| YouTube Channel

विनतः (vinataH)

 
Wordnet
Sanskrit
Synonyms:
विनतः
noun
रामायणे वर्णितः वीरवानरविशेषः।
"सीतायाः अन्वेषणार्थं पूर्वदिशि गतस्य वानरदलस्य प्रमुखः विनतः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
विनतः, त्रि, (वि + नम + क्तः ।) प्रणतः (यथा, आर्य्यासप्तशत्याम् ६१६ ।“सखि दुरवगाहगहनो विदधानो विप्रियंप्रियजनेऽपि ।खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरि स्थितःकोपः
”)भुग्नः (यथा, बृहत्संहितायाम् ६१ ।“दशसप्तचतुर्द्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः ।ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च
”)शिक्षितः इति मेदिनी ते, १५६
(सङ्कु-चितः यथा, रामायणे ४३ २४ ।“विनतं क्वचिदुद्भूतं क्वचिद्याति शनैः शनैः ।सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः
”पुं, स्वनामख्यातवानरविशेषः यथा, भट्टिः ।७ ५२ ।“प्राचीं तावद्भिरव्यग्रः कपिभिर्विनतो ययौ ।अप्रग्राहैरिवादित्यो वाजिभिर्दूरपातिभिः
”)