वीर्य्य (vIryya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritवीर्य्य वीर--यत्, वीरस्य भावो यत् वा । १ देहस्थेचरमधातौ शुक्रे २ पराक्रमे ३ बले ४ प्रभावे अ-मरः । ५ तेजसि मेदि० ६ दीप्तौ ७ द्रव्यनिष्ठे रसवि-पाकादि शक्तिरूपे प्रभावभेदे सुश्रुतः “वीर्य्यं प्रधा-नमिति कस्मात्तद्वशेनौषधकमनिष्पत्तेः । इहौषध-कर्माण्यूर्द्ध्वाधोभागोभयभागसंशोधनसंशमनसंग्राहकाग्नि-दीपनप्रपीडनलेखनवृंहणरसायनवाजीकरणश्वयथुकरण-विलयनदहनदारणमादनप्राणघ्नविषप्रशमनानि वीर्य्य-प्राधान्याद्भवन्ति । तच्च वीर्य्यं द्विविधमुष्णं शीतंचाग्निषोमीयत्वाज्जगतः । केचिदष्टविधमाहुरुष्णं शीतंस्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीष्णं चेत्येतानि वीर्य्याणि स्वबलगुणोत् कर्षाद्रसमामभूयात्मकर्म कुर्वन्ति यथातावन्महत् पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्णवीर्य्यत्वात् तथा कुलत्थः कषायकटुकत्वात्, पलाण्डुः स्नेहभावाच्च मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्यत्वात् ।कटुच्चा पिष्पली पित्तं शमयति मृदुशीतवीर्य्यत्वादम्लमाम-मलकं लवणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वर्द्धय-त्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च । कटुकं मूलकं श्लेष्माणंवर्द्धयति स्निग्धवीर्य्यत्वात् । अम्लं कपित्थं श्लेष्माणंशमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च । तदेतन्निदर्शनमा-त्रमुक्तम् । भवन्ति चात्र ये रसावातशमना भवन्ति यदितेषु वै । रौक्ष्यलाघवशैत्यानि न ते हन्युः समीर-णम् । ये रसाः पित्तशममा भवन्ति यदि तेषु वै । तै-क्ष्योष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः । ये रसाःश्लेष्मशमना भवन्ति यदि तेषु वै । स्नेहगौरवशैत्यानिबलासं वर्द्धयन्ति ते” । “तस्माद्वीर्य्यं प्रधानमिति” ।द्रव्यगतवीर्य्यं रसाद्यनुगुणशक्तिविशेषरूपम् तच्च चि-न्त्याचिन्त्यक्रियाहेतुत्वेन द्विविधम् । तत्र चिन्त्यक्रिया-हेतुः प्रभावापरचर्य्यायो द्रव्याणां रसाद्यनुरूपकार्य्य-करणशक्तिः यथोक्तं “भूतप्रभावातिशयो द्रव्ये पाके रसेस्थितः । चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम्”अक्रद० । भावप्र० वीर्य्यप्रभावयोर्भेद उक्तो यथा“द्रव्ये रसो गुणो वीर्य्यं विपाकः शक्तिरेव च । प-दार्थाः पञ्च निष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च” इतिसामान्यतः द्रव्यगतान् पञ्च पदार्थानुक्त्वा रसगुणानुक्त्रा च“उष्णशीतगुणोत्कर्षात् बुधैर्वीर्य्यं द्विधा स्मृतम् । यत्सर्वमग्निषोमीयं दृश्यते भुवनत्रयम्” वाग्भट्टोक्तलक्त्वा च“विपाकञ्च दर्शयित्वा प्रभावो लक्षितो यथा “रसादि-साम्ये यत्कर्म विशिष्टं तत्प्रभावजम् । दन्ती रसाद्यैस्तु-ल्यापि चित्रकस्य विरेचनी । मधूकस्य च मृद्वीका घृतंक्षीरस्य दीपनम् । प्रभावस्तु यथा धात्री लकुचस्यरसादिभिः । समापि कुरुते दोषत्रितयस्य विनाशनम् ।कचित्तु केवलं द्रव्यं कर्म कुर्य्यात् प्रभावतः । ज्वरं हन्तिशिरोबद्धा सहदेवीजटा यथा” । तथा नानौषधियोगेफलं प्रति स्वभाव एवाश्रयणीयो न तु तत्र रसादिहे-तुविचारः कर्त्तव्यः यत आह सुश्रुतः “अमी सामान्य-चिन्त्यानि प्रसिद्धानि स्वभावदः । आगमेनोपयोज्यानिभेषजानि विचक्षणैः । प्रत्कीतक्षणफलाः प्रसिद्धाश्च स्व-भावतः । नौषधीहेतुर्भिषजा परीक्ष्येत कदाचन ।विरुद्धगुणसंयोगे भूयसाल्पं हि जायते । रसं विपाकस्तौवीर्य्यं प्रभावस्तान् व्यापीहति” इत्यन्तेन रसगुणवीर्य्यविवाञ्चकवीर्य्यप्रभावस्वरूपाण्युक्तानि । अतस्तयोर्भेदो युक्तः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
