| YouTube Channel

विष्कम्भी (viSkambhI)

 
Wordnet
Sanskrit
Synonyms:
अर्गला, अपिहिति, बाहुः, विष्कम्भः, विष्कम्भी, शलाका, हुडुक्कः
noun
द्वारबन्धकलोहादिभिः विनिर्मितम् उपकरणम्।
"अस्मिन् द्वारे अर्गला नास्ति।"
शब्दकल्पद्रुमः
Sanskrit
विष्कम्भी, [न्]
पुं,
(विष्कभ्नाति रुणद्वीति वि +ष्कम्भ + णिनिः ।) अर्गला यथा “तद्विष्कम्भो-ऽर्गलं ना इत्यमरोक्तौ कपाटधारणकाष्ठंअर्गलं हुड्कादण्ड इति ख्यातम् तत् कपाटंविष्कभ्नाति रुणद्धि इति ग्रहादित्वाण्णिन् तद्वि-ष्कम्भी मूर्द्धन्यवत् स्वार्थकथनमेतत् विष्कम्भीतिनाम इत्येके तद्विष्कम्भोऽर्गलमिति मूल-पाठः विष्कम्भो बन्धननिमित्तदण्डः इतिभट्टः इति मुकुटः
‘विष्कम्भो योगभेदे स्यात् विस्तारप्रतिबन्धयोः ।कपाटाङ्गप्रभेदे ।’ इति मेदिनीदर्शनात्विष्कम्भ इति पाठः ।” इति तट्टीकायां भरतः