| YouTube Channel

विम्बी (vimbI)

 
शब्दकल्पद्रुमः
Sanskrit
वि(बि)म्बी,
स्त्री,
(विम्ब + गौरादित्वात् ङीष् ।)बिम्बिका इति शब्दरत्नावली
(यथा, --“काकादनीं चित्रफलां विम्बीं गुञ्जाश्चधारयेत्
”इति सुश्रुते उत्तरतन्त्रे ३२ अध्यायः
)
वाचस्पत्यम्
Sanskrit
विम्बा(म्बी) स्त्री विम्बमस्त्यस्याः अच् वा गौरा० ङीष् ।(तेलाकुचा) लताभेदे शब्दर० “विम्बीफलं भ्वादु शातंगुरु पित्तास्रवातजित् स्तम्भनं लेखनं रुच्य विबन्धा-ध्मानकारकम्” भावप्र० स्वार्थे कापि अत इत्त्वमतत्रार्थे सूर्य्यदिमण्डले
पु०
न०
नात इत्त्वम्