| YouTube Channel

वीरासनं (vIrAsanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वीरासनं,
क्ली,
(वीराणां साधकानामासनम् ।)भित्त्याद्यनाश्रित्योपवेशनम् यथा, --“दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्द्ध्वं रजः पिबेत् ।शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत्
”इति प्रायश्चित्ततत्त्वे मनुः
अन्यच्च ।“एकपादमथैकस्मिन् विन्यसेदुरु संस्थितम् ।इतरस्मिन् तथा पश्चाद्वीरासनमिदं विदुः
”इति घेरण्डसंहिता
(यथा, रघुवंशे १३ ५२ ।“वीरासनैर्ध्यनजुषामृषीणा-ममी समध्यासितवेदिमध्याः ।निर्व्वातनिष्कम्पतया विभान्तियोगाधिरूढा इव शाखिनोऽपि
”)