| YouTube Channel

विमलं (vimalaM)

 
शब्दकल्पद्रुमः
Sanskrit
विमलं,
क्ली,
(विगतो मलो यस्मात् ।) तारहेम-द्विधाकृतम् तत्तूपरसविशेषः तत्पर्य्यायः ।निर्म्मलम् स्वच्छम् अमलम् स्वच्छधातु-कम् अस्य गुणाः कटुत्वम् तिक्तत्वम् ।त्वग्दोषव्रणनाशित्वम् रसवीर्य्यादौ तुल्य-त्वम् वेधे भिन्नवीर्य्यकत्वञ्च इति राज-निर्घण्टः
(तथास्य शोधनमारणविधिः ।“मूत्रारनालतैलेषु गोदुग्धे कदली रसे ।कौलत्थे कोद्रवक्वाथे माक्षिकं विमलन्तथा
मुहुः शूरणकन्दस्थं स्वेदयेद्वरवर्णिनि ! ।क्षाराम्ललवणैश्चैव तैलसर्पिःसमन्वितम्
पुटत्रयं प्रदातव्यं ततस्तु शोधितं भवेत् ।जम्बीरस्य रसे स्विन्नो मेषशृङ्गीरसैस्तथा ।रम्भातोयेन वा पाच्यं घस्रं विमलशुद्धये
”इति विमलशुद्धिः
इति वैद्यकरसेन्द्रसार-संग्रहे जारणमारणाधिकारे
)
विमलं, त्रि, (विगतो मलो यस्मात् ।) निर्म्मलम् ।तत्पर्य्यायः वीध्रम् इत्यमरः
प्रयतम् ।इति शब्दरत्नावली
(यथा, रामायणे ।४८ १४ ।“प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झ-रान्
”)चारुः इति शब्दरत्नावली
(यथा, माघे ।९ १३ ।“रुचिधाम्नि भत्तरि भृशं विमलाःपरलोकमभ्युपगते विविशुः
”)