| YouTube Channel

वीजं (vIjaM)

 
शब्दकल्पद्रुमः
Sanskrit
वी(बी)जं,
क्ली,
(विशेषेण कार्य्यरूपेण अपत्यतया चजायते इति वि + जन + “उपसर्गे संज्ञा-याम् ।” इति डः “अन्येषामपीति ।” उप-सर्गस्य दीर्घः यद्वा विशेषेण ईजते कुक्षिंगच्छति शरीरं वा ईज गतिकुत्सनयोः +पचाद्यच् यद्वा, वीजते गच्छति गर्माशय-मिति वीज् + अच् यद्वा, “वीजप्रजनन-कान्त्यसनखादनेषु इत्यस्मादच्प्रत्ययः तथाच भोजराजीये वियो जक् इति व्युत्पादितम् ।बवयोरभेदः वेति प्रजायते गच्छत्यनेनानृण्यंपितेति वा अत्र क्षीरस्वामी वीज्यते वेतिवा वीजं वाजिलौकिकः इति वीजिः स्यात्प्रेरणक्रिया इति माधवः
प्रेर्य्यते हि कार्य्य-करणाय वा वीजम् ।” इति निघण्टौ देव-राजयज्वा १५ ।) कारणम् (यथा, गीतायाम् १० ।“वीजं मां सर्व्वभूतानां विद्धि पार्थ सनातनम्
”यथा मनौ ५६ ।“यदाणुमातृको भूत्वा वीजंस्थास्नु चरिष्णु
”)शुक्रम् इत्यमरः
(यथा मनौ ।“अप एव ससर्ज्जादौ तासु वीजमवासृजत्
”वीजं शुक्रम् इति मेधातिथिः
वीजं शक्ति-रूपम् इति कुल्लूकः
यथा तत्रैव १० ७२ ।“यस्माद्वीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् ।पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते
”)श्रीकृष्णस्य सर्व्वावतारवीजत्वं यथा, --दानव उवाच ।“अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।सर्व्वेषामवताराणां बीजरूपः सनातनः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २२ अध्यायः
अङ्कुरः (यथा, महाभारते १२ १९ ।“न तस्य वीजं रोहति वीजकालेन चास्य वर्षं वर्षति वर्षकाले ।भीतं प्रपन्नं प्रददाति शत्रवेन त्रातारं लभते त्राणमिच्छन्
”)तत्त्वाधानम् इति मेदिनी
मज्जा इतिराजनिर्घण्टः
गणितबिशेषः यथा, --“उत्पादकं यत्प्रवदन्ति बुद्धे-रधिष्ठितं सत्पुरुषेण सांख्याः ।व्यक्तस्य कृत्स्नस्य तदेकवीज-मव्यक्तमीशं गणितं वन्दे
पूर्व्वं प्रोक्तं व्यक्तमव्यक्तवीजंप्रायः प्रश्ना नो विना व्यक्तयुक्त्या ।ज्ञातुं शक्या मन्दधीभिर्नितान्तंयस्मात्तस्माद्वच्मि बीजक्रियाञ्च
”इति भास्कराचार्य्यविरत्तिते सिद्धान्तशिरोमणौवीजगणिताध्यायस्य प्रथमद्वितीयश्लोकौ
*
मन्त्रः यथा अथ भुवनेश्वरीमन्त्रः ।“नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रवान् ।बीजं तस्याः समाख्यातं सेवितं सिद्धि-काङ्क्षिभिः
”नकुलीशो हकारः अग्नी रेफः वामनेत्र-मीकारः अर्द्धचन्द्रोऽनुस्वारः ह्रीं
*
अन्नपूर्णाया वीजम् ह्रीं नमो भगवति माहे-श्वरि अन्नपूर्णे स्वाहा
*
अथ त्रिपुटा-वीजम् श्रीँ ह्रीँ क्लीँ
*
त्वरितावीजम् ओँह्रीँ हुँ खे छे क्ष स्त्री हूं क्षे ह्रीँ फट्
*
अथ नित्यावीजम् ऐँ क्लीँ तित्यक्लिन्ने मददवेस्वाहा
*
वज्रप्रस्तारिण्याः ऐँ ह्रीँ नित्य-क्लिन्ने मदद्रवे स्वाहा
*
अथ दुर्गावीजम् ।ओँ ह्रीँ दुँ दुर्गायै नमः
*
महिषमर्दिनी-वीजम् ओँ महिषमर्द्दिनि स्वाहा
*
जयदुर्गावीजम् ओँ दुर्गे दुर्गे रक्षणि स्वाहा
*
शूलिनीवीजम् ज्वल ज्वल शूलिनि दुष्टग्रहहुँ फट् स्वाहा
*
वागीश्वरीवीजम् वदवद वाग्वादिनि स्वाहा
*
पारिजात-सरस्वतीवीजम् ओँ ह्रीँ ह्सौँ ओँ ह्रीँसरस्वत्यै नमः
*
गणेशवीजम् गँ
*
हेरम्बवीजम् ओँ गूँ नमः
*
हरिद्रा-गणेशवीजम् ग्लँ
*
लक्ष्मीवीजम् श्रीँ
*
महालक्ष्मीवीजम् ओँ ऐं ह्री श्रीँ क्लीँ ह्सौँजगत्प्रसूत्यै नमः
*
सूर्य्यवीजम् ओँ घृणिसूर्य आदित्य
*
श्रीरामवीजम् रां रामायनमः जानकीवल्लभाय हुँ स्वाहा
*
विष्णु-वीजम् ओँ नमो नारायणाय
*
श्रीकृष्ण-वीजम् गोपीजनवल्लभाय स्वाहा
*
वासु-देवस्य ओँ नमो भगवते वासुदेवाय
*
बालगोपालस्य ओँ क्लीं कृष्णाय
*
लक्ष्मी-वासुदेवस्य ओँ ह्रीं ह्रीं श्रीं श्रीं लक्ष्मीवासु-देवाय नमः
*
दधिवामनस्य ओँ नमोविष्णवे सुरपतये महाबलाय स्वाहा
*
हयग्रीवस्य ।ओँ उद्गिरत्प्रणवोद्गीथसर्व्ववागीश्वरेश्वर ।सर्व्ववेदमयाचिन्त्य सर्व्वं बोधय बोधय
*
नृसिंहस्य ।उग्रं वीरं महाविष्णुं ज्वलन्तं सर्व्वतोमुखम् ।नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम्
*
नरहरिवीजम् आँ ह्रीँ क्षौं हुं फट्
*
हरिहरस्य ओँ ह्रीँ हौँ शङ्करनारायणायनमः हौँ ह्रीँ ओँ
*
वराहस्य ओँ नमोभगवते वराहरूपाय भूर्भुवस्वःपतये भूपतित्वंमे देहि ददापय स्वाहा
*
शिवस्य ।हौं
*
मृत्युञ्जयस्य ओँ जुं सः
*
दक्षिणामूर्त्तिवीजम् ओँ नमो भगवते दक्षिणा-मूर्त्तये मह्यं मेधां प्रयच्छ स्वाहा
*
चिन्ता-मणिवीजम् क्ष औं ऊं
*
नीलकण्ठस्य प्रों न्रीं ठः नमः शिवाय
*
चण्डस्य रूध्व फट्
*
क्षेत्रपालस्य ओँ क्षौँक्षेत्रपालाय नमः
*
वटुकभैरवस्य ओँ ह्रीवटुकाय आपदुद्धरणाय कुरु कुरु वटुकायह्रीं
*
त्रिपुरावाः हसरैं हसकलरीं ।हसरौँः
*
सम्पत्प्रदाभैरव्याः हसरैं ।हसकलरीं हसरौँ
*
कौलेशभैरव्याः ।सहरैं सहकलरीं सहरौँ
*
भय-विध्वंसिनीभैरव्याः हसैँ हसकलरीं ।हसौँ
*
सकलसिद्धिदाभैरव्याः सहैँ सह-कलरीं सहौँ
*
चैतन्यभैरव्याः सहैँ ।सकलह्रीँ सहरौः
*
कामेश्वरीभैरव्याः ।सहैँ सकलह्रीँ नित्यक्लिन्ने मदद्रवे सहरौः ।षट्कूटाभैरव्याः डरलकसहैँ डरलकसहीँ ।डरलकसहौँ
*
नित्याभैरव्याः हसकल-रडैँ हसकलरडीं हसकलरडौँ
*
रुद्र-भैरव्याः हसखफरेँ हसकलरीँ हसौः
*
भुवनेश्वरीभैरव्याः हसैँ हसकलह्रीं ।हसौः
*
सकलेश्वर्य्याः सहैं सहकलह्रीं ।सहौः
*
त्रिपुराबालायाः ऐं क्लीं सौः
*
नवकूटाबालायाः ऐँ क्लीँ सौः हसैँ ।हसकलरीँ हसौँः हसरैँ हसकलरींहसरौँः
*
अन्नपूर्णाभैरव्याः ओँ ह्रीं श्रीं क्लींनमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा
*
श्रीविद्यायाः कएईल ह्रीँ हसकहलह्रीँ ।सकलह्रीँ
*
छिन्नमस्तायाः श्रीं क्लीं हूंऐं वज्रवैरोचनीये हूँ हूँ फट् स्वाहा
*
श्यामायाः क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणेकालिके क्रीं क्रीं क्रीं हूँ हूँ ह्रीँ ह्रीँ स्वाहा
*
गुह्यकालिकायाः क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रींगुह्ये कालिके क्रीं क्रीं क्रीं हूँ हूँ हीँ ह्रीँस्वाहा
*
भद्रकाल्याः क्लीं क्लीं क्लीं हूं हूंह्रीं ह्रीं भद्रकाल्यै क्लीं क्लीं क्लीं हूं हूं ह्रीं ह्रींस्वाहा
*
श्मशानकालिकायाः क्रीं क्रीं क्रींहूं हूं ह्रीं ह्रीं श्मशानकालि क्रीं क्रीं क्रींहूं हूं ह्रीं ह्रीं स्वाहा
*
महाकाल्याः ।क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं महाकालि क्रीं क्रींक्रीं हूं हू ह्रीं ह्रीं स्वाहा
*
तारायाः ।ह्रीं स्त्रीं हूं फट्
*
चण्डोग्रशूलपाणेः ।ओँ ह्रीं हूं शिवाय फट्
*
मातङ्गिन्याः ।ओँ ह्रीँ क्लीं हूं मातङ्गिन्यै फट् स्वाहा
*
उच्छिष्टचाण्डालिन्याः उच्छिष्टचाण्डालिनीसुमुखीदेवी महापिशाचिनी ह्रीं ठँः ठँः ठँः
*
धूमावत्याः धूं धूं स्वाहा
*
भद्रकाल्याः ।हौं कालि महाकालि किलि किलि फट्स्वाहा
*
उच्छिष्टगणेशस्य ओँ हस्ति-पिशाचि लिखे स्वाहा
*
धनदायाः ।धं ह्रीं श्रीं देवि रतिप्रिये स्वाहा
*
श्मशानकालिकायाः ऐँ ह्रीँ श्रीँ क्लीँ कालिकेऐँ ह्रीँ श्रीँ क्लीँ
*
वगलायाः ओँ ह्लीँवगलामुखि सर्व्वदुष्टानां वाचं मुखं स्तम्भयजिह्वां कीलय कीलय बुद्धिं नाशय ह्लीं ओँस्वाहा
*
कर्णपिशाच्याः ओँ कर्णपिशाचिवदातीतानागतशब्दं ह्रीं स्वाहा
*
मञ्जु-घोषस्य क्रों ह्रीं श्रीं
*
तारिण्याः ।क्रीँ क्लीँ कृष्णदेवि ह्रीँ क्रीं ऐं
*
सारस्वत-वीजम् ऐं
*
कात्यायन्याः ऐं ह्रीं श्रींचौं चण्डिकाय नमः
*
दुर्गायाः दूं
*
विशालाक्ष्याः ओँ ह्रीं विशालाक्ष्यै नमः
*
गौर्य्याः ह्रीं गौरि रुद्रदयिते योगेश्वरि हूं फट्स्वाहा
*
ब्रह्मश्रीमन्त्रः ह्रीँ नमो ब्रह्म-श्रीराजिते राजपूजिते जये विजये गौरिगान्धारि त्रिभुवनशङ्करि सर्व्वलोकवशङ्करिसर्व्वस्त्रीपुरुषवशङ्करि सुयुद्धदुर्घोररावे ह्रीँस्वाहा
*
इन्द्रस्य इं इन्द्राय नमः
*
गरुडस्य क्षिप ओँ स्वाहा
*
विषहराग्नि-वीजम् खः खं
*
वृश्चिकविषहरवीजम् ।ओँ सरह स्फुः ओँ हिलि हिमि चिलि हस्फुः ।ओँ हिलि हिलि चिलि चिलि स्फुः ब्रह्मणेफुः सर्व्वेभ्यो देवेभ्यस्फुः
*
मूषिकविषहर-वीजम् ओँ गेँ ऋँ ठं आगमचन्द्रिकायां ओँगं गां ठः
*
मूषिकनाशमन्त्रः ओँ सरणेफुः असरणे फुः विसरणे फुः एतन्मन्त्रं जपन्श्वेतसर्षपप्रक्षेपात् मूषिकनाशो भवति
*
लूताविषहरमन्त्रः ओँ ह्रीं ह्रीं हूं जकृत् ओँस्वाहा गरुड हूं फट्
*
सर्व्वकीटविषहर-वीजम् ओँ नमो भगवते विष्णवे सर सर हनहन हुं फट् स्वाहा
*
सुखप्रसवमन्त्रः ।ओँ मन्मथ मन्मथ वाहि वाहि लम्बोदर मुञ्चमुञ्च स्वाहा ओँ मुक्ताः पाशा विपाशाश्चमुक्ताः सूर्य्येण रश्मयः मुक्तः सर्व्वभयाद्गर्भएह्येहि मारीच मारीच स्वाहा एतयो-रन्यतरेणाष्टवारं जलमभिमन्त्र्य देयं पीत्वासुखप्रसवा भवति
*
हनूमतः हं हनूमतेरुद्रात्मकाय हुं फट्
*
वीरसाधनस्य हंपवननन्दनाय स्वाहा
*
अथ आर्द्रपटी ।ओँ नमो भगवति चामुण्डे रक्तवाससे अप्रति-हतरूपपराक्रमे अमुकवधाय विचेतसे स्वाहा ।आर्द्ररक्तपटेनावृतः समुद्रगामिनीनदीतटेऊषरभूमौ वा दक्षिणामुख ऊर्द्ध्वबाहुर्जपेत् ।यावत् पटः शुष्यति तावत् प्राणाः शुष्यन्तिशत्रोः
*
श्मशानभैरव्याः श्मशानभैरविनररुधिरास्थिवसाभक्षणि सिद्धिं मे देहि मममनोरथान् पूरय हुं फट् स्वाहा
*
ज्वाला-मालिन्याः ओँ नमो भगवति ज्वालामालिनिगृध्रगणपरिवृते हुं फट् स्वाहा
*
महा-काल्याः ओँ फ्रें फ्रें क्रों क्रों पशून् गृहाणहुं फट् स्वाहा
*
अथ निगडबन्धन-मोक्षणस्य ओँ नम ऋते निरृते तिग्मतेजोयन्मयं विव्रे ता बन्धमेतं यमेन दत्तं तस्या संविदानोत्तमे नाके अघोवोऽवैरम्
*
अथ चिटि-मन्त्रः ओँ चिटि चिटि चाण्डालि महा-चाण्डालि अमुकं मे वशमानय स्वाहा
*
त्र्यम्बकस्य ।ओँ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।उर्व्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात्
अथ मृतसंजीवनीमन्त्रः हौँ ओँ जुँ सः ओँभूर्भुवः स्वः ।त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।उर्व्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात्
ओँ भूर्भुवः स्वः इत्यादि तन्त्रसारः
आक-र्षणादिवीजानि बाहुल्यभयान्नोक्तानि
*
(अथ वीजाभिधानम् यथा, --“वीजसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः ।वीजनामानि कतिचित् वक्ष्यामि विदुषां मुदे
माया लज्जा परा संवित् त्रिगुणा भुवनेश्वरी ।हृल्लेखा शम्भुवनिता शक्तिर्देवीश्वरी शिवा
महामाया पार्व्वती संस्थानकृतरूपिणी ।परमेश्वरी भुवना धात्री जीवनमध्यगा
स्त्रीं
वह्निहीनेऽस्त्रयुङ्माया स्थिरमाया प्रकीर्त्तिता
ह्लीं
शाग्निशान्तिर्बिन्दुनादैर्लक्ष्मीप्रणव उच्यते ।श्रीर्लक्ष्मीर्विष्णुवनिता रमा क्षीरसमुद्रजा
श्रीं
षोडशव्यञ्जनं बह्निवामाक्षिबिन्दुसंयुतम् ।चन्द्रवीजसमारूढं बधूवीजमिदं स्मृतम् ।बधूर्वामेक्षणा योषिदेकाक्षी स्त्रीचकामिनी
स्त्रींनादबिन्दुसमायुक्तो द्वादशस्तुमुरो भगम् ।योनिः सरस्वतीवीजमधरं वाग्भवञ्च वाक्
ऐंहकारो वामकर्णाढ्यो नादबिन्दुविभूषितः ।कूर्च्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते ।शब्दश्च दीर्घकवचं तारा प्रसव इत्यपि
हूं
कामाक्षरं वह्निसंस्थं रतिबिन्दुविभूषितम् ।कालीवीजमिदं प्रोक्तं रतिवीजं तदेव हि
क्रीं
कामाक्षरं धरासंस्थं रतिबिन्दुविभूषितम् ।गुप्तकालीवीजमिदं गोपालवीजमित्यपि
तत्कामवीजं कामेशी वीजं शक्तिस्त्वसौ परा
क्लीं
सत्यान्तयुक्व्योमसेन्दुशैवं प्रासादमुच्यते
हौं
कलाद्यं क्लेदिनीवीजं क्रोङ्कारस्त्वङ्कुशाभिघः
क्रों
आकारो विन्दुमान् पाशः शेषश्च समुदीरितः ।सकला भुवनेशानी कामेशी वीजमुच्यते
नमस्तु हृदयं स्वाहा द्विठष्ठयुगलं ठठः
नमः
स्वाहा
चन्द्रयुग्मं शिवो वेदमाता ज्वलनसुन्दरी ।स्वाहा परा देवभोज्यं ठद्बयं चन्द्रयुग्गकम् ।श्रुवो हविर्व्वेदमाता देवास्यं वह्निसुन्दरी
स्वाहा
शिखा वषट् शिरोमध्य शक्रमाता हरप्रिया
शिखा वषट् वषट् कवचं क्रोधो वर्म्महूमि-त्यपि ।क्रोधाख्योहं तनुत्वञ्च शस्त्रादौ रिपुसंज्ञकः
हूं
अस्त्रनेत्रयुगं वौषट्
वौषट्
फडस्त्रं शस्त्र-मायुधम्
फट्
तार्त्तीयन्तु ह्सौः प्रेतवीजम्
ह्सौः
हंसो-ऽजपामनुः
हंसः
गकारो विन्दुमान् विघ्नवीजं गणेशवीजकम्
गं
स्मृतिस्थं मांसमौबिन्दुयुतं भूवीजमीरितम्
लं
ठान्तं दहननेत्रेन्दुयुतन्तु विम्बवीजकम्
ड्रीं
अथ कामकलावामनयनं विन्दुसंयुतम् ।अर्कमात्राकलावाणीनादोर्द्धेन्दुः सदाशिवः ।अनुच्चार्य्यतुरीया विश्वमातृकला परा
नादः
भूतडामरसङ्केतबोधार्थं भूतडामरीयवीजनामा-न्यपि लिख्यन्ते ।प्रणवो विषवीजं स्यात् ध्रुवं हालाहलं स्मृतम् ।कालश्रुतिपथं ज्ञेयं बहुरूपी निरञ्जनम्
प्रणवम्
क्षतजस्थं व्योमवक्त्रं धूम्रभैरव्यलङ्कृतम् ।नादबिन्दुसमायुक्तं वीजं प्राणात्मकं स्मृतम्
ह्रींक्रोधीशं क्षतमारूढं धूम्रभैरव्यलङ्कृतम् ।विद्या जिह्वा विन्दुयुतं पितृभूवासिनी स्मृतम्
क्रींक्रोधकालात्मकं कुर्य्याद्भौतिकं वाग्भवं स्मृतम् ।नादविन्दुसमायुक्तं समाधायोग्रभैरवीम्
वीजमेतत्तु कथितं शुद्धबुद्धिप्रवर्त्तकम्
ऐं
क्रोधीशं बलभृद्धूम्रभैरवीनादविन्दुभिः ।त्रिमूर्त्तमन्मथं कामराजस्त्रैलोक्यमोहनम् ।इन्द्रासनगतो ब्रह्म समूर्त्तिस्तु समन्मथः
क्लीं
संयुक्तं धूम्रभैरव्यारक्तस्थं बलिभोजनम् ।नादविन्दुसमायुक्तं किङ्किनी वीजमुत्तमम्
ह्रीं
नादविन्दुसमायुक्तं रक्तस्थं बलिभोजनम् ।कालरात्र्यासनोपेतं विशिखाख्यं महामनुम्
ह्रां
विदार्य्यालिङ्गितोग्रात्योवसिस्तक्षतजोक्षतः ।नादविन्दुसमायुक्तो विज्ञेयः पिसिताशनम्
हुं
धूम्रध्वजाधः कालाग्निः सोर्द्धकेशीन्दुविन्दुभिः ।युगान्तकारकं वीजं भैरवेन प्रकाशितम्
स्फें
कपर्द्दिनं समादाय क्षतजः क्षितिविग्रहम् ।संयुक्तं धूम्रभैरव्यां क्षोहयं नादविन्दुमान्
प्रीं
कपालीद्वयमादाय महाकालेन मण्डितम् ।समासनमिति प्रोक्तं चण्डिकाढ्यंप्रयोजयेत्
ठं ठं ठः ठः
क्षतजस्थं व्योमवक्त्रं चन्द्रक्षतविभूषितम् ।खद्योतमिति संप्रोक्तं ग्रासिनी कालरात्रियुक्
ह्रँ ह्रँ
क्षतजो क्षतमाकाशं नादविन्दुविभूषितम् ।विदारी भूषितञ्चैव बीजं वैवस्वतोदृकम्
ह्राँ
कीर्त्त्याख्या कालवक्त्रा महाकालेन साधितम्
तदनादिपञ्चरश्मिः सृष्टिस्थित्यन्ततद्विधिः
ओँ
व्योमस्थं तालजङ्घास्थं विन्दुनादविभूषितम् ।कूर्च्चं कालो महाकालः क्रोधवीजं निरञ्जनम्
हूँ
इति प्राणतोषिणी
)