वीजवपन (vIjavapana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवीजवपनं, (वीजानां वपनम् ।) क्षेत्रे वीजस्यक्षेपणम् । तस्य दिनं दीपिकायाम् ।“पूर्व्वाग्नियाम्यफणिपित्र्यशिवान्यभेषुरिक्ताष्टमीविगतचन्द्रतिथिं विहाय ।द्व्यङ्गालिगोसमुदये विकुजार्किवारेशस्तेन्दुयोगकरणेषु हलप्रवाहः ॥
”हलप्रवाहवद्वीजवपनस्य विधिः स्मृतः ।चित्रायाञ्च शुभे केन्द्रे स्थिरस्वमनुजोदये ॥
हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः ।इन्द्रं चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत् ॥
कृत्वा चान्योन्यप्रोत्साहं नर्त्तको हृष्टमानसः ।प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदोरयेत् ॥
त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे ।नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥
रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु ।कर्षकास्तु भवन्त्वग्र्या धान्येन च धनेन चस्वाहा ॥
उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह ।वीजवपनं प्राजापत्यतीर्थेन । यथा, हारीतः ।कनिष्ठायाः पश्चात् प्राजापत्यमावपनम् । होम-तर्पणे प्राजापत्येन कुर्य्यादिति । होमतर्पणेलाजहोमशनकादितर्पणे । पराशरः ।“वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ ।अतः परस्मिन्नधमं न जातु श्रावणे शुभम् ॥
”ज्योतिषे ।“पूर्व्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी ।विशाखा शतभिषा वाथ धान्यानां रोपणेवरा ॥
सदोप्त्वा रजनीं नीलीं पुत्त्रवित्तैर्वियुज्यते ।स्वयंजाते पुनस्ते द्वे पालयन् नैव दुष्यति ॥
आरामे गृहमध्ये वा मोहात् सर्षपमावपन् ।पराभवं रिपोर्याति ससाधनधनक्षयम् ॥
निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता ।कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥
”निशा हरिद्रा । कोविदारको रक्तकाञ्चनः ।“हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत् ।वसुधेति सुशीतेति पुण्यदेति धरेति च ।नमस्ते शुभगे नित्यं द्रुमोऽयं वर्द्धतामिति ॥
”इति ज्योतिस्तत्त्वम् ॥
वाचस्पत्यम्
Sanskritवीजवपन वीजानि उप्यन्तेऽत्र वप--आधारे ल्युट् ।१ क्षेत्रे । भावे ल्युट् । २ वीजस्य उत्पादनार्थं क्षेत्रे क्षपणेच । तद्दिनादि दीपिकायामुक्तं यथा “पूर्वाग्नियाम्यफणि-पित्र्यशिवान्यभषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय ।द्व्यङ्गालिगोसमुदये विकजार्किपारे शस्तेन्दुयोगकरणेषुहलप्रवाहः । हलप्रवाहवद्वोजवपनस्य विधिः स्मृतः ।चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनुजोदये । हेमवारिविलिप्तस्य वीजस्योन्नयतः शुचिः । इस चित्ते निधा-याथ स्वयं मुष्टित्रयं वपेत् । कृत्वा चान्योन्यप्रात्साहंनर्त्तको हृष्टमानसः ॥
प्राङ्मुखः कवसं गृह्म इमं मन्त्रमुदीरयेत् । त्वं वै वसुन्धरे! सीते बहुपुष्पफलप्रदे ।नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु! । रोहन्तुसर्वशस्यानि काले देवः प्रवर्षतु । कर्षकास्तु भवन्त्वग्र्याधान्येन च धनेन च” । “उप्त्वा वीजन्तु तत्रैवभोक्तव्यं बान्धवैः सह” । पराशरः “वैशाखे वपन श्रेष्ठंमध्यमं रोहिणीरवौ । अतः परस्मिन्नधम न जातुश्रावणे शुभम्” । कृषिशब्देऽधिकं दृश्यम् । ज्योतिषे “पूर्व-भाद्रपदामूलं रोक्षिण्युत्तरफल्गुनी । विशाखा शतभिषावाथ धान्यादिरोपणे वरा । सदोप्त्वा रजनीं नीलींपुत्रवित्तैर्वियुज्यते । स्वयजाते पुनस्ते द्वे पालयन् नैवदुष्यति । आरामे गृहमध्ये वा मोहात् सर्षपमावपन् ।परामवं रिपुर्याति ससाधनधनक्षयम् । निशा नीलीपलाशश्च चिञ्चा श्वेतापराजिता । कोविदारश्च सर्वत्रसर्वं निघ्नन्ति मङ्गलम्” । निशा हरिद्रा कोविदारकोरक्तकाञ्चनः । “हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेणरोपयेत् । वसुधेति सुशीतेति पुण्यदेति धरेति च ।ममस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति” ज्यो० त०“एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विनावीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः ।रामेन्द्वाग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिता-द्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत् सन्ति च”सु० चि० । “एतेष्विति । श्रुतिःश्रवणः वारुणं शतता-रका अदितिः पुनर्वसुः विशाखा प्रसिद्धा एतैरुडुभि-र्नक्षत्रैर्विनैतषु पूर्वोक्तनक्षत्रेषु भूलमघाघ्रुवमृदुक्षिप्र-धनिष्ठास्वातीषु पञ्चदशनक्षत्रेषु वीजोप्तिर्वीजवपनं शु-मम् । उक्तञ्च रत्नमालायाम् “हस्तात्त्रिपुष्योत्तररोहि-णीषु चित्रानुराधामृगरेवतीषु । स्वातौ धनिष्ठासुमघासु मूले वीजाप्तिरुत्कृष्टफलप्रदिष्टा” । वसिष्ठेनाप्ये-तावन्त्येव नक्षत्राण्युक्तानि “धातृद्वये कौणपपैत्रपुष्येहस्तत्रये त्र्युत्तरमैत्रभेषु । पौष्णे धनिष्ठास्मथ वाश्विनीभेबीजोप्तिरुत्कृष्टफलप्रदा स्यादिति” । कौणपो मूलं नारदे-नाप्युक्तानि “मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु । स-मूलभेषु वीजोप्तिरत्युत्कृष्टफलप्रदा” । कश्यपेनापि “वसु-वायुभनैर्क्रत्यक्षिप्रध्रुवमृदूडुषु । सीतां स्मृत्वाथ वीजो-प्तिरत्युत्कृष्टफलप्रदा” । अत्र मघा नोक्ता । अथ भौमोमङ्गुलवारो निषिद्धः अर्थात् सूर्यचन्द्रबुधगुरुशुक्रशनीनांवारेषु वीजोप्तिः शुवा । अत्र विनायागे द्वितीयाद्वामेन्द्रश्रुतिवारुणेषु कुजे वीजोप्तिव्येवहारतत्त्वेउक्तत्वात् नेष्टा कृषिरित्यतो नकारोऽत्रानुवर्त्तते तेनवीजोप्तिर्नेष्टेत्यर्थः । अत्र कालविशेषनिषेधो राजमा-र्त्तण्डे “रवौ रौद्राद्यपादस्थे भूमेः संजायते रजः ।तस्माद्दिनत्रयं तत्र वीजवापं परित्यजेत्” इति । अथवीजोप्तौ फणिचक्रमुच्यते । अगुभतो न विद्यन्ते गावःकिरणा यस्यासावगुः यस्य स्वरूपाभावः तस्य कुतस्तरांकिरणाः तादृशोऽगूराहुस्तस्य भं नक्षत्रं तस्मादित्यर्थः ।राह्वधिष्ठितनक्षत्रादष्टौ भानि असदसमीचीनानि तत-स्त्रीणि शुभानि तत एकमशुभं ततस्त्रीणि शुभानि ततो-ऽप्येकमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं तत-स्त्रीणि शुभानि ततश्चत्वार्यशुभानि । एवं वीजोप्तौ सप्त-विंशतिनक्षत्राणां शुभाशुभत्वमुक्तं उक्तञ्च नारदेन “भवेद्भत्रितयं मूर्घ्नि धान्यनाशाय राहुभात् । गले त्रयं कज्ज-लाय वृद्ध्यै द्वादश चोदरे । निस्तण्डुलत्वं लाङ्गूले भचतुष्टयमीरितम् । नाशो बहिःपञ्चके स्याद्वीजोप्ताविति चिन्तयेदिति । राहुर्यास्मिन् ऋक्षेऽस्ति तस्मान्नक्षत्रत्रयं मूर्घ्नि मस्तके स्थाप्यं धान्यनाशकरं भवति । तत-स्त्रयं गले ख्याप्यं कज्जलाय श्यामिकासंपादकं स्यात् ।ततो द्वादश भानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानितानि धान्यवृद्धये स्युः ततो नक्षत्रचतुष्टयं पुच्छे निस्तण्डु-लत्वकरं स्यात् ततोऽवशिष्टं बहिर्नक्षजपञ्चकं धान्यनाश-करं स्यात् । रत्नमालायानपि “मूर्ध्नि त्रीणि गले त्रयंच जठरे धिष्ण्यानि च द्वादश स्थात् पुच्छे च चतुष्टयंबहिरतो भानां स्थितं पञ्चकम् । क्ष्वेडं कज्जलमन्न-वृद्धिरधिकानिस्तण्डुलत्वं क्रमात् स्यादीतिप्रभवं भयंच फणिभाद्वीजाप्तिकाले स्फुटम्” इति । अत्र के-चित् फणिभात् सूर्यनक्षत्रादिति व्याचख्युस्तत्रयुक्तिः “सूर्यभादुरगः स्थाप्यः” इति स्वरोदयवाक्यैकवा-क्यभावात् । तत्र नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात्“राहुधिष्ण्याव समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति”कश्यपोक्तेश्च । “सूर्यभादुरगः स्थाप्यः” इति तु स्वरोदय-वचनं देशभेदव्यवस्थितम् । बीजवापने लग्नशुद्धिमाहवसिष्ठः “भवरिपुसहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः ।कथितेषु च धिष्ण्येष्वपि शुभलग्ने बीजवापनं कार्य-मिति” पी० धा० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
