| YouTube Channel

विलासी (vilAsI)

 
शब्दकल्पद्रुमः
Sanskrit
विलासी, [न्]
पुं,
(विलासोऽस्यास्तीति विलास+ इनिः ।) भोगी व्यालः (उभयार्थे प्रमाणंयथा, कुट्टनीमते १८ ।“तस्यां खगपतितनुरिव विलासिनां हृदय-शोकसंजननी
”“विले आसत इति विलासिनः सर्पाः पक्षे विल-सनशीला भोगिनः ।” इति तट्टीका
*
)कृष्णः अग्निः चन्द्रः इति मेदिनी
स्मरः हरः इति शब्दरत्नावली
(विलास-शीले, त्रि यथा, रघुः ४३ ।“परभृताविरुतैश्च विलासिनःस्मरवलैरवलैकरसाः कृताः
”)