| YouTube Channel

विशुद्धं (vizuddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
विशुद्धं, त्रि, विशेषेण शुद्धम् तत्पर्य्यायः उज्ज्व-लम् विमलम् विशदम् वीध्रम् अव-दातम् अनाविलम् शुचिः इति हेम-चन्द्रः
निभृतम् सत्यम् इत्यजयपालः
षट्चक्रान्तर्गतपञ्चमचक्रम् तत्तु कण्ठस्थं अका-रादिषोडशस्वरयुक्तधूम्रवर्णषोडशदलपद्मम् ।तन्मध्ये शिव आकाशश्चास्ति यथा, --“तदूर्द्धन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।स्वरैश्च षोडशैर्युक्तं धूम्रवर्णैर्महत्प्रभम् ।विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम्
”इति तन्त्रम्
अगस्त्यसंहितायाम् अकारादिषोडशस्वरान्सबिन्दून् षोडशदलकपले कण्ठमूले न्यसेत् ।विशुद्धे षोडशदले धूम्राभे स्वरभूषिते इतितन्त्रसारः