विसर्पः (visarpaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishविसर्पः [visarpḥ], 1 Creeping about, gliding.
Moving to and fro.
Spread, circulation
किमु विषविसर्पः किमु मदः 1.36.
An unexpected or unwished-for consequence of an act.
A sort of disease, dry spreading itch
लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः । विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ॥ -घ्नम् wax.
Apte 1890
EnglishApte Hindi
Hindiविसर्पः
- वि + सृप् + घञ्
"रेंगना, सरकना"
विसर्पः
- -
इधर से उधर आना और जाना
विसर्पः
- -
"फैलाव, संचार"
विसर्पः
- -
किसी कर्म का अप्रत्याशित या अनपेक्षित फल
विसर्पः
- -
"एक प्रकार का रोग, सूखी खुजली"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilவிஸர்ப: : பரவுதல், நகருதல், தோலில் தோன்றும் படை நோய்.
शब्दकल्पद्रुमः
Sanskritविसर्पः, (वि + सृप + घञ् ।) रोगविशेषः ।तत्पर्य्यायः । विसर्पिः २ सचिवामयः ३ । इतिराजनिर्घण्टः ॥
तत्र विप्रकृष्टं निदानं संख्यांनिरुक्तिञ्चाह ।“लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः ।विसर्पः सप्तधा ज्ञेयः सर्व्वतः परिसर्पणात् ॥
”आदिशब्दाच्चरकोक्तहरितशाकशिण्डाकप्रभृ-तीनां ग्रहणम् ॥
* ॥
सप्तधात्वं विषृणोति ।“पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्बन्द्वजास्त्रयः ।वातिकः पैत्तिकश्चैव कफजः सान्निपातिकःचत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः ॥
आग्नेयो वातपित्ताभ्यां ग्रन्थाख्यः कफवातजः ।यस्तु कर्दमको घोरः स पित्तकफसम्भवः ॥
” * ॥
विसर्पदोषदूष्याणि संगृह्याह ।“रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः ।विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः ॥
”त्रयो मलाः वातपित्तकफाः । दोषाः दूषकाइत्यर्थः । अन्यथा दोषा मला इत्यत्र पुनरुक्ति-दोषोऽगलिष्यत् ॥
* ॥
वातिकस्य लक्षणमाह ।“तत्र वातात् परीसर्पो वातज्वरसमव्यथः ।शोफस्फुरणनिस्तोदभेदायामार्त्तिहर्षवान् ॥
”परीसर्पो विसर्पः । वातज्वरसमव्यथः शिरो-हृद्गात्रोदरशूलादियुक्तः । भेदः विदारणेनेवव्यथा । आयामः आकर्षणेनेव व्यथा ॥
* ॥
पैत्तिकमाह ।“पित्ताद्द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः ॥
”द्रुतगतिः शीघ्रप्रसरणशीलः ॥
* ॥
श्लैष्मिक-माह ।“कफात् कण्डुयुतः स्निग्धः कफज्वरसमानरुक् ॥
”सान्निपातिकमाह ।“सन्निपातसमुत्थश्च सर्व्वरूपसमन्वितः ॥
” * ॥
वातपैत्तिकस्याग्निविसर्पाख्यस्य च लक्षणमाह ।“वातपित्तज्वरच्छर्द्दिमूर्च्छातीसारतृड् भ्रमैः ।अस्थिभेदाग्निसदनतमकारोचकैर्युतः ॥
करोति सर्व्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत् ।यं यं देशं विसर्पश्च संसर्पति भवेत् स सः ॥
शान्ताङ्गारासितो नीलो रक्तो वा सूपचीयते ।अग्निदग्ध इव स्फोटैः शीघ्रगत्वात् द्रुतञ्च सः ॥
मर्मानुसारी वीसर्पः स्यादतोऽतिबलस्ततः ।व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत् ॥
हिध्माञ्च संगतोऽवस्थामीदृशीं लभते नरः ।क्वचिच्छर्मारतिग्रस्तो भूमिशय्यासनादिषु ॥
चेष्टमानस्ततः क्लिष्टो मनोदेहसमुद्भवाम् ।दुःप्रबोधोऽश्नुते निद्रां सोऽग्निवीसर्प उच्यते ॥
”स्फोटैः उपचीयत इत्यन्वयः । मर्मानुसारीहृदयानुसारी । हरेत् वीसर्प इत्यन्वयः । हिघ्मांहिक्काम् । ईरयेत् उत्पत्तुं प्रेरयेत् । मनोदेह-समुद्भवां निद्रां मरणरूपाम् । अश्नुते प्राप्नोति ॥
*वातश्लैष्मिकग्रन्थिविसर्पमाह ।“कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम् ।रक्तं वा वृद्धरक्तस्य त्वक्शिरास्नायुमांसगम् ॥
दूषयित्वा तु दीर्घायुर्वृत्तस्थूलस्वरात्मनाम् ।ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्जराम् ॥
श्वासकाशास्यवैरस्यशोषहिक्कावमिभ्रमैः ।मोहवैवर्ण्यमूर्च्छाङ्गभङ्गाङ्गसदनैर्युतः ।इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः ॥
”कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतुदुष्टः ।तेनायं वातश्लेष्मिकः । तं कफं बहुधा भित्त्वारक्तं वा दूषयित्वा इत्यन्वयः । त्वगादिकमितिरक्तविशेषणम् ॥
* ॥
पित्तश्लैष्मिकं कर्दमाख्यंविसर्पमाह ।“कफपित्तज्वरास्तम्भो निद्रातन्द्राशिरोरुजा ।अङ्गावसादविक्षेपप्रलापारोचकभ्रमाः ॥
मूर्च्छाग्निहानिर्भेदोऽस्थ्नां पिपासेन्द्रियगौरवम् ।आमोपवेशनं लेपस्रोतसाञ्च विसर्पति ॥
प्रायेणामाशये गृह्णन्नेकदेशं न चातिरुक् ।पिडकैरवकीर्णेति पीतलोहितपाण्डुरैः ॥
स्निग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः ।गम्भीरपाकः प्राज्योष्मा क्लिन्नः क्लिष्टो विदीर्य्यते ।पङ्कत्वक् शीर्णमांसस्य स्पष्टस्नायुशिरागणः ।शवगन्धिश्च वीसर्पः कर्द्दमाख्यमुशन्ति तम् ॥
”स च सर्पति एकदेशमित्यन्वयः । पिडकैःपिडकाभिः । अवकीर्णः व्याप्तः । असितःकृष्णः । मेचकः रूक्षकृष्णः । प्राज्योष्मा प्रचु-रोष्मा । स्पष्टः क्लिन्नोऽवदीर्य्यते स्पृष्टः सन्नार्द्रोभवति विदीर्य्यते च । पङ्कत्वक् कर्दमवर्णा त्वग्-यत्र सः । शीर्णमांसः गलितमांसः । अतएवस्पष्टस्नायुशिरागणः ॥
* ॥
सान्निपातिक-माह ।“सन्निपातसमुत्थस्तु सर्व्वरूपसमन्वितः ॥
” * ॥
क्षतजञ्च विसर्पमाह ।“बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन् ।वीसर्पमारुतः कुर्य्यात् कुलत्थसदृशैश्चितः ।स्फोटैः शोथज्वररुजा दाहाद्यं श्यावशो-णितम् ॥
”बाह्यहेतोः शस्त्रप्रहारव्यालदन्तनखाद्यागन्तु-हेतोः । श्यावशोणितं धूम्रवर्णरक्तम् ॥
* ॥
उपद्रवानाह ।“ज्वरातीसारवमथुस्तृण्मांसदरणक्लमाः ।अरोचकविपाकौ च विसर्पाणामुपद्रवाः ॥
” * ॥
साध्यत्वादिकमाह ।“सिध्यन्ति वातकफपित्तकृता विसर्पाःसर्व्वात्मकक्षतकृतश्च न सिद्धिमेति ।पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यःकृच्छ्राश्च मर्मसु भवन्ति च सर्व्व एव ॥
”पित्तात्मकोऽञ्जनवपुः पित्तजः सन् कज्जलवर्णः ।सर्व्व एवासाध्या अपि ॥
* ॥
अथ विसर्पस्यचिकित्सा ।“विरेकवमनालेपसेचनास्रविमोक्षणैः ।उपाचरेद्यथादोषं विसर्पानविदाहिभिः ॥
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला ।घृतं क्षीरयुतो लेपो वातवीसर्पनाशनः ॥
”चन्दनमत्र रक्तं ग्राह्यम् ।“कसेरुशृङ्गाटकपद्मगुन्द्रैःसशैवलैः सोत्पलकर्द्दमैश्च ।वस्त्रान्तरैः पित्तकृते विसर्पेलेपो विधेयः सघृतः सुशीतः ॥
* ॥
त्रिफलापद्मकोशीरसमङ्गाकरवीरकम् ।नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥
समङ्गा लज्जालुः ।“वातपित्तप्रशमनमग्निवीसर्पणे हितम् ।वातश्लेष्महरं कर्म्म ग्रन्थिवीसर्पणे हितम् ॥
पित्तश्लेष्मप्रशमनं हितं कर्द्दमसंज्ञके ।त्रिदोषजक्रियां कुर्य्यात् विसर्पे त्रिमलापहाम् ॥
*शिरीषयष्टीनतचन्दनैलामांसौहरिद्राद्वयकुष्ठवालैः ।लेपो दशाङ्गः सघृतः प्रयोज्योविसर्पकुष्ठज्वरशोथहारी ॥
”नतं तगरम् । चन्दनमत्र रक्तं ग्राह्यम् ।दशाङ्गो लेपः ॥
* ॥
“परिषेकाः प्रलेपाश्च शस्यन्ते पञ्चवल्कलैः ।पद्मकोशीरमधुकं चन्दनैला विसर्पणे ॥
भूनिम्ववासा कटुका पटोल-फलत्रयं चन्दननिम्बसिद्धः ।विसर्पदाहज्वरशोथकण्डूंविस्फोटतृष्णावमिहृत् कषायः ॥
कुष्ठानि यानि सर्पिंषि व्रणेषु विविधेषु च ।विसर्पे तानि योज्यानि सेकालेपनभोजनैः ॥
* ॥
करञ्जसप्तच्छदलाङ्गलीक-स्नुह्यर्कदुग्धानलभृङ्गराजैः ।तैलं निशामूत्रविषैर्विपक्वंविसर्पविस्फोटविचर्च्चिकाघ्नम् ॥
इति करञ्जादितैलम् ॥
* ॥
“कुष्ठामयस्फोटमसूरिकोक्त-चिकित्सयाप्याशु हरेद्बिसर्पान् ।सर्व्वान् विकारान् परिशोध्य धीमान्व्रणं क्रमेणोपचरेद्यथोक्तम् ॥
”इति विसर्पाधिकारः । * । इति भावप्रकाशः ॥
(वेगः । यथा, उत्तरचरिते ।“प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ॥
”नाट्यालङ्कारविशेषः । तल्लक्षणादिकं यथा, साहित्यदर्पणे । ६ । ४८५ ।“विसर्पो यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥
”यथा वेण्याम् । एकस्य तावत् पाकोऽयमि-त्यादि ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
