| YouTube Channel

वृक्षः (vRkSaH)

 
Apte
English
वृक्षः [vṛkṣḥ], [व्रश्च्-क्स
Uṇ.*
3.66]
A tree
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्.
A tree bearing visible flowers and fruit
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः
Ms.*
1.47.
Wrightia Antidysenterica (Mar. इंद्रजव, कुडा).
Comp.
-अङ्घ्रिः the root of a tree.
अदनः a carpenter's chisel.
the fig-tree.
the Piyāla tree.-अधिरूढः [also वृक्षाधिरूढम्, वृक्षाधिरूढिः
f.
] a kind of embrace by women resembling the climbing of trees by creepers [बाहुभ्यां कण्ठमालिङ्ग्य मामिनी कान्त उत्थिते अङ्कमा- रोहते यस्य वृक्षारूढः उच्यते Nārāyaṇa's com. on
N.*
7.97.]
क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः
N.*
7.97
वल्ली पुरन्ध्रिपटलं घटिताभिरामवृक्षाधिरूढकमुपैति परामभिख्याम् Haravijaya 5.33. -अम्लः the hog-plum. (-म्लम्) the fruit of the tamarind tree
वृक्षाम्लमाममम्लोष्णं वातघ्नं कफ- पित्तलम् पक्वं तु गुरु संग्राहि कटुकं तुवरं लघु Bhāva
P.
-आमयः Lac, resin. -आरोपकः the planter of a tree
Ms.*
3.163. -आलयः a bird.
आवासः a bird.
an ascetic. -आश्रयिन्
m.
a kind of small owl.
a bird.-उत्पलः the Karṇikāra tree. -औकस्
m.
an ape. -कुक्कुटः a wild cock. -खण्डम् a grove or clump of trees. -गुल्मa. covered with trees and shrubs
Ms.*
7.192. -गृहः a bird. -चरः a monkey. -छाया the shade of a tree. (-यम्) thick shade, the shade of many trees. -तक्षकः a wood-feller. -धूपः turpentine. -नाथः the fig-tree.-निर्यासः gum, resin
Ms.*
5.6. -पाकः the fig tree.-भवनम् the hollow of a tree. -भिद्
f.
an axe. -भेदिनिm.
a carpenter's chisel. -मर्कटिका a squirrel. -वाटिका
=
वाटी a garden, grove of trees. -शः a lizard. -शायिका a squirrel. -संकटम् a forest-thicket.
Apte 1890
English
वृक्षः [व्रश्च्-क्स Uṇ. 3. 66] A tree
आत्मापराधवृक्षाणां फलान्येतानि देहिनात्.
Comp.
अंघ्रिः the root of a tree.
अदनः {1} a carpenter's chisel. {2} a hatchet. {3} the fig-tree. {4} the Piyāla tree.
अम्लः the hog-plum. (
म्लं) the fruit of the tamarind tree.
आलयः a bird.
आवासः {1} a bird. {2} an ascetic.
आश्रयिन् m. {1} a kind of small owl. {2} a bird.
उत्पलः the Karṇikāra tree.
कुक्कुटः a wild cock.
खंडं a grove or clump of trees.
चरः a monkey.
छाया the shade of a tree. (
यं) thick shade, the shade of many trees.
धूपः turpentine.
नाथः the fig-tree.
निर्यासः gum, resin.
पाकः the fig-tree.
भिद् f. an axe.
भेदिन् m. {1} a hatchet. {2} a carpenter's chisel.
मर्काटिका a squirrel.
वाटिका, = वाटी a garden, grove of trees.
शः a lizard.
शायिका a squirrel.
Apte Hindi
Hindi
वृक्षः
पुं*
- व्रश्च् + क्स्
पेड़
Wordnet
Sanskrit
Synonyms:
वृक्षः, तरुः, द्रुमः, पादपः, द्रुः, महीरुहः, शाखी, विटपी, अमोकहः, कुटः, सालः, पलाशी, आगमः, अगच्छः, विष्टरः, महीरुट्, कुचिः, स्थिरः, कारस्करः, नगः, अगः, कुटारः, विटपः, कुजः, अद्रिः, शिखरी, कुठः, कुञ्जः, क्षितिरुहः, अङ्गघ्रिपः, भूरुहः, भूजः, महीजः, धरणीरुहः, क्षितिजः, शालः
noun
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
"वृक्षाणां रक्षणं कर्तव्यम्।"
वैजयन्तीकोषः
Sanskrit
Word: वृक्षः
Root: वृक्ष
Gender: पुं
Number: all
अर्थः
Meaning(s):
Tree
Shloka(s):
3|3|4|2 वृक्षो द्रुमो भूरुहो द्रुर्विटपी विष्टरोऽङ्घ्रिपः॥ (भूमिकाण्डः/वनाध्यायः)
3|3|5|1 अनोकहो नगो भूरुट् तरुः शाखी कुटः कुजः। (भूमिकाण्डः/वनाध्यायः)
3|3|5|2 वसुः करालिकोऽगच्छो जर्णो रूक्षः पुलाक्यपि॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|4|2 वृक्षः (वृक्ष) (पुं) Tree
3|3|4|2 द्रुमः (द्रुम) (पुं) Tree
3|3|4|2 भूरुहः (भूरुह) (पुं) Tree
3|3|4|2 द्रुः (द्रु) (पुं) Tree
3|3|4|2 विटपी (विटपिन्) (पुं) Tree
3|3|4|2 विष्टरः (विष्टर) (पुं) Tree
3|3|4|2 अङ्घ्रिपः (अङ्घ्रिप) (पुं) Tree
3|3|5|1 अनोकहः (अनोकह) (पुं) Tree
3|3|5|1 नगः (नग) (पुं) Tree
3|3|5|1 भूरुहः (भूरुह) (पुं) Tree
3|3|5|1 तरुः (तरु) (पुं) Tree
3|3|5|1 शाखी (शाखिन्) (पुं) Tree
3|3|5|1 कुटः (कुट) (पुं) Tree
3|3|5|1 कुजः (कुज) (पुं) Tree
3|3|5|2 वसवः (वसु) (पुं) Tree
3|3|5|2 करालिकः (करालिक) (पुं) Tree
3|3|5|2 अगच्छः (अगच्छ) (पुं) Tree
3|3|5|2 जर्णः (जर्ण) (पुं) Tree
3|3|5|2 रूक्षः (रूक्ष) (पुं) Tree
3|3|5|2 पुलाकी (पुलाकिन्) (पुं) Tree
Related word(s):
परा_अपरासंबन्धः सप्तपर्णः
अवयव_अवयवीसंबन्धः पत्रम्
अमरकोशः
Sanskrit
Word: वृक्षः
Root: वृक्ष
Gender: पुं
Number: all
Meaning(s):
tree
frame
coffin
stimulant
staff of a bow
trunk of a tree
any tree bearing visible flowers and fruit
coral swirl [ Wrightia antidysenterica - Bot.]
Shloka(s):
2|4|5|1 वृक्षो महीरुहः शाखी विटपी पादपस्तरुः। (वनौषधिवर्गः)
2|4|5|2 अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥ (वनौषधिवर्गः)
3|3|19|1 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ। (नानार्थवर्गः)
3|3|106|2 तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥ (नानार्थवर्गः)
3|3|164|1 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ। (नानार्थवर्गः)
3|3|170|1 विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्। (नानार्थवर्गः)
3|3|207|1 मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः। (नानार्थवर्गः)
Synonym(s):
2|4|5|1 वृक्षः (वृक्ष) (पुं) tree, frame, coffin, stimulant, staff of a bow, trunk of a tree, any tree bearing visible flowers and fruit, coral swirl [ Wrightia antidysenterica - Bot.]
2|4|5|1 महीरुहः (महीरुह) (पुं)
2|4|5|1 शाखी (शाखिन्) (पुं) tree, branched [Zool.], provided with branches, separated into schools, follower of any Vedic school, veda which exists in various schools, adhering to a particular Vedic school, toothbrush tree [Salvadora Persica - Bot.]
2|4|5|1 विटपी (विटपिन्) (पुं) tree, Indian fig-tree, having branches or boughs
2|4|5|1 पादपः (पादप) (पुं) tree, plant, drinking at foot or root, foot-stool or cushion for the feet
2|4|5|1 तरुः (तरु) (पुं)
2|4|5|2 अनोकहः (अनोकह) (पुं)
2|4|5|2 कुटः (कुट) (पुं) ax, tree, fort, hammer, mountain, stronghold, mallet for breaking small stones
2|4|5|2 शालः (शाल) (पुं) wall, court, fence, rampart, any tree, Sal tree, enclosure, kind of fish, being in a house, shaala tree [Vatica Robusta - Bot.], snakehead murrel[ Channa striata -Zoo. ], fruit of money jack tree [ Artocarpus Lacucha - Bot. ]
2|4|5|2 पलाशी (पलाशिन्) (पुं) tree, leafy, eating flesh, species of tree, covered with foliage
2|4|5|2 द्रुद्रुमः (द्रुद्रुम) (पुं)
2|4|5|2 अगमः (अगम) (पुं) tree, mountain, not going, impassable, unable to go
3|3|19|1 नगः (नग) (पुं) sun, tree, serpent, mountain, number 7, not moving, any tree or plant
3|3|19|1 अगः (अग) (पुं)
3|3|106|2 शिखरी (शिखरिन्) (पुं) tree, peaked, tufted, crested, pointed, mountain, hill-post, pyramidal, stronghold, any mountain, Arabian jasmine, peaked mountain, kind of antelope, kind of atyaSTi metre, kind of vine or grape, particular parasitical plant, jasmine [Jasminum sambac - Bot.], dish of curds and sugar with spices, Sorghum [Andropogon Bicolor - Bot.], line of hair extending across the navel, resembling the buds of the Arabian jasmine, Spur-winged Water-hen [Parra jacana - Zoo.], Prickly chaff flower [Achyranthes Aspera - Bot.], Indian bowstring-hemp [Sanseviera Roxburghiana - Bot.], resin of sakai frankincense plant [Boswellia Serrata - Bot.]
3|3|164|1 अद्रिः (अद्रि) (पुं) sun, tree, rock, stone, cloud, mountain, thunderbolt, number seven, stone for a sling, mountain-shaped mass of clouds, stone for pounding soma with or grinding it on
3|3|170|1 विष्टरः (विष्टर) (पुं) seat, tree, wide, chair, couch, stool, anything spread out, handful of rushes or grass for sitting on, seat made of 25 shoots of kuza grass tied up in a sheaf
3|3|207|1 धवः (धव) (पुं) man, lord, rogue, cheat, husband, possessor, Red Bell Bush [Woodfordia fruticosa - Bot.], axlewood tree [Anogeissus latifolia - Bot.]
Related word(s):
अवयव_अवयवीसंबन्धः शुष्कफलम्
जातिः वृक्षः
परा_अपरासंबन्धः हस्तिकर्णाभपत्रः
अन्यसंबन्धाः वृक्षादिदैर्घ्यः
शब्दकल्पद्रुमः
Sanskrit
वृक्षः,
पुं,
(व्रश्च छेदने + “स्नुव्रश्चिकृत्यृषिभ्यःकित् ।” उणा० ६६ इति सः कित् ।“वृक्ष वरणे अतोऽच्यावृणोतीति वृक्ष इतिसिद्धे प्रपञ्चार्थं व्रश्चिग्रहणम् ।” इति तट्टीकाया-मुज्ज्वलदत्तः ।) स्थावरयोनिविशेषः गाछ इतिभाषा तत्पर्य्यायः महीरुहः शाखी ३विटपी पादपः तरुः अनोकहः कुटः८ सालः पलाशी १० द्रुः ११ द्रुमः १२ आगमः१३ इत्यमरः
अगच्छः १४ विष्टरः १५ मही-रुट् १६ कुचिः १७ स्थिरः १८ कारस्करः १९नगः २० अगः २१ कुटारः २२ इति शब्द-रत्नावली
विटपः २३ कुजः २४ वनस्पतिः २५अद्रिः २६ शिखरी २७ कुठः २८ इति जटा-धरः
कुञ्जः २९ क्षितिरुहः ३० अङ्घ्रिपः ३१भूरुहः ३२ भूजः ३३ महीजः ३४ धरणीरुह३५ क्षितिजः ३६ शालः ३७ इति राज-निर्घण्टः
तस्य षड्जातिर्यथा, --“कुरण्ट्याद्या अग्रबीजा मूलजास्तूत्पलादयःपर्व्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः ।शाल्यादयो बीजरुहाः संमूर्च्छजास्तृणादयः ।स्युर्व्वनस्पतिकायस्य षडेते मूलजातयः
”इति हेमचन्द्रः
“संस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ।”इत्यग्निपुराणम्
भद्रप्रदवृक्षा यथा, --श्रीभगवानुवाच ।“आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा
शुभप्रदश्च सर्व्वत्र सुरकारो निशामय
विल्वश्च पनसश्चैव जम्बीरो वदरी तथा ।प्रजाप्रदश्च पूर्व्वस्मिन् दक्षिणे धनदस्तथा
सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ।जम्बूवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा
बन्धुप्रदश्च पूर्व्वस्मिन् दक्षिणे मित्रदस्तथा ।सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ।ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय
सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ।अलावूश्चापि कुष्माण्डो मायाम्बुश्च सुकासुकः
खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदा ।वास्तूकः कारविल्वश्च वार्त्ताकुश्च शुभप्रदा ।लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम्
”निषिद्धवृक्षा यथा, --“प्रशस्तं कथितं कारो ! निषिद्धञ्च निशामय ।वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि
वटो निषिद्धः शिविरे नित्यं चौरभयं ततः ।नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा
हे कारो ! तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जयेत् ।शरेण धनहानिः स्यात् प्रजाहानिर्भवेद्ध्रुवम्
शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव ।न निषिद्धः प्रसिद्धश्च नगरेषु तथा पुरे
वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ।खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा
निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु ।वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम्
ग्रामेषु नगरे चापि शिविरे तथैव ।इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।कच्वी हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा
हरीतको शुभदा ग्रामेषु नगरेषु ।न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः
अपि ।“अपुत्त्रस्य पुत्त्रत्वं पादपा इह कुर्व्वते ।यत्नेनापि राजेन्द्र ! अश्वत्थारोपणं कुरु
ते पुत्त्रसहस्राणां कार्य्यमेकः करिष्यति ।धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः
प्लक्षो यज्ञप्रदः प्रोक्तो निम्बश्चासुप्रदः स्मृतः ।जम्बुकी नाकदा प्रोक्ता भार्य्यादा दाडिमी तथा
डुम्बरो रोगनाशाय पलाशो ब्रह्मदस्तथा ।अर्कपुष्पारोपकाणां नित्यं तुष्येद्दिवाकरः
श्रीवृक्षः शङ्करो देवः पाटलायान्तु पार्व्वती ।शिंशपायामप्सरसः कुन्दे गन्धर्व्वसत्तमाः
विभीतके दासवृद्धिर्व्वकुलो दास्यदस्तथा ।अपत्यनाशकस्तालो वकुलः कुलवर्द्धनः
बहुभार्य्या नारिकेली द्राक्षः सर्व्वाङ्गसुन्दरः ।रतिप्रदा तथा केली केतकी सर्व्वनाशिनी ।प्रतिष्ठां ते गमिष्यन्ति ये नराः प्लक्षरोपकाः
”इति पाद्मे सृष्टिखण्डे वृक्षारोपणं नाम २६अध्यायः
*
अस्य रोपणफलम् ।यम उवाच ।“वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ।षडेते वृक्षजातीयास्तासां रोपे फलं शृणु
यः पुमान् रोपयेद्वृक्षान् छायापुष्पफलोपगान् ।सर्व्वसत्त्वोपभोगाय याति परमां गतिम्
छायापुष्पोपगांस्त्रिंशत् फलपुष्पद्रुमांस्तथा ।रोपयित्वा दशाम्रांस्तु नरो नरकं व्रजेत्
देवदानवगन्धर्व्वाः किन्नरोरगगुह्यकाः ।पशुपक्षिमनुष्याश्च संश्रयन्ति मुदा द्रुमान्
पुष्पैः सुरगणाः सर्व्वे फलैश्च पितरः सदा ।छायया मे मनुष्यास्तु पशुपक्षिमृगास्तथा
पुष्पोपगन्धांश्च फलोपगन्धान्यः पादपान्रोपयते मनुष्यः ।समृद्धदेशे वरवेश्मवेद्यांलभेदधिष्ठानवरं विप्रः
तस्मात् सुबहवो वृक्षा रोप्याः श्रेयोऽभि-वाञ्छता ।पुत्त्रवत् परिपाल्याश्च ते पुत्त्रा धर्म्मतः स्मृताः
किं धर्म्मविमुखैर्म्मर्त्यैः केवलं स्वार्थहेतुभिः ।तरुपुत्त्रा वरं ये तु परार्थैकानुवृत्तयः
पत्रपुष्पफलच्छायामूलवल्कलदारुभिः ।परेषामुपकुर्व्वन्ति तारयन्ति पितामहान्
छेत्तारमपि संप्राप्तं छायापुष्पफलादिभिः ।पूजयन्त्येव तरवो मुनिवद्द्वेषवर्जिताः
पितरं नोपहिंसन्ति द्रुमा द्रविणलोभतः ।तारयन्ति मे सम्यक् सर्व्वस्यातिथ्यदायकाः
तस्मात्ते पुत्त्रवत् स्थाप्या विधिवद्द्विजपुङ्गव ।द्विजैः पितृमनुष्याणामभोज्याः स्युर्यदा सदा
जलकृत् वृक्षरोपी यः प्रतिग्राहारुचिर्द्विजः ।एते स्वर्गान्न हीयन्ते ये चान्ये सत्यवादिनः
”इत्याद्ये वह्निपुराणे तडागवृक्षप्रशंसानामा-ध्यायः
*
अपि ।“भूमिदानेन ये लोका गोदानेन कीर्त्तिताः ।ते लोकाः प्राप्यते पुंभिः पादपानां प्ररोहणे
अश्वत्थमेकं पिचुमर्द्दमेकंन्यग्रोधमेकं दश पुष्पजातीः ।द्वे द्वे तथा दाडिममातुलुङ्गेपञ्चाम्ररोपी नरकं याति
यथा सुपुत्त्रः कुलमुद्धरेद्धियथातिकृत्स्नान्नियमप्रयत्नात् ।तथात्र वृक्षाः फलपुष्पभूताःस्वं स्वामिनं नरकादुद्धरन्ति
गोकर्ण उवाच ।इन्धनार्थं यथा नीतमग्निहोत्रं तदुच्यते
छायाविश्रामपथिकैः पक्षिणां निलयेन ।पत्रमूलत्वगादींश्च औषधार्थन्तु देहिनाम्
उपकुर्व्वन्ति वृक्षस्य पञ्चयज्ञः उच्यते ।गृहकृत्यानि कष्टानि क्षुद्रजन्तुगृहास्तथा
सत्रनिर्व्वर्त्तनं प्रोक्तं भिक्षा पत्रैः समाकृता ।फलन्ति वत्सरे मध्ये द्विवारं शाकुनादयः
सांवत्सरं पितुर्मातुरुपकारं फलैः कृतम् ।एवं पुत्त्र समारोप्या एवं तत्त्वविदो विदुः
”इत्यादि वाराहपुराणे गोकर्णमाहात्म्यनामा-ध्यायः
*
अच्छेद्यवृक्षा यथा, --“अश्वत्थो वटवृक्षश्च च्छेत्तव्यः कदाचन ।न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन ।कर्म्मण्याश्चैव ये वृक्षा च्छेत्तव्याः कदाचन
”इति वाराहपुराणे ब्राह्मणदीक्षासूत्रं नामा-ध्यायः
*
वृक्षोत्पाता यथा, --“पुरेषु येषु दृश्यन्ते पादपाश्चैव रोदिताः ।रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्रसान्
अरोगा वा विना वातं शाखा मुञ्चन्त्यथद्रुमाः ।फलं पुष्पं तथा काले दर्शयन्ति द्विहायनाः
पूर्व्वावस्थां दर्शयन्ति फलं पुष्पं तथा भवेत् ।क्षीरं स्नेहं मदं रक्तं मधु तोयं स्रवन्ति
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वापुनः ।उत्तिष्ठन्तीह पतिताः पतन्ति तथोन्नताः
एवं वक्ष्यामि ते ब्रह्मन् विपाकफलमेव ।रोदने व्याधिमभ्येति हसने देशविभ्रमम्
शाखाप्रपतने कुर्य्यात् संग्रामे योधपातनम् ।बालानां मरणं कुर्य्याद्बालानां फलपुष्पिता
स्वराष्ट्रभेदं कुरुते फलपुष्पमनन्तरम् ।क्षयं सर्व्वत्र गोक्षीरे स्नेहे दुर्भिक्षलक्षणम्
वाहनापचयं मद्यं रक्तं संग्राममादिशेत् ।मधुस्रावे भवेद्ब्याधिर्जलस्रावे वर्षति
अरोगं शोषणं ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ।शुष्केषु संप्ररोहस्तु वीर्य्यमन्त्रञ्च हीयते
उत्थाने पतितानाञ्च भयभेदकरं भवेत् ।स्थानात् स्थानन्तु गमने देशभङ्गन्तथादिशेत्
ज्वलत्स्वपि वृक्षेषु रोदत्सु धनक्षयम् ।एतत् पूजितवृक्षेषु सर्व्वं राज्ञो विपद्यते
पुष्पे फले वा विकृते राज्ञो मृत्युं तथादिशेत् ।अन्येषु दैवयुक्तेषु वृक्षोत्पातेषु मन्त्रितः
आच्छादयित्वा तं वृक्षं गन्धमाल्यैर्विभूषयेत् ।वृक्षोपरि तथा च्छत्रं कुर्य्यात् पापप्रशान्तये
शिवमभ्यर्च्चयेद्देवं पशुञ्चास्मै निवेदयेत् ।शूलेभ्य इति यद्धोमा कृत्वा रुद्रं जपेत्तथा
मध्वाज्ययुक्तेन तु पायसेनसंपूज्य विप्रांश्चतुरश्च दद्यात् ।गीतेन नृत्येन तथार्च्चनेनदेवं हरं पापविनाशहेतोः
”इति मात्स्ये अद्भुतशान्तिवृक्षोत्पातप्रशमनं नाम२०६ अध्यायः
*
अथ वृक्षप्रतिष्ठा ।भीष्म उवाच ।“पादपानां विधिं ब्रह्मन् यथावद्विस्तराद्वद ।विधिना येन कर्त्तव्यं पादपोद्यापनं बुधैः ।ये लोकाः स्मृतास्तेषां तानि चैव वदस्व मे
पुलस्त्य उवाच ।पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु ।तडागविधिवत् सर्व्वं समाप्तिं जगदीश्वर
कृत्वा मण्डपसंभारं स्नात्वा प्रयतमानसः ।पूजयेद्ब्राह्मणं तद्वद्धेमवस्त्रानुलेपनैः
सर्व्वौषध्युदकैः सिक्तान्नानापुष्पविभूषितान् ।वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत्
सूच्या चैव तथा कार्य्यं सर्व्वेषां कर्णवेधनम् ।कुण्डलञ्चापि दातव्यं तद्वद्धेमशलाकया
फलानि सप्त चाष्टौ वा कलधौतानि कारयेत् ।प्रत्येकं सर्व्ववृक्षाणां वेद्यां तानधिवासयेत्
धूपन्तु गुग्गुलुं श्रेष्ठं ताम्रपात्रैरधिष्ठितम् ।सर्व्वान् धान्यभृतः कृत्वा गन्धमाल्यानुलेपनैः
कुम्भान् सर्व्ववृक्षेषु स्थापयित्वा व्रती स्वयम् ।पूजयित्वा दिनान्ते कुर्य्याद्द्विजनिमन्त्रणम्
यथा लोकपालानामिन्द्रादीनां विधानतः ।वनस्पतेरधिवासमेवं कार्य्यं द्विजातिभिः
ततः शुक्लाम्बरधरः सौवर्णकृतशेखराम् ।स्वर्णशृङ्गां कांस्यदोहां गां दद्याच्छुभशालि-नीम्
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम् ।ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः
ऋग्यजुःसामाथर्व्वाणां धारणैरभितस्तथा ।तैश्च कुम्भैः संस्नपनं कुर्य्याद्ब्राह्मणपुङ्गवः
शुक्लाम्बरधरः शुद्धो यजमानः स्वयं जपेत् ।गोभिर्व्विभवतः सार्व्वानृत्विजस्तु समाहितः
हेमसूत्रैः सकटकैरङ्गुलीयैः पवित्रकैः ।वासोभिः शयनीयैश्च सहोपस्करपादुकैः
क्षीरामिषैर्व्वलिं दद्याद्यावद्दिनचतुष्टयम् ।होमश्च सर्पिषा कार्य्यो यवैः कृष्णतिलैरपि
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः ।दक्षिणा पुनस्तद्बत् श्रेष्ठा तत्रापि शक्तितः
यद्यदिष्टतमं किञ्चित्तत्तद्दद्यादमत्सरः ।आचार्य्ये द्विगुणं दत्त्वा प्रणिपत्य समापयेत्
अनेन विधिना यस्तु कुर्य्यादवृक्षोत्सवं मुदा ।सर्व्वान् कामानवाप्नोति तत् तदानन्त्यमश्नुते
यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः ।सोऽपि स्वर्गे वसेद्राजन् यावदिन्द्रशतत्रयम्
भूतभव्यांश्च मनुजांस्तारयेद्रोमसंमितान् ।परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ।सोऽपि संपूज्यते देवैर्ब्रह्मलोके महीयते
”इति पाद्मे सृष्टिखण्डे २६ अध्यायः
*
वृक्षच्छेदने दोषो यथा, --“तस्मान्न च्छेदयेत् वृक्षान् सुपुष्पफलितान् कदा ।यदीच्छेत् कुलवृद्धिञ्च धनवृद्धिञ्च शाश्वतीम्
सन्निधौ देवतानाञ्च शिलेष्टकचितानपि ।छेदिताश्छेदयेल्लोकान् मरकवृष्टिक्षुद्भयैः
नृपहानिर्भवेच्छ्रीघ्रं चिञ्चावृक्षे निपातिते ।सन्नियोगी हयं याति सीमावृक्षे निपातिते ।तस्मान्न च्छेदयेद्वृक्षं देवताधिष्ठितं क्वचित्
वापीकूपतडागानां छेदने रोधने कृते ।कुलान्यकुलतां यान्ति नराणां सुदुरात्मनाम्
तद्रूंश्च छेदयेद्यस्तु वृक्षान् छायासुशीतलान् ।असिपत्रवने घोरे पीड्यते यमकिङ्करैः
नगरोपवने वृक्षान् प्रमादाद्धि च्छिनत्ति यः ।स गच्छेन्नरकं नाम जृम्भणं रौद्रदर्शनम्
विल्वादिपालनं कुर्य्याच्छुभं भयदमन्यथा ।श्रीवृक्षान्रोपयेत् पञ्च यदि स्वर्गान्न हीयते
”इत्याद्ये वह्निपुराणे वारुणारामप्रतिष्ठाध्यायः
अथ वृक्षारोपणनक्षत्रादि शतभिषा मूलंविशाखा मृगशिरः उत्तरफल्गुनी उत्तराषाढाउत्तरभाद्रपत् रोहिणी हस्ता पुष्यः रेवती
*
राजमार्त्तण्डे ।“प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्या-श्विनी-पौष्णानुष्णमरीचयः शतभिषा स्वातिर्विशाखातथा ।जिवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदयेशस्यानां वपने भवन्ति लवने शस्ते तिथौरोपणे
*
हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोप-येत् ।वसुधेति सुशीतेति पुण्यदेति धरेति ।नमस्ते सुभगे नित्यं द्रुमोऽयं वर्द्धतामिति
*
अथ वृक्षप्रतिष्ठानक्षत्राणि पूष्यः अश्विनीज्येष्ठा पूर्व्वफल्गुनी धनिष्ठा मृगशिरः स्वातीआर्द्रा मघा रोहिणी मूलं हस्ता रेवतीअनुराधा श्रवणा पुनर्व्वसुश्च यथा हि ।“पुष्याश्विशक्रभगदैवतवासवेषुचन्द्रानिलेशमघरोहिणिमूलहस्ते ।पौष्णानुराधहरिभेषु पुनर्व्वसौ चकार्य्याभिषेकतरुभूतपतिप्रतिष्ठा
*
अथ विहिततिथ्यादिः भविष्ये ।“प्रतिपच्च द्वितीया तृतीया पञ्चमी तथा ।दशमी त्रयोदशी चैव पौर्णमासी कीर्त्तिता
सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः ।एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि
”इति ज्योतिस्तत्त्वम्
कृदन्तरूपमाला
Sanskrit
1 {@“रुह बीजजन्मनि प्रादुर्भावे च”@} 2 ज्वलादिः।
‘-- प्रादुर्भावे च’ इति केचिन्न पठन्ति।
‘रुह जन्मनि--’ इति न्यासे पाठः।
3 रोहकः-हिका, 4 रोपकः-पिका, रोहकः-हिका, 5 रुरुक्षकः-क्षिका, रोरुहकः-हिका
6 रोढा-रोढ्री, रोपयिता-रोहयिता-त्री, रुरुक्षिता-त्री, रोरुहिता-त्री
रोहन्-न्ती, रोपयन्-रोहयन्-न्ती, रुरुक्षन्-न्ती
-- रोक्ष्यन्-न्ती-ती, रोपयिष्यन्-रोहयिष्यन्-न्ती-ती, रुरुक्षिष्यन्-न्ती-ती
-- -- रोपयमाणः-रोहयमाणः, -- रोरुह्यमाणः
-- रोपयिष्यमाणः-रोहयिष्यमाणः, -- रोरुहिष्यमाणः
7 अम्बुरुट्-रुड्-रुहौ-रुहः
-- -- -- रूढम्-रूढः-रूढवान्, 8 आरूढो वृक्षम्-आरूढो वृक्षः, 9 रूढः, रोपितः-रोहितः, 10 रोहितः, लोहितः-लोहिताया, लोहितकः, लोहितकं 11, रुरुक्षितः, रोरुहितः-तवान्
12 13 रुहः-रोहः, प्ररुहः-प्ररोहः, 14 पाणिरुहः 15 -भूरुहः-उर्वीरुहः-शिरोरुहः-सरोरुहम्, 16 न्यग्रोधः, 17 वीरुत् 18, 19 विरोही-रोहिणी, 20 रोहणः, रोपः-रोहः, 21 धान्यरोपी, रुरुक्षुः-रोरोहः
रोढव्यम्, रोपयितव्यम्-रोहयितव्यम्, रुरुक्षितव्यम्, रोरुहितव्यम्
रोहणीयम्, रोपणीयम्-रोहणीयम्, रुरुक्षणीयम्, रोरुहणीयम्
रोह्यम्, रोप्यम्-रोह्यम्, रुरुक्ष्यम्, रोरुह्यम्
ईषद्रोहः-दूरोहः-सुरोहः
-- -- -- रुह्यमाणः, रोप्यमाणः-रोह्यमाणः, रुरुक्ष्यमाणः, रोरुह्यमाणः
रोहः, आरोपः-रोहः, रुरुक्षः, रोरुहः
रोढुम्, रोपयितुम्-रोहयितुम्, रुरुक्षितुम्, रोरुहितुम्
रूढिः, 22 रूढिः, 23 24 बीजरुहाकुर्वन्, प्राजरुहाकुर्वन्, रोपणा-रोहणा, आरुरुक्षा, रोरुहा
रोहणम्, रोपणम्-रोहणम्, रुरुक्षणम्, रोरुहणम्
रूढ्वा, रोपयित्वा-रोहयित्वा, रुरुक्षित्वा, रोरुहित्वा
आरुह्य, आरोप्य-आरोह्य, आरुरुक्ष्य, आरोरुह्य
रोहम् २, रूढ्वा २, रोपम् २-रोहम् २, रोपयित्वा २-रोहयित्वा २, रुरुक्षम् २, रुरुक्षित्वा २, रोरुहम्
रोरुहित्वा
25 इतीन्प्रत्ययः।
रोहतीति रोहिः = जन्म।]] रोहिः, 26 इतीतिप्रत्ययः।
रोहित् = वीरुत्प्रकारः, सूर्योऽग्निश्च।]] रोहित्, 27 इतीतन्प्रत्ययः, रेफस्य लकारश्च वा भवति।]] रोहितः-लोहितः, 28 इति टिषच्प्रत्यये धातोर्वृद्धौ रौहिषः इति भवति।
रौहिषः = तृणजातिः, स्त्रियां षित्त्वात् ङीषि रौहिषी = दूर्वा।]] रौहिषः।
प्रासङ्गिक्यः
01
=>
(१४३२)
02
=>
(१-भ्वादिः-८५९। अक। अनि। पर।)
03
=>
[पृष्ठम्११३५+ २८]
04
=>
[[१। ण्यन्ते सर्वत्र, ‘रुहः पोऽन्यतरस्याम्’ (७-३-४३) इति विकल्पेन हकारस्य पकारः। तेन रूपद्वयम्। यद्यपि दैवादिकरुप्यतेर्ण्यन्ते रोपक इति, रोहतेश्च रोहक इति सिद्ध्यति, धातूनामनेकार्थत्वात् बीजजन्मनि उभयत्र वृत्तिरपि सुलभा
\n\n तथापि धातूनामनेकार्थत्वेऽपि, सर्वेषां सर्वार्थकत्वमित्यतः सूत्रारम्भस्य चारितार्थ्यं बोध्यम्। विस्तरस्तु न्यासादिषु बोध्यः।]]
05
=>
[[२। ‘दिहिर्दुहिर्मेहतिरोहती वहिः--’ (व्याघ्रभूतिकारिका ७-२-१०) इति वचनात् धातोरस्यानिट्त्वं बोध्यम्। ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे षत्वे रूपमेवम्।]]
06
=>
[[३। तृजादिषु ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति प्रथमं गुणे, तदनन्तरं ढत्व- धत्वष्टुत्वढलोपाः। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२१) इति न्यायेन ‘ढ्रलोपे--’ (६-३-१११) इति दीर्घः--ओकारः--अत्रापि भवतीति बोध्यम्।]]
07
=>
[[आ। ‘विसृत्वरैरम्बुरुहां रजोभिः यमस्वसुश्चित्र इवोदभारः।।’ शि। व। ३। ११।]]
08
=>
[[४। ‘गत्यर्थाकर्मक--’ (३-४-७२) इत्यादिना कर्तरि कर्मणि क्तप्रत्ययः।]]
09
=>
[[५। ‘क्तिच्क्तौ च--’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। रूढः = रूढिं गतः।]]
10
=>
[[६। ण्यन्तात् कर्तरि क्तप्रत्यये साधुरयम्। अस्यैव शब्दस्य कपिलकादिगणे (वा। ८-२-१८) पाठात् विकल्पेन धात्वादेर्लकारः--लोहितः = वर्णविशेषः। अभिधानस्वाभाव्यात् वर्णवाचकत्वमधुना धातोरिति बोध्यम्। लोहिताया इति। अत्र अलोहितो लोहितो भवतीति च्व्यन्तात् लोहितशब्दात् ‘लोहितादिडाज्भ्यः क्यष्’ (३-१-१३) इति क्यष्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञा। ‘अ प्रत्ययात्’ (३-३-१०२) इति प्रत्ययान्तादकारप्रत्ययः। लोहितकः इति अत्र ‘लोहितान्मणौ’ (५-४-३०) इति स्वार्थे कन्प्रत्ययः। ‘लोहितकं मुखम्’ इत्यत्र तु ‘वर्णे चानित्ये’ (५-४-३१) इत्यनित्यवर्णवाचकात्लोहितशब्दात् स्वार्थे कन्प्रत्ययः।]]
11
=>
[मुखम्]
12
=>
[पृष्ठम्११३६+ २६]
13
=>
[[१। ‘ज्वलितिकसन्तेभ्यः--’ (३-१-१४०) इति कर्तरि वैकल्पिको णप्रत्ययः। णप्रत्यय- पक्षे रोहः इति सम्पद्यते। तदभावपक्षे ‘इगुपधज्ञा--’ (३-१-१३५) इति कप्रत्यये रुहः इति भवति। रुहः = मृगविशेषः।]]
14
=>
[[२। ‘सुपि स्थः’ (३-२-४) इत्यत्र, ‘सुपि’ इति योगविभागात् पाण्यादिषु सुबन्तेषूप- पदेषु कर्तरि कप्रत्ययः। अत्र ‘इगुपध--’ (३-१-१३५) इति कप्रत्यय इति प्रक्रियाकौमुदी। तत्र निरुपपदाधिकारात् चिन्त्यमिदम्।]]
15
=>
[[आ। ‘पीने भटस्योरसि वीक्ष्य भुग्नान् तनुत्वचः पाणिरुहान् सुमध्या।’ भ। का। ११। ८।]]
16
=>
[[३। न्यक् रोहतीति न्यग्रोधः = वटवृक्षः। बाहुलकात् कर्तरि घञ्। न्यङ्क्वादिषु (७-३-५३) पाठात् धातुहकारस्य धकारः।]]
17
=>
[[४। विविधं रोहतीति वीरुत् = लता। ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति क्विपि, न्यङ्क्वादित्वात् (७-३-५३) हकारस्य धकारः। ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति दीर्घः।]]
18
=>
[[B। ‘… वीरुत्ततिर्भृङ्गकुलैररंसीत्।।’ वा। वि। ३। १७।]]
19
=>
[[५। विशेषेण रोहतीति विरोही तृणादयः। तद्धर्मिणि णिनिः। केवलाण्णिनिप्रत्ययेऽपि रोही इति भवति। तदन्तात् स्त्रियां नान्तत्वेन ङीषि रोहिणी इति।]]
20
=>
[[६। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। रोहणः = रत्नपर्वतः।]]
21
=>
[[७। धान्यानि रोपयतीति धान्यरोपी। ण्यन्तात् णिनिः।]]
22
=>
[[८। संज्ञायां क्तिच्। ढत्वष्टुत्वढलोपदीर्घाः यथालक्षणमिह बोध्याः।]]
23
=>
[पृष्ठम्११३७+ २४]
24
=>
[[१। बीजं रोहयतीत्यर्थे अन्तर्भावितण्यर्थादस्मात् मूलविभुजादित्वात् (वा। ३-२-५) कर्तरि कप्रत्ययः। तदन्तात् स्त्रियां टापि बीजरुहा इति सम्पद्यते। साक्षात्- प्रभृतिषु (१-४-७४) गणे बीजरुहा इति पाठादस्य कृञो योगे गतिसंज्ञा। ‘ते प्राग् धातोः’ (१-४-८०) इति धातोः पूर्वमस्य प्रयोगः। ‘कुगतिप्रादयः’ (२-२-१८) इति समासः। बीजरुहाकुर्वन् = केशाः छिन्नाः पुना रोहयन् इत्यर्थः। एवं प्राजरुहाकुर्वन् इत्यत्रापि बोध्यम्।]]
25
=>
[[२। ‘हृपिशिरुहि--’ [द। उ। १-४७]
26
=>
[[३। ‘हृसृरुहि--’ [द। उ। ६-३]
27
=>
[[४। ‘रुहे रश्च लो वा’ [द। उ। ६-१३]
28
=>
[[५। ‘रुहेर्वृद्धिश्च’ [द। उ। ९। ४]