| YouTube Channel

विलक्षणः (vilakSaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
विलक्षणः, त्रि, (विभिन्नं लक्षणं यस्य ।) भिन्नः ।इति जटाधरः
(यथा, भागवते ।“अथैवमखिललोकपालसमो विलक्षणैर्जड-वदभूतवेशभाषाचरितैरविलक्षितभगवत्प्रभावइति
*
यथा भाषापरिच्छेदे ११४ ।“अस्मात् पृथगिदं नेति प्रतीतिर्हि विल-क्षणा
”विशिष्टं लक्षणं यस्याः ।) विशेषलक्षणयुक्तः ।यथा, मत्स्यपुराणे ।“अशौचान्ताद्दितीयेऽह्नि शय्यां दद्याद्विल-क्षणाम् ।काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम्
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ।वृषोत्सर्गश्च कर्त्तव्यो देया कपिला शुभा
”द्विजदम्पतीं पूजयित्वा काञ्चन प्रेतप्रतिकृतिरूपंपुरुषं फलवस्त्रयुतं शय्यायामारोप्य भूषित-द्विजदम्पतीभ्यां शय्यां दद्यात् इति शुद्धि-तत्त्वम्