वीजसञ्चय (vIjasaJcaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवीजसञ्चयः, (वीजानां सञ्चयः ।) वीजसंग्रहः ।तच्छुभाशुभदिनादिर्यथा, --“हस्ताचित्रादितिस्वातीरेवत्यां श्रवणद्वये ।स्थिरे लग्ने गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे ॥
माघे वा फाल्गुने वापि सर्व्ववीजानि संग्रहेत् ।शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत् ॥
ततश्च पुटिकां बद्ध्वा शोषयेच्च पुनः पुनः ।स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत् ॥
दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत् ।वर्ज्रनीयं तथा बीजं यत् स्यात् कीटसमन्वि-तम् ॥
* ॥
याम्याहिरुद्राग्निविशाखपूर्व्वा-माहेन्द्रपित्र्येतरभैः शुभाहे ।धान्यादिसंस्थापनमेषु शस्तंमृगस्थिरद्व्यङ्गगृहोदयेषु ॥
सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु च कारयेत् ।मीने लग्ने शुभे चन्द्रे निधनक्रूरवर्ज्जिते ॥
क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्व्वदा ।धनदाय सर्व्वलोकहिताय देहि मे धान्यंस्वाहा ।नम ईहायै ईहादेवी सर्व्वलोकविवर्द्धनी काम-रूपिणि धान्यं देहि स्वाहा ।लेखयित्वा इमं मन्त्रं धान्यागारे विनिक्षिपेत् ॥
”पुराणसर्व्वस्वे ।“मन्त्रं लिखित्वा पत्रे च मध्ये धान्यस्य धारयेत् ।पत्रञ्च धान्यराशेस्तु मूषिकादिनिवृत्तये ॥
दक्षिणदिङ्मुखगमनं स्यादभिनवासु नारीषु ।व्ययमपि शस्यफलानां न बुधो बुधवासरेकुर्य्यात् ॥
त्रिषूत्तरेषु रेवत्यां धनिष्ठावारुणेषु च ।एतेषु षट्षु विज्ञेयं धान्यनिष्क्रयणं बुधैः ॥
श्रवणात्रयं विशाखाध्रुवपौष्णपुनर्व्वसूनि पुष्यश्च ।अश्विन्यथ ज्येष्ठा धनधान्यविवर्द्धिनी कथिता ॥
”इति ज्योतिस्तत्तम् ॥
वाचस्पत्यम्
Sanskritवीजसञ्चय वीजानां वपनयोग्यधान्थादीनां सञ्चयः सं-प्रहः सम् + चि--अच । वपनयोग्यधान्थादिसंग्रहे ।“हस्ताचित्रादितिस्वातिरेवत्यां श्रवणद्वये । स्थिरे लग्नेगुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे । माधे वा फाल्-गुने वापि सर्ववीजानि सञ्चयेत् । शोषयेत्तापयेद्रौद्रेरात्रौ चोपनिधापयेत् । ततश्च पुटिकां बद्ध्वा शोषयेच्चपुनःपुनः । स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत् ।दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत् । वर्ज-नीयं तथा वीजं यत् स्यात् कीटसमन्वितम्” ज्यो० त० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
