| YouTube Channel

वीजसञ्चयः (vIjasaJcayaH)

 
शब्दकल्पद्रुमः
Sanskrit
वीजसञ्चयः,
पुं,
(वीजानां सञ्चयः ।) वीजसंग्रहः ।तच्छुभाशुभदिनादिर्यथा, --“हस्ताचित्रादितिस्वातीरेवत्यां श्रवणद्वये ।स्थिरे लग्ने गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे
माघे वा फाल्गुने वापि सर्व्ववीजानि संग्रहेत् ।शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत्
ततश्च पुटिकां बद्ध्वा शोषयेच्च पुनः पुनः ।स्थापयेच्च प्रयत्नेन यथा भूमिञ्च स्पृशेत्
दीपाग्निना संस्पृष्टं वृष्ट्या चोपहतञ्च यत् ।वर्ज्रनीयं तथा बीजं यत् स्यात् कीटसमन्वि-तम्
*
याम्याहिरुद्राग्निविशाखपूर्व्वा-माहेन्द्रपित्र्येतरभैः शुभाहे ।धान्यादिसंस्थापनमेषु शस्तंमृगस्थिरद्व्यङ्गगृहोदयेषु
सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु कारयेत् ।मीने लग्ने शुभे चन्द्रे निधनक्रूरवर्ज्जिते
क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्व्वदा ।धनदाय सर्व्वलोकहिताय देहि मे धान्यंस्वाहा ।नम ईहायै ईहादेवी सर्व्वलोकविवर्द्धनी काम-रूपिणि धान्यं देहि स्वाहा ।लेखयित्वा इमं मन्त्रं धान्यागारे विनिक्षिपेत्
”पुराणसर्व्वस्वे ।“मन्त्रं लिखित्वा पत्रे मध्ये धान्यस्य धारयेत् ।पत्रञ्च धान्यराशेस्तु मूषिकादिनिवृत्तये
दक्षिणदिङ्मुखगमनं स्यादभिनवासु नारीषु ।व्ययमपि शस्यफलानां बुधो बुधवासरेकुर्य्यात्
त्रिषूत्तरेषु रेवत्यां धनिष्ठावारुणेषु ।एतेषु षट्षु विज्ञेयं धान्यनिष्क्रयणं बुधैः
श्रवणात्रयं विशाखाध्रुवपौष्णपुनर्व्वसूनि पुष्यश्च ।अश्विन्यथ ज्येष्ठा धनधान्यविवर्द्धिनी कथिता
”इति ज्योतिस्तत्तम्