| YouTube Channel

विरेचन (virecana)

 
शब्दसागरः
English
विरेचन
n.
(-नं)
1. Purging, evacuation by stool.
2. A purgative.
E.
वि
before रिच् to purge,
aff.
णिच्-ल्युट्
Yates
English
वि-रेचन (नं) 1.
n.
Idem.
Spoken Sanskrit
English
विरेचन virecana
adj.
opening
विरेचन virecana
m.
slow match tree or toothbrush tree [ Careya Arborea or Salvadora Persica - Bot. ]
विरेचन virecana
n.
purging or any purging substance
विरेचन virecana
n.
means for making the head clear
विरेचन virecana
n.
laxative
Wilson
English
विरेचन
n.
(-नं)
1 Purging, evacuation by stool.
2 A purgative.
E.
वि before रिच to purge,
aff.
ल्युट्.
Apte
English
विरेचनम् [virēcanam], See विरेक.
Apte 1890
English
विरेचनं See विरेक.
Monier Williams Cologne
English
वि-°रेचन
mfn.
opening,
Suśr.
वि-°रेचन
m.
Careya Arborea or Salvadora Persica,
L.
वि-°रेचन
n.
purging or any purging substance,
Suśr.
a means for making the head clear,
Car.
Monier Williams 1872
English
वि-रेचन, अम्, n. purging, evacuation of the
bowels
a purgative.
—विरेचन-द्रव्य, अम्, n.
any purging substance or medicine.
Apte Hindi
Hindi
विरेचनम्
नपुं*
- -
"मलाशय को रिक्त करना, साफ करना"
विरेचनम्
नपुं*
- -
"विरेचक, जुलाब की दवा"
L R Vaidya
English
virecana {% n. %} The same as विरेक q.v.
Sanskrit Tibetan
Tibetan
bkru sman
विरेचन
शब्दकल्पद्रुमः
Sanskrit
विरेचनं,
क्ली,
(वि + रिच + ल्युट् ।) विरेकः ।इति शब्दरत्नावली
तत्कारकौषधं यथा, --“हरीतकी समगुडा मधुना सह पेषिता ।विरेचनकरी रुद्र भवतीति संशयः
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।ऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम्
”अपि ।“त्रिफला वदरं द्राक्षा पिप्पली विरेचकृत् ।हरीतकी सोष्णनीरा लवणञ्च विरेचकृत्
”इति गारुडे १८७ १९९ अध्यायौ
*
अन्यच्च अथ विरेचनविधिः ।“स्निग्धस्विन्नाय वान्ताय दद्यात् सम्यग्विरेचनम् ।अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत् कफः
मन्दाग्निगौरवं कुर्य्याज्जनयेद्वा प्रवाहिकाम् ।अथवा पाचनैरामं वलासं परिपाचयेत् ।अन्यदात्ययिके कार्य्ये शोधनं शीलयेद्बुधः
”आत्ययिके प्राणसङ्कटे ।“पित्ते विरेचनं युञ्यादामोद्भूते गदे तथा ।उदरे तथाध्माने कोष्ठशुद्धौ विशेषतः
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः ।शोधनैः शोधिता ये तु तेषां पुनरुद्भवः
बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः ।श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी नवज्वरी
अधोगरक्तपित्ती विरेच्या विजानता ।नवप्रसूता नारी मन्दाग्निश्च मदात्ययी
शल्यार्दितश्च रूक्षश्च विरेच्या विजानता ।जीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरी
अर्शःपाण्डूदरग्रन्थिहृद्रोगारुचिपीडिताः ।योनिरोगप्रमेहार्त्तगुल्मप्लीहव्रणार्द्दिताः
विद्रधिच्छर्द्दिविस्फोटविसूचीकुष्ठसंयुताः ।कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानलार्द्दिताः ।शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः
बहुपित्तो मृदुः प्रोक्तो बहुश्लेष्मा मध्यमः ।बहुवातः क्रूरकोष्ठो दुर्व्विरेच्यः कथ्यते
मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे मध्यमा ।क्रूरे तीक्ष्णा मता द्रव्यैर्मृदुमध्यामतीक्ष्णकैः
मृदुर्द्राक्षापयश्चञ्चुतैलैरपि विरिच्यते ।मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्व्विरिच्यते ।क्रूरः स्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः
”चञ्चुतैलमेरण्डतैलम् राजवृक्षः धनवहेरा ।हेमक्षीरी चोकम् दन्तीफलं बृहद्दन्तीफलंजयपाल इति प्रसिद्धम् ।“मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफात्मिका ।वेगैर्व्विंशतिभिर्म्मध्या हीनोक्ता दशवेगिका
द्विपलं श्रेष्ठमाख्यातं मध्यमञ्च पलं भवेत् ।पलार्द्धञ्च कषायाणां कनीयस्तु विरेचनम्
कल्कमोदकचूर्णानां कर्षमध्वाज्यलेहतः ।कर्षद्वयं पलं वापि वयोरोगाद्यपेक्षया
पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिबेत् ।त्रिफलाक्वाथगोमूत्रैः पिबेत् व्योषं कफार्द्दितः
त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरः ।वातार्द्दितो विरेकाय जाङ्गलानां रसेन वा
एरण्डतैलं त्रिफलाक्वाथेन द्बिगुणेन वा ।युक्तं पीतं पयोभिर्व्वा चिरेण विरिच्यते
”शीघ्रमेव विरिच्यत इत्यर्थः ।“त्रिवृता कोटजं बीजं पिप्पली विश्वभेषजम् ।समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम्
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् ।द्राक्षाम्बुना सपुष्पाह्वं शीतलं घनात्यये
”उदीच्यं बाला घनात्यये शरदि ।“पिप्पली नागरं सिन्धुश्यामात्रिवृतषा सह ।लिह्यात् क्षौद्रेण शिशिरे वसन्ते विरे-चनम्
”श्यामा कृष्णसाउ ।“त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् ।अभया मरिचं शुण्ठीविडङ्गामलकानि
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव ।एतानि समभागानि दन्ती तु द्विगुणा भवेत्
त्रिवृताष्टगुणा ज्ञेया षड्गुणा वात्र शर्करा ।मधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः
एकैकं भक्षयेत् प्रातः शीतञ्चानुपिबेज्जलम्
तावद्विरिच्यते जन्तुर्यावदुष्णं सेवते ।पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा
विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् ।दुर्नामकुष्ठयक्ष्मार्शोगलगण्डोदरभ्रमान्
विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् ।वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणिचाश्मरीम्
पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् ।सततं शीलनादेषां पलितानि प्रणाशयेत् ।अभया मोदका ह्येते रसायनवराः स्मृताः
”अभयामोदको रसायनः
*
“पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी ।सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद्वरम्
निर्व्वातस्थो वेगांश्च धारयेन्न शयीत ।शीताम्बु स्पृशेत् क्वापि कोष्णनीरं पिबेन्मुहुः
बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत् ।रेकात्तथा मलं पित्तं भेषजं कफो व्रजेत्
दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् ।पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम्
विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते ।तं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत्
तेनास्योपद्रवा यान्ति दीप्ताग्निर्लघुता भवेत् ।विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य
शूलं कफातियोगः स्यान्मांसधारणसन्निभम् ।मेदोनिभं जलाभासं रक्तञ्चापि विरिच्यते
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ।मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु
सहकारत्वचः कल्को दध्ना सौवीरकेण वा ।पिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्वणम्
सौवीरन्तु यवैरामैः पक्वैर्व्वा निस्तुषीकृतम्
”सौवीरं सन्धानम् ।“आजं क्षीरं रसञ्चापि वैष्किरं हारिणं तथा
शालिभिः षष्टिकैस्तुल्यं मसूरैर्व्वापि भोजयेत् ।वर्त्तिकालावविकिरकपिञ्जलकतित्तिराः
चकोरक्रकराद्याश्च विष्किराः समुदाहृताः ।कपिञ्जल इति ख्यातो लोके कपिशतित्तिरः
”क्रकरः कएर इति लोके हरिणस्ताम्रवर्ण-मृगः ।“शीतैः संग्राहिभिर्द्रव्यैः कुर्य्यात् संग्रहणंभिषक् ।लाघवे मनसन्तुष्टावनुलोमं गतेऽनिले
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि ।इन्द्रियाणां बलं बुद्धेः प्रसादो वह्निदीप्तता
धातुस्थैर्य्यं वयःस्थैर्य्यं भवेद्रेचनसेवनात् ।प्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम्
व्यवायं मैथुनं चैव सेवेत विरेचितः ।शािषष्टिकमुद्गाद्यैर्यवागूं भोजयेत् कृताम्
जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ।हरिणैणकुरङ्गर्त्यवातायुमृगमातृकाः ।राजीवः पृषतश्चैव जङ्घाला सरभादयः
”इति भावप्रकाशः
विरेचनः,
पुं,
(विशेषेण रेचयतीति वि + रिच् +णिच् + ल्युः ।) पीलुवृक्षः इति राज-निर्घण्टः
(विरेचके, त्रि यथा, सुश्रुते ।चिकित्सितस्थाने २४ अध्याये ।“तेजनं त्वग्गतस्याग्नेः सिरामुखविरेचनम्
”)
वाचस्पत्यम्
Sanskrit
विरेचन
न०
वि + रिच--णिच्--ल्युट् मलादेर्निःसारणे, तद्विधिः भावप्र० उक्तो यथा“स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम् अवा-न्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः मन्दाग्निंगौरवं कुर्य्याज्जनयेद् वा प्रवाहिकाम् अथ वापाचनैरामं वलासं परिपाचयेत् ऋतौ वसन्ते श-रदि देहशुद्धौ विरेचयेत् अन्यदात्ययिके कार्य्ये शोधनंशीलयेद् बुधः” आत्ययिके प्राणसङ्कटे “पित्तेविरेचनं युञ्ज्यादामोद्भूते गदे तथा उदरे तथा-ध्माने कोष्ठशुद्धौ विशेषतः दोषाः कदाचित् कुप्यन्तिजिता लङ्घनपाचनैः शोधनैः शाधिता ये तु तेषापुनरुद्भवः बालो वृद्धो मृशं स्निग्धः क्षतक्षीणो भया-न्वितः श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी नवज्वरो ।नवप्रसूता नारी मन्दाग्निश्च मदात्ययी शल्यार्दि-तश्च रूक्षश्च विरेच्या विजानता जीर्णज्वरी गर-व्याप्तो वातरोगी भगन्दरी अर्शःपाण्डूदरग्रन्धिहृद्रोगारुचिपीडिताः योनिरोगप्रमेहार्त्तो गुल्म-प्लीहव्रणार्दितः विद्रधिच्छर्दिविस्फोटविसू चीकुष्ठ-संयुताः कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः प्ली-हशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः शू-लिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः बहुपित्तोमृदुः प्रोक्तो बहुश्लेष्मा मध्यमः वहुवातः क्रूर-कोष्ठो दुर्विरेच्यः कथ्यते मृद्वी मात्रा मृदौ काष्ठेमध्यकोष्ठे मध्यमा क्रूरे तीक्ष्णा मता द्रव्यैर्मृदुमध्यमतीक्ष्णकैः मृदुर्द्राक्षापयश्चञ्चुतैलैरपि विरे-च्यते मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरेच्यते क्रूरःस्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः” चञ्चुतैलम्एरण्डतैलम् राजवृक्षः (वनवहेरा) हेमक्षीरी(चोक) दन्तीफलम् वृहद्द्तीफलम् जयपालेतिप्रसिद्धम् “मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तकः ।वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका द्विपलंश्रेष्ठमाख्यातं मध्यमं पलं भवेत् पलार्द्धञ्च कषा-याणां कनीयस्तु विरेचनम् कल्कमोदकचूर्णानां कर्ष-मध्वाज्यलेहतः कर्षद्वयं पलं वापि वयोरोगाद्यपे-क्षया पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिवेत् ।त्रिफलाक्वाथगोमूत्रैः पिवेद्व्योषं कफार्दितः त्रि-वृत्सेन्धवशुण्ठीनां चूर्णमम्लैः पिवेन्नरः वातार्दितोविरेकाय जाङ्गलानां रसेन वा एस्ण्डतैलं त्रिफला-क्वाथेन द्विगुणेन वा युक्तं पौतं पयोभिर्वा चि-रेण विरेच्यते” शोघ्रमेव विरेच्यत इत्यर्थः “त्रिवृताकौटजं वीजं पिप्पलीविश्वभेषजम् समृद्वीकारसक्षौद्रं वर्षाकाले विरेचनम् त्रिवृद्दुरालभामुस्तशर्क-रोदीच्यचन्दनम् द्राक्षाम्बुना सयष्ट्याह्वशीतलञ्चघनात्यये” उदोच्याम्बाला घनात्यये शरदि “पिप्पलींनागरं सिन्धुं श्यामां त्रिवृतया सह लिह्यात् क्षौद्रेणशिशिरे वसन्ते विरेचनम्” श्यामा (कृष्णासाण्ड) (त्रि-वृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् अभयामरिचंशुण्ठीविडङ्गामलकानि पिप्पली पिप्पलीमूलत्वक्पत्रं मुस्तमेव एतानि समभागानि दन्ती तुत्रिगुणा भवेत् त्रिवृताष्टगुणा ज्ञेया षड्गुणा चात्रशर्करा भधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः ।एकैकं भक्षयेत्प्रातः शीतञ्चानु पियेज्जलम् तावद्विरे-च्यते जन्तुर्यावदुष्णं सेवते पानाहारविहारेषुभवेन्निर्यन्त्रणः सदा विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् पृष्ठपार्श्वोरुजघनजङ्घादररुजं जयेत् ।स्नेहाभ्यङ्गञ्च रोषं दिनमेकं सुधीस्त्र्यजेत् सततंशीलनादेव पलितानि प्रणाशयेत् अभया मोदकाह्येते रसायनपराः स्मृताः” इति अभयादिमोदकः“पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी सुगन्धिकिञ्चिदाघ्राय ताम्बूलं शीलयेद् बुधः निर्वातस्थो नवेगांश्च धारयेन्न शयीत शीताम्बु स्पृशेत् क्वापिकोष्णनीरं पिबेन्मुहुः वलासौषधपित्तानि वायुर्वान्तेयथा व्रजेत् रेकात्तथा मलं पित्तं भेषजञ्च कफो व्र-जेत् दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् ।पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् विदाहोऽरु-चिराध्मानं भ्रमश्छर्दिश्च जायते तं पुनः पाचनैःस्नेहैः पक्त्वा स्निग्धन्तु रेचयेत् तेनास्योपद्रवा यान्तिदीप्ताग्नेर्लघुता भवेत् विरेकस्यातियोगेन मूर्च्छाभ्रंशो गुदस्य शूलं कफातियोगः स्यान्मांसधारणसन्निभम् मेदोनिभञ्जलाभासं रक्तञ्चापि विरेच्यते ।तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ।मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु सहकार-त्वचः कल्को दध्रा सौवीरकेण वा पिष्ट्वा नाभिप्रले-पेन हन्त्यतीसारमुल्वणम् सौवीरं तु यवैरामैः प-क्वैर्वा निस्तुषैः कृतैः” सौवीरं सन्धानम् “अजाक्षीरंरसञ्चापि वैष्किरं हारिणं तथा शालिमिः षष्टिकै-स्तुल्यैर्मसूरैर्वापि भोजयेत् वर्त्तिकालावविकिरक-पिञ्जलकतित्तिराः चकोरक्रकराद्याश्च विष्किराः समु-दाहृताः” कपिञ्जल इति ख्यातो लोके कविशति-त्तिरः क्रकरः (कराट) इति लोके हरिणस्ता-म्रवर्णः मृगः “शीतः सग्राहिभिर्द्रव्यैः कुर्य्यात् सं-ग्रहणं भिषक् लाघवे मनसस्तुष्टावनुलोमङ्गतेऽनिले ।सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि इन्द्रि-याणां बलं बुद्धेः प्रसादो वह्निदीप्तता धातु स्थैर्य्यंवयस्थैर्य्यम्भवेद्रेचनसेवनात् प्रतापसेवां शीताम्बुस्नेहाभ्यङ्गमजीर्णताम् व्यायामं मैथुनञ्चैव सेवेतविरेचितः शालिपष्टिकमुद्गाद्यैर्यवागूम्भोजयेत् कृताम् ।जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ।राजीवः पृषतश्चैव जङ्घालाः सरभादयः” विरेचयतिवि + रिच--णिच्--ल्यु पीलुवृक्षे
पु०
राजनि० भेदक-मात्रे
त्रि०
ण्वुल् विरेचक तत्रार्थे
त्रि०