवृङ्क्षे वृञ्जे ववृञ्जे वृञ्जिष्यते वृङ्क्ताम् अवृङ्क्त वृञ्जीत ) आशिषि-(वृञ्जिषीष्ट, अवृञ्जिष्ठ, वरीवृञ्ज्यते, वरीवृङ्क्ति, वृञ्जयति अववृञ्जत् ) 19
वृजीँ वृजी (अर्थः) वर्जने
( वृणक्ति वृङ्क्तः वृञ्जन्ति ववर्ज ववृजतुः ववर्जिथ ववृजिव वर्जिता वर्जिष्यति वृणक्तु वृङ्क्तात् वृङ्क्ताम् वङ्ग्धि वृणजानि अवृणक् अवृङ्क्ताम् अवृणक् अवृङ्क्त अवृणजम् अवृञ्ज्व वृञ्ज्यात् वृज्यात् ) लिङौ, ( अवर्जीत् अवर्जिष्टाम् विविर्जिषति वरीवृज्यते वरिवृजीति वरीवर्क्ति ) इत्यादि ( वर्जयति अवीवृजत् अववर्जत् वर्जित्वा ) "न क्त्वा सेट्'' क्त्वा सेट्'' इत्यकित्त्वाद्गुणः ( वृक्तः ) ईदित्वादनिट्त्वम् ( प्रवर्ग्यम् ) ण्यति कुत्वम् अत्र वृची वरणे इति दुर्गादयः पठन्ति, तस्यापि वृजिवद्रूपन्नेयम् 24
वृजीँ वृजी (अर्थः) वर्जने
( वर्जयति वर्जिता ) ईदित्त्वं निष्ठायामनिडर्थं, वृक्तइति वृङ्क्ते वृक्तीति लुक्श्नमोः 272
कृदन्तरूपमाला
Sanskrit1 {@“वृजी वर्जने”@} 2 सूत्रमिदं क्षीरस्वामी दौर्गपाठत्वेन पठति।
“इदित् इति आत्रेयमैत्रेय- दुर्गादयः।
तथा चाधीयते-- ‘चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’ इति।
तथा च शाबरभाष्ये ‘प्रवृञ्जनम्’ इति प्रयुज्यते।
तथा च स्वामी-- “वृज इति दौर्गाः, तेषां वृक्ते, वर्जिता इति।
शाकटायनस्यापीदित्त्वमेवेष्टम्” इति मा।
धातुवृत्तिरिहानुसन्धेया।
‘वृज गतौ’ इति क्षीरस्वामी 3 पठित्वा वृजी इति दौर्गाः।
वृक्ते वर्जिता इत्याह’ इत्येवमुक्तम्।
यत्त्वत्र पुरुषकारेण ‘क्षीरस्वामिना वृजि इति पठित्वा’ इत्युक्तं तन्नोपलभ्यते क्षीरतरङ्गि- ण्याम्।
काशकृत्स्नोऽपि ‘वृजी--’ इत्येव पपाठ।
‘--त्यागे वृत्तौ च’ इति वोपदेवः।
‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 4 इति देवः।
वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, 5 वरीवृजकः-जिका
वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री
-- वर्जयन्-न्ती, वर्जयिष्यन्-न्ती-ती
-- -- 6 वर्जमानः, वर्जयमानः, विवर्जिषमाणः, वरीवृज्यमानः
वर्जिष्यमाणः, वर्जयिष्यमाणः, विवर्जिषिष्यमाणः, वरीवृजिष्यमाणः
वृक्-वृग्-वृजौ-वृजः
-- -- -- 7 वृक्तम्-क्तः-क्तवान्, वर्जितम्-तः, विवर्जिषितः, वरीवृजितः-तवान्
वर्जः, वर्जः, प्रवर्जी, विवर्जिषुः, वरीवृजः
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
9 वृज्यः, 10 वृजयः, वृजिकः, 11 वर्गः, वर्ग्यः, कवर्गीयः, वासुदेववर्ग्यः-वासुदेव- वर्गीणः, वासुदेववर्गीयः, 12 एकवर्जम्, 13 वृजिनम्, 14 वृजनम् इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
01 (१६२३)
02 (२-अदादिः-१०२९। सक। सेट्। आत्म।)
03 (भ्वादौ)
04 (श्लो। ५९)
05 [[५। ऋदुपधस्याङ्गस्य ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासे रीगागमः। एवं यङन्ते सर्वत्र बोध्यम्।]]
06 [पृष्ठम्१२५०+ २८]
07 [[१। निष्ठायाम्, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति अनिट्त्वम्, ततश्च ‘चोः कुः’ (८-२-३०) इति कुत्वे रूपमेवम्।]]
08 (४२२)
09 [[२। ‘ऋदुपधाच्च--’ (३-१-११०) इति क्यप्प्रत्यये रूपमेवम्।]]
10 [[३। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्। वृजयो जनपदाः।]]
11 [[४। घञि ‘चजोः कु--’ (७-३-५२) इति कुत्वम्।]]
12 [[५। ‘द्वितीयायाञ्च’ (३-४-५३) इति द्वितीयान्त उपपदे परीप्सायां गम्यमानायां णमुल्प्रत्यये रूपमेवम्। परीप्सा = त्वरा। अत्र निदानं तु ‘अनुदात्तं पदमेकवर्जम्’ (६-१-१५८) इति निर्देश एव। परीप्सायामिति नानुवर्ततेऽत्र, इति हरदत्तः।]]
13 [[६। ‘वृजेः किच्च’ (द। उ। ५-५३) इति इनच्प्रत्ययः, किच्च भवति। वृजिनम् = पापम्। कित्त्वान्न गुणः।]]
14 [[७। ‘कॄपॄवृजि--’ (द। उ। ५-२६) इति छन्दसि विषये क्युप्रत्यये अनादेशे च रूपमेवम्। वृजनम् = निवारणम्, अन्तरिक्षं च।]]
1 {@“वृजी वर्जने”@} 2 ‘-- त्यागे वृतौ च’ इति वोपदेवः।
‘--त्यागे’ इति काशकृत्स्नोऽपि।
‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 3 इति देवः।
‘-- वरणे’ इति धनपालशाकटायनौ।
‘वृजी--’ इति पठित्वा ‘वृची’ वरणे इति दौर्गाः--वर्कः 4’ इति क्षीरतरङ्गिण्यां दृश्यते।
‘वृचि वरणे इति दुर्गादयः पठन्ति’ इति मा।
धा।
वृत्तिः।
काशकृत्स्नधातुपाठे ‘वृची हिंसायाम्’ इति स्वतन्त्रो धातुः दृश्यते।
तत्र रुधादौ इतः पूर्वं ‘वृजी वर्जने’ इति च पठितम्।
धातुकाव्यव्याख्याने 5 ‘वृची वरणे इति केचित्’ इत्युक्तम्।
6 वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका
वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री
7 वृञ्जन्-ती, वर्जयन्-न्ती, विवर्जिषन्-न्ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
9 वृक्तः, 10 11 प्रवर्ग्यम्, 12 वर्जित्वा, 13 वृजिनम्, वर्णः, 14 इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (१६२४)
02 (७-रुधादिः-१४६१। सक। सेट्। पर।)
03 (श्लो। ५९)
04 (अदादौ वृक्ते)
05 (३। ३)
06 [पृष्ठम्१२५१+ २७]
07 [[१। शतरि, विकरणप्रत्ययस्य शपः ‘रुधादिभ्यः श्नम्’ (१-३-७८) इति श्नमि ‘श्नस्रोर- ल्लोपः’ (६-४-१११) इत्यकारलोपे, अनुस्वारपरसवर्णयोः कृतयोः णत्वे च रूपमेवम्।]]
08 (४२२)
09 [[२। ईदित्त्वात् ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिडागमनिषेधः।]]
10 [[आ। ‘संतक्तनद्धवसनाः परिवेगवृक्ताः…।।’ धा। का। ३-३]]
11 [[३। ण्यति, ‘चजोः कु धिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
12 [[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
13 [[५। ‘वृजेः किच्च’ (द। उ। ५-१३) इति इनच्प्रत्ययः किच्च भवति। कित्त्वान्न गुणः। वृज्यते वृणक्ति वा वृजिनम् = पापम्।]]
14 [[६। वृणोति व्रियते वाऽसौ इति वर्णः = श्वेतादिगुणसंज्ञा, ब्राह्मणादीनां वा। औणादिके (द। उ। ८-४६) नन्प्रत्यये णत्वे च रूपम्।]]
1 {@“वृजी वर्जने”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘-- त्यागे’ इति काशकृत्स्नवोपदेवौ।
वर्जकः-र्जिका, विवर्जयिषकः-षिका
वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका
वर्जयिता-त्री, विवर्जयिषिता-त्री, वर्जिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री
इत्यादिकानि रूपाणि ण्यन्ते।
ण्यन्तप्रकृतिकसन्नन्ते तु चौरादिकछर्दयतिवत् 3 ज्ञेयानि।
शुद्ध-तत्प्रकृतिकसन्नन्ते यङन्ते च सर्वाणि रूपाणि भौवादिक- गर्जतिवत् 4 बोध्यानि।
5 अपवृक्तः।
01 (१६२५)
02 (१०-चुरादिः-१८१३। सक। सेट्। उभ।)
03 (५७४)
04 (४२२)
05 [[B। ‘… स्थैर्यं सुदूरमपवृक्तवृतिप्रभावः।।’ धा। का। ३-४८]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
