विधवा (vidhavA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English विधवा vidhavA widow
विधुर vidhura widower
वैधव्य vaidhavya widowhood
अधवा adhavA widow
अभर्तृका abhartRkA widow
अवीरा avIrA widow
काषायवसना kASAyavasanA widow
गतभर्तृका gatabhartRkA widow
जालिका jAlikA widow
प्रमीतपतिका pramItapatikA widow
प्रेतपत्नी pretapatnI widow
मुण्डा muNDA widow
यति yati widow
यतिनी yatinI widow
विधवास्त्री vidhavAstrI widow
विधवयोषित् vidhavayoSit widow
वितन्तु vitantu widow
विश्वस्ता vizvastA widow
विश्वस्था vizvasthA widow
वृषभी vRSabhI widow
Apte
Englishविधवा [vidhavā], [विगतो धवो यस्याः सा] A widow
सा नारी विधवा जाता गृहे रोदिति तत्पतिः Subhāṣ. -आवेदनम् marrying a widow. -गामिन् one who has sexual intercourse with a widow.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishविधवा वि-धवा, f. (see 2. धव), a hus-
bandless woman, a widow
[cf. Lat. vidua, vi-
duus
Goth. viduvo
Angl. Sax. wuduwe, wu-
duwa
Slav. vidova
Hib. feadhb
perhaps Gr.
ἠΐθεος.]
—विधवा-गामिन्, ई, m. one who has in-
tercourse with a widow.
—विधवा-धर्म, अस्,
m. ‘the duty of widows, ’ N. of a section of the
Purāṇa-sarva-sva.
—विधवावेदन (°वा-आव्°), अम्,
n. marrying a widow.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiविधवा
- विगतो धवो यस्याः सा
"रांड, बेवा"
Bopp
LatinLanman
EnglishWordnet
Sanskrit विधवा, गतभर्तृका, मृतपतिका, अभर्तृका, निर्नाथा, अनाथा, अवीरा, यतिनी, वृषभी, कात्यायनी, वितन्तुः
सा महिला यस्याः पतिः मृतः अस्ति।
"मेजर रणवीरं मृत्योः पश्चात् परमवीरचक्रेण सन्मानितं कृतं सः सन्मानः तस्य गतभर्तृकया स्वीकृतः।"
Sanskrit Tibetan
Tibetankhyo bral ma
विधवा
अभिधानचिन्तामणिः
Sanskritपतिवत्नी जीवत्पतिर्विश्वस्ता विधवा समे ।
पतिवत्नी (स्त्री), जीवत्पति (स्त्री), विश्वस्ता (स्त्री), विधवा (स्त्री)
अभिधानरत्नमाला
Sanskritविश्वस्ता
विश्वस्ता, विधवा
विश्वस्ता विधवा प्रोक्ता पुष्पहीना च निष्कला ।
verse 2.1.1.487
page 0056
पुराणम्
Englishविधवा / VIDHAVĀ A woman whose husband is dead. In ancient india, it was ordained how a widow should live. It was allowed for a widow to get a son by her younger brother-in law to continue the family line in case the death of her husband occurred before the couple had children. The procedure about this is given in manusmṛti, Chapter 9.
“He who goes to accept the widow with the permission of great people, should besmear his body with ghee and go to her bed in the night in a dark room. She should have only one son in this manner. After she has become pregnant, they should behave to each other as a teacher and a younger brother-in-law.”
Vedic Reference
EnglishVidhavā denotes ‘widow’ as the ‘desolate one, ’ from the
root vidh, ‘be bereft.’ The masculine vidhava is conjectured
by Roth^1 in a difficult passage of the Rigveda, ^2 where the
received text presents the apparent false concord vidhantaṃ
vidhavām, in which he sees a metrical lengthening for vidhavam,
‘the sacrificing widower.’ Ludwig in his version takes vidh-
antam as equivalent to a feminine, while Delbrück^3 prefers
‘the worshipper and the widow.’ Possibly ‘the widower and
the widow’ may be meant
but we know nothing of the
mythological allusion in question, the feat being one of those
attributed to the Aśvins, and the natural reference to Ghoṣā as
‘husbandless’ being rendered unlikely because their feat in
regard to her has already been mentioned a few verses before in
the same hymn.^4 The word Vidhavā is not of common
occurrence.^5
1) St. Petersburg Dictionary, s.v.
so
also Grassmann.
2) x. 40, 8.
3) Die indogermanischen Verwandtschafts-
namen, 443.
4) x. 40. 5.
5) Rv. iv. 18, 12
x. 40, 2
Ṣaḍviṃśa
Brāhmaṇa, iii. 7
Nirukta, iii. 15.
अमरकोशः
SanskritWord: विधवा
Root: विधवा
Gender: स्त्री
Number: all
Meaning(s):
⇒ widow
Shloka(s):
2|6|11|2 ► अवीरा निष्पतिसुता विश्वस्ताविधवे समे॥ (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|11|2 ⇢ विश्वस्ता (विश्वस्ता) (स्त्री)
➠ 2|6|11|2 ⇢ विधवा (विधवा) (स्त्री)
Related word(s):
परा_अपरासंबन्धः ➡ स्त्री
जातिः ➡ मनुष्यः
शब्दकल्पद्रुमः
Sanskritविधवा, (विगतो धवो भर्त्ता यस्याः ।) मृत-भर्त्तृका । तत्पर्य्यायः । विश्वस्ता २ । इत्यमरः ॥
जालिका ३ रण्डा ४ यतिनी ५ यतिः ६ । इतिशब्दरत्नावली ॥
(यथा, ऋग्वेदे । १० । ४० । २ ।“को वां शयुत्रा विधवेव देवरंमर्यं न योषा कृणुते सधस्थ आ ॥
”)तस्याः कर्त्तव्याकर्त्तव्यानि यथा । विष्णुः ।“मृतेभर्त्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा इति ।”ब्रह्मचर्य्यं मैथुनवर्ज्जनं ताम्वूलादिवर्ज्जनञ्च ।यथा, प्रचेताः ।“ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम् ।यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥
”अभ्यञ्जनं आयुर्वेदोक्तं पारिभाषिकम् । स्मृतिः ।“एकाहारः सदा कार्य्यो न द्वितीयः कदाचन ।पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ॥
गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया पुनः ।तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ॥
”एतत्तु तर्पणं पुत्त्रपौत्त्राद्यभाव इति मदनपारि-जातः ॥
“वैशाखे कार्त्तिके माघे विशेषनियमञ्चरेत् ।स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥
”इति शुद्धितत्त्वम् ॥
* ॥
अपि च ।“ब्राह्मणी पतिहीना या भवेन्निष्कामिनी सदा ।एकभक्ता दिनान्ते सा हविष्यान्नरता सदा ॥
न घत्ते दिव्यवस्त्रञ्च गन्धद्रव्यं सुतैलकम् ।स्रजञ्च चन्दनञ्चैव शङ्खसिन्दूरभूषणम् ॥
त्यक्त्वा मलिनवस्त्रा स्यान्नित्यं नारायणं स्मरेत् ।नारायणस्य सेवाञ्च कुरुते नित्यमेव च ॥
तन्नामोच्चारणं शश्वत् कुरुतेऽनन्यभक्तितः ।पुत्त्रतुल्यञ्च पुरुषं सदा पश्यति धर्म्मतः ॥
मिष्टान्नं न च भुङ्क्ते सा न कुर्य्याद्बिभवं व्रजम् ।एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने ॥
श्रीरामस्य नवम्याञ्च शिवरात्रौ पवित्रया ।अघोरायाञ्च प्रेतायां चन्द्रसूर्य्योपरागयोः ॥
भ्रष्टद्रव्यं परित्याज्यं भुज्यते परमेव च ।ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ।सन्न्यासिनाञ्च गोमांसं सुरातुल्यं श्रुतौ श्रुतम् ॥
रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च ।अलावुर्वर्त्तुलाकारा वर्ज्जनीया च तैरपि ॥
पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ।यान आरोहणं कृत्वा विधवा नरकं व्रजेत् ॥
न कुर्य्यात् केशसंस्कारं गात्रसंस्कारमेव च ।केशवेणीजटारूपं तत्क्षौरं तीर्थकं विना ॥
तैलाभ्यङ्गं न कुर्व्वीत न हि पश्यति दर्पणम् ।मुखञ्च परपुंसाञ्च यात्रा नृत्यं महोत्सवम् ॥
नर्त्तकं गायनञ्चैव सुवेशं पुरुषं शुभम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८३ अध्यायः ॥
(विधवायास्तु पत्यन्तर-ग्रहणं निषिद्धं नतद्विवाहशब्दवाच्यञ्च । तत्तु विशेषतो विचा-रेण ग्रन्थविस्तृतिर्भवेदतस्तद्भीतः केवलं कति-पयानि वचनान्युद्धृत्य दर्शयामि तानिसुधीभिर्व्विचारणीयानीति ॥
तत्र याज्ञवल्क्यः ।“अविप्लुतब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् ।अनन्यपूर्व्विकां कान्तामसपिण्डां यवीयसीम् ॥
”अनन्यपूर्व्विकां दानेनोप भोगेनवा पुरुषान्तरा-परिगृहीताम् ॥
व्यासः । २ । ३ ।“सवर्णामसमानार्षाममातृपितृगोत्रजाम् ।अनन्यपूर्व्विकां लध्वीं शुभलक्षणसंयुताम् ॥
”गोतमः । ४ । १ ।“गृहस्थः सदृशीं भार्य्यां विन्देतानन्यपूर्व्वि-काम् ॥
”वशिष्ठः । ८ । १ ।“गृहस्थो विनीतक्रोधहर्षो गुरुणानुज्ञातःस्नात्वा असमानार्षां अस्पृष्टमैथुनां भार्य्यांविन्देत ॥
” हारीतः । ४ । १ ।“असमानार्षगोत्रां हि कन्यां सभ्रातृकां शुभाम् ।सर्व्वावयवसम्पन्नां सुवृत्तामुद्बहेन्नरः ॥
”पारस्करगृह्यसूत्रम् ।“अग्निमुपधाय कुमार्य्याः पाणिं गृह्णीयात्त्रिषु त्रिषूत्तरादिषु ॥
”कन्याशब्दार्थः कथ्यते । “कन्या कुमारी” इत्य-मरः । “कन्यापदस्यादत्तस्त्रीमात्रवचनेन ।”इत्यादि दायभागटीकायां आचार्य्यचूडा-मणिः । “कन्यापदस्यापरिणीतामात्रवचनात् ।”इति रघुनन्दनः ॥
“अनूढात्वेन कन्यापदस्यसपत्नीकन्या बोधकतया अमुख्यत्वप्रसक्तेः तद्रूपे-णैव कन्यापदस्य शक्तेः ।” इति श्रीकृष्णतर्का-लङ्कारः ॥
पूर्व्वोक्तैर्व्वचनैः कुमारीणामेव परि-णये विवाहशब्दवाच्यत्वं नतूढानाम् ॥
मनुः । ५ । १५१ -- १५२ ।“यस्मै दद्यात् पिता त्वेनां भ्राता वानुमते पितुः ।तं शुश्रूषेत जीवन्तं संस्थितञ्च न लङ्घयेत् ॥
मङ्गलार्थं स्वस्त्ययनं यज्ञस्तासां प्रजापतेः ।प्रयुज्यते विवाहेषु प्रदानं स्वाम्यकारणम् ॥
”तत्रैव । १६० -- १६३ ।“मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता ।स्वर्गं गच्छत्यपुत्त्रापि यथा ते ब्रह्मचारिणः ।अपत्यलोभात् या तु स्त्री भर्त्तारमतिवर्त्तते ।सेहनिन्दामवाप्नोति पतिलोकाच्च हीयते ॥
नान्योत्पन्ना प्रजास्तीह न चाप्यस्य परिग्रहे ।न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते ॥
पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते ।निन्द्यैव सा भवेल्लोके परपूर्व्वेति चोच्यते ॥
”लघुहारीतः ।“स्वगोत्राद् भ्रस्यते नारी विवाहात् सप्तमे पदे ।पतिगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया ॥
”मनुः । ९ । ४७ ।“सकृदंशो निपतति सकृत्कन्या प्रदीयते ।सकृदाहुर्द्ददानीति त्रीण्येतानि सतां सकृत् ॥
”तत्रैव । ५९ -- ६५ ।“देवराद्वा सपिण्डाद्बा स्त्रिया सम्यक्नियुक्तया ।प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।एकमुत्पादयेत् पुत्त्रं न द्बितीयं कथञ्चन ।द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्बिदः ॥
अनिर्वृ तं नियोगार्थं पश्यतो धर्म्मतस्तयोः ॥
विधवायां नियोगार्थे निर्व्वृते तु यथाविधि ।गुरुषच्च स्नुषावच्च वर्त्तेयातां परस्परम् ॥
नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः ।तावुभौ पतितौ स्यातां स्नुषाग-गुरुतल्पगौ ॥
नान्यस्मिन् विधवा नारी नियोक्तव्या द्बिजा-तिमिः ।अन्यस्मिन् हि नियुञ्जाना धर्म्मं हन्युः सना-तनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित् ।न विवाहविधाधुक्तं विधवावेदनं क्वचित् ॥
”“न च विवाहविधायकशास्त्रे अन्येन पुरुषेणसह पुनर्व्विवाह उक्तः ॥
” इति कुल्लूकः ॥
तत्रैव । ६८ -- ७० ।“ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।तामनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।मिथोभजे दाप्रसवात् सकृत् सकृदृतातृतौ ॥
”“आगर्भग्रहणात् सकृद्गमनोपदेशाच्च यस्मैवाग्दत्ता तस्यैवापत्यं भवति ।” इति कुल्लूक-भट्टः ॥
तत्रैव । ७१ ।“न दत्त्वा कस्यचित् कन्यां पुनर्द्दद्याद्बिचक्षणः ।दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥
”तत्रैव । ७९ ।“उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम् ।न त्यागोऽस्ति द्विषन्त्याश्च नच दायापवर्त्तनम् ॥
”तत्रैव । ९७ ।“कन्यायां दत्तशुल्कायां म्रियते यदिशुल्कदः ।देवराय प्रदातव्या यदि कन्यानुमन्यते ॥
”आश्वलायनगृह्यसूत्रम् । ४ । २ । २१ ।तामुत्थापयेत् देवरः पतिस्थानीयः अन्तेवासीजरद्दासः । उदीर्ष्वनार्य्यभि जीवलोकम् ॥
अथ पत्नीमुत्थापयेत् कः देवरः पतिस्थानीयःस पतिस्थानीय इत्युच्यते । अनेन ज्ञायतेपतिकर्त्तृकं कर्म्म पुंसवनादि पत्यसम्भवे देवरःकुर्य्यात् । अन्तेवासी शिष्यः स वा यो बहुकालंदास्यं कृत्वा वृद्धोऽभूत् स वा ॥
* ॥
पराशरः ।४ । २५ -- २६ ।“ज्येष्ठभ्राता यदा तिष्ठेत् आधानं नैव कारयेत् ।अनुज्ञातस्तु कुर्व्वीत शङ्खस्य वचनं यथा ॥
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ।पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥
”पराशरः । १० । २५ -- ३७ ।“वन्दिग्राहेण या भुक्ता हत्वा वद्धाबलाद्-भयात् ।कृत्वा सान्तपनं कृच्छ्रं शुध्येत् पराशरो-ऽब्रवीत् ॥
सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्म्मभिः ।प्राजापत्येन शुद्ध्येत ऋतुप्रस्रवणेन तु ॥
पतत्थर्द्धं शरीरस्य यस्य भार्य्या सुरां पिबेत् ।पतितार्द्धशरीरस्य निष्कृतिर्न विधीयते ॥
गायत्त्रीं जपमानस्तु कृच्छं सान्तपनञ्चरेत् ।गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।जारेण जनयेद्गर्भं गते त्यक्ते मृते पतौ ॥
तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् ।ब्राह्मणी तु यदागच्छेत् परपुंसा समन्विता ॥
सा तु नष्टा विनिर्द्दिष्टा न तस्या गमनं पुनः ।कामान्मोहाद् यदा गच्छेत् त्यक्त्वा बन्धुं सुतान्पतिम् ॥
सा तु नष्टा परे लोके मानुषेषु विशेषतः ।दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ॥
दशाहं न त्यजेन्नारी त्यजेन्नष्टश्रुता तथा ।भर्त्ता चैव चरेत्कृच्छ्रं कृच्छ्रार्द्धं चैव बान्धवाः ॥
तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति ।ब्राह्मणी तु यदागच्छेत् परपुंसा विवर्ज्जिता ॥
गत्वा पुंसां शतं याति त्यजेयुस्तान्तु गोत्रिणः ।पुंसो यदि गृहं गच्छेत् तदशुद्धं गृहं भवेत् ॥
पितृमातृगृहं यस्य जारस्यैव तु तद्गृहम् ।उल्लिख्य तद्गृहं पश्चात् पञ्चगव्येन शुद्ध्यति ॥
”बृहन्नारदीयम् । उद्बाहतत्त्वे ।“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।द्विजानामसवर्णासु कन्यासूपयमस्तथा ॥
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥
दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च ।दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥
महाप्रस्थानगमनं गोमेधञ्च तथा मखम् ।इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ॥
”हेमाद्रिपराशरभाष्ययोरादित्यपुराणम् ।“दीर्घकालं ब्रह्मचर्य्यं घारणञ्च कमण्डलोः ।देवरेण सुतोत्पत्तिर्द्दत्ता कन्या प्रदीयते ॥
कन्यानामसवर्णानां विवाहश्च द्बिजातिभिः ।आततायिद्विजाग्र्याणां धर्म्मयुद्धे निहिंसनम् ॥
वानप्रस्थाश्रमस्यापि प्रवेशो विधिदेशितः ।वृत्तस्वाध्यायसाक्षेपमघसङ्कोचनन्तथा ॥
प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम् ।संसर्गदोषः पापेषु मधुपर्के पशोर्व्वधः ॥
दत्तौरसेतरेषान्तु पुत्त्रत्वेन परिग्रहः ।शूद्रेषु दासगोपालकुलमित्रार्द्धशीरिणाम् ॥
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ।ब्राह्मणादिषु शूद्रस्य पक्वतादिक्रियापि च ॥
भृग्वग्निमरणञ्चैव वृद्धादिमरणं तथा ।एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ॥
निवर्त्तितानि कर्म्माणि व्यवस्थापूर्व्वकं बुधैः ।समयश्चापि साधूनां प्रमाणं वेदवद्भवेत् ॥
”याज्ञवल्क्यः । १ । ६५ ।“सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् ।दत्तामपि हरेत् कन्यां श्रेयांश्चेद्वर आव्रजेत् ॥
”गोतमः ।“प्रतिश्रुत्याप्यधर्म्मसंयुक्ताय न दद्यात् ॥
”वशिष्ठः ।“कुलशीलविहीनस्य षण्डादिपतितस्य च ।अपस्मारिविधर्म्मस्य रोगिणां वेशधारिणाम् ।दत्तामपि हरेत्कन्यां सगोत्रोढां तथैवच ॥
”वशिष्ठः उद्वाहतत्त्वे ।“अद्भिर्व्वाचा प्रदत्तायां म्रियेतोर्द्धं वरो यदि ।नच मन्त्रोपनीता स्यात् कुमारी पितुरेव सा ॥
”उद्वाहतत्त्वे । यमः ।“नोदकेन न वा वाचा कन्यायाः पतिरिष्यते ।पाणिग्रहणसंस्कारात् पतित्वं सप्तमे पदे ॥
”उद्बाहतत्त्वे कात्यायनः ।“अनेकेभ्योऽपि दत्तायामनूढायान्तु तत्र वै ।वरागमश्च सर्व्वेषां दत्तं पूर्व्ववरो हरेत् ॥
”नान्योत्पन्ना प्रजास्तीह नचाप्यन्यपरिग्रहे ।न द्बितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते ॥
व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्दितम् ।शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥
”नारदसंहिता ।“अज्ञातदोषेणोढाया निर्द्दोषा नान्यमाश्रिता ।बन्धुभिः सा नियोक्तव्या निर्ब्बन्धुः स्वयमाश्रयेत् ॥
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ।पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥
अष्टौ वर्षाण्यपेक्षेत ब्राह्मणी प्रोषितं पतिम् ।अप्रसूता च या नारी परतोऽन्यं समाश्रयेत् ॥
क्षत्रिया षट् समास्तिष्ठेत् अप्रसूता समात्रयम् ।वैश्या प्रसूता चत्वारि द्बे वर्षे इतरा वसेत् ॥
न शूद्रायाः सृतः कालः एष प्रोषितयोषि-ताम् ।जीवति श्रूयमाणे तु स्यादेव द्बिगुणो विधिः ॥
अतोऽन्यगमने स्त्रीणां एषु दोषो न विद्यते ॥
”ऋग्वेदे । १० । ४० । २ ।“को वां शयुत्रा विधवेव देवरम् ॥
”“तत्र दृष्टान्तं दर्शयति शयुत्रा शयने विधवेवयथा मृतभर्त्तृका नारी देवरं भर्त्तृभ्रातरं अभि-मुखीकरोति ।” “तथाच यास्कः क्वचिद्रात्रौभवथः क्व दिवा क्वाभिप्राप्तिं कुरुथः क्व वसथःको वां शयने विधवेव देवरं देवरः कस्माद्द्वितीयोवर उच्यते । विधवा विधातृका भवति विधव-नाद्बा विधावनाद्वेति चर्म्मशिरा अपिवा धवइति मनुष्यनाम तद्वियोगाद्विधवा देवरोदीव्यतिकर्म्मा मर्य्यो मनुष्यो मरणधर्म्मा योषायौतेराकुरुते सहस्थाने इति ॥
” इति तद्भाष्येसायणः ॥
एतेन पूर्व्वोल्लिखितप्रमाणपर्य्यालोचनेन एतत्प्रतीयते यत् विधवाया विवाहो नास्ति किन्तुदेवरादिना नियोगोऽस्ति । सोऽपि कलौ क्षेत्र-जादिपुत्त्रवत् नास्त्येव । नष्टेमृते इत्यादि वचनेअन्यवचनैरेकवाक्यतया पतिशब्दस्य पालका-र्थत्वं वाग्दानपत्यर्थत्वं वा दत्तामपि हरेत्कन्या-मित्यादिवचने दत्ताशब्दस्य वाग्दत्तापरार्थत्वञ्चएतच्च सर्व्वं सुधीभिर्भाव्यमिति ॥
)
वाचस्पत्यम्
Sanskritविधवा स्त्री विगतो धवो यस्याः । मृतपतिकायां स्त्रियाम्अमरः ।विधवाधर्माश्च शु० त० उक्ता यथा विष्णुस० “मृते भर्तरिब्रह्मचर्य्यं तदन्वारोहणं वा” । ब्रह्मचर्य्यं मैथुनवर्जनंताम्बूलादिवर्जनञ्च यथाह प्रचेताः “ताम्बूलाभ्यञ्जनं चैवकांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवाच विवर्जयेत्” । कभ्यञ्जनमायुर्वेदोक्तम्” रघु० । का-शीख० विस्तरेण ४ अ० उक्ता यथा“अनुयाति न भर्त्तारं यदि दैवात् कदाचन । तथापिशीलं संरक्ष्यं शीलभङ्गात् पतत्यधः । तद्वैगुण्यादपिस्वर्गात् पतिः पतति नान्यथा । तस्याः पिता च माताच भ्रातृवर्गस्तथैव च । पत्यौ मृते च या योषिद्वै-धव्यं पालयेत् क्वचित् । सा पुनः प्राप्य भर्त्तारंस्वर्गभोगान् समश्नुते । विधवाकवरीबन्धो भर्तृबन्धायजायते । शिरसो वपनं तस्मात् कार्य्यं विधवया सदा ।एकाहारः सदा कार्य्यो न द्वितीयः कदाचन । त्रिरात्रंपञ्चरात्रं वा पक्षव्रतमथापि वा । मासोपवासं कुर्य्याद्वा चान्द्रायणमथापि वा । कृच्छ्रं पराकं वा कुर्य्यात्तप्तकृच्छ्रमथापि वा । यवान्नैर्वा फलाहारैः शाका-हारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत् प्राणःस्वयं व्रजेत् । पर्य्यङ्कशायिनी नारी विधवा पातयेत्पतिम् । तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया ।नैवाङ्गोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् । गन्ध-द्रव्यस्य सम्भोगोनैव कार्य्यस्तया पुनः । प्रत्यहं तर्पणंकार्य्यं भर्तुः कुशतिलोदकैः । तत्पितुस्तत्पितुश्चापिनामगोत्रादिपूर्वकम् । विष्णोस्तु पूजनं कार्य्यं पति-सुद्ध्या न चान्यथा । पतिमेव सदा ध्यायेद्विष्णुरूपधरंपरम् । यद् यदिष्टतमं लोके यच्च पत्युः समीहितम् ।तत्तद्गुणवते देयं पतिप्रीणनकाम्यया । वैशाखे कार्त्तिकेमाघे विशेषनियमांश्चरेत् । स्नानं दानं तीर्थयात्रांविष्णोर्नामग्रहं मुहुः । वैशाखे जलकुम्भांश्च कार्त्तिकेवृतदीपकाः । माघे तिलेन्धनोत्सर्गः स्वर्गलोके मही-यते । प्रपा कार्य्या च वैशाखे देवे देया गलन्तिका ।उपानद्व्यजनं चापि सूक्ष्मवासांसि चन्दनम् । स-कर्पूरन्तु ताम्बूलं पुष्पदानं तथैव च । जलपात्राण्यने-कानि तथा पुष्पगृहाणि च । पानानि च विचित्राणिद्राक्षारम्भाफलानि च । देयानि द्विजमुख्येभ्यः पतिर्मेप्रीयतामिति । ऊर्जे यवागूमश्नीयाटेकान्नमथ वा पुनः ।वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत् । कार्त्तिकेवर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु । कार्त्तिके वर्जयेत् कांस्यंकार्त्तिके चापि सन्धितम् । कार्त्तिके मौननियमे घण्टांचारुं प्रदापयेत् । पत्रभोजी कांस्यपात्रं घृतं पूर्णं प्र-यच्छति । भूमिशव्याव्रते देया शय्या श्लक्ष्णा सतूलिका ।फलत्यागे फलं देयं रसत्यागे च तद्रसः । धान्यत्यागे चतद्धान्यमथ वा शालयः स्मृताः । धेनुं दद्यात् प्रयत्नेनसालङ्कारां सकाञ्चनाम् । एकतः सर्वदानानि दीप-दानं तथैकतः । कार्त्तिके दीपदानस्य कलां नार्हन्तिषोडशीम् । किञ्चिदभ्युदिते सूर्य्ये माघस्नानं समाचरेत् ।यथाशक्त्या च नियमान्माघे स्नानं समाचरेत् । पक्वा-न्नैर्भोजयेद्विप्रान् यतीनपि तपस्विनः । लड्डुकैःफाणितैश्चापि वटकेण्डरिकादिभिः । घृतपक्वंः सम-रिचैः शुचिकर्पूरवासितैः । गर्भे शर्करया पूर्णैर्नेत्रा-नन्दैः सुगन्धिभिः । शुष्केन्धनानां भारांश्च दद्याच्छीताप-नुत्तये । कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम् । म-ञ्जिष्ठारूपवासांसि तथा तूलवतीं पटीम् । ऊर्णामयानिवासांसि यतिभ्योऽपि प्रदापयेत् । जातीफललवङ्गैश्चताम्बूलानि वहून्यपि । कम्बलानि च चित्राणि नि-र्वातानि गृहाणि च । मृदुलाः पादरक्षाश्च सुगन्ध्यु-द्वर्त्तनानि च । घृतकम्बलपूजाभिर्महास्नानपुरःसरम् ।संस्नाप्य शाम्भवं लिङ्गं पूजयेद् दृढभक्तितः । कृष्णा-गुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः । तूलवर्त्तिप्रदीपैश्च नै-येद्यैर्विविधैस्तथा । भर्तृस्वरूपो भगवान् प्रीयतामितिचोच्चरेत् । एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः । वै-शाखान् कार्त्तिकान् माघानेवमेवातिवाहयेत् । नाधि-रोहेदनड्वाहं प्राणैः कण्ठगतैरपि । कञ्चुकं न परी-दध्याद्वासो न विकृत वसेत् । अपृष्ट्वातु सुतान् कि-ञ्चिन्न कुर्य्याद् भर्तृतत्परा । एवं चर्य्यापरा नित्यं वि-धवापि शुभा मता । इति धर्मसमायुक्ता विधवापि पति-व्रता । पतिलोकानवाप्नोति न भवेत् क्वापि दुःखिता” ।व्रह्मवै० ज० ख० ८३ अ० अश्चिद्विशेष उक्तो यथा“ब्राह्मणी पतिहीना या भयेन्निष्क्रामणी सदा । एक-भक्ता दिनान्ते सा हविष्यान्नरता सदा । न धत्ते दिव्य-वस्त्रञ्च गन्धद्रव्यं सुतिलकम् । स्रजञ्च चन्दनं चैव शङ्खंसिन्दूरभूषणम् । त्यक्त्वा मलिनवस्त्रा स्यात् नित्यं नारा-यणं स्मरेत्” । “पुत्रतुल्यञ्च पुरुषं सदा पश्यति धर्मतः ।मिष्टान्न न च भुङ्क्ते मा न कुर्य्याद्विभव व्रजम् । एका-दश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने । श्रीरामस्यनवम्याञ्च शिवरात्रौ पावित्रया । अधोरायाञ्च प्रेतायांचन्द्रसूर्य्योपरागयोः । भृष्टद्रव्यं परित्याज्यं भुज्यते पर-मेव च । ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारि-चाम् । सन्यासिनां च गोमाससुरातुल्यं श्रुतौ श्रुतम् ।रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च । अलाबूर्वर्तुला-कारा वर्जनीया यतेरपि । पर्य्यङ्कशायिनी नारी विधवापातयेत् पतिम् । यानस्यारोहणं कृत्वा विधवा नरकंव्रजेत् । न कुर्य्यात् केशसंस्कार गात्रमस्कारमेव च ।कशाषली जटारूपा न क्षौरं तीर्थकं विना । तैलाभ्यङ्गंन कुर्वीत न हि पश्यति दर्पणम् । मुखञ्च परपुंसां चयात्रा नृत्यं महोत्सवम् । नर्त्तकं गायकञ्चैव सुवेशंपुरुषं शुभम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
