| YouTube Channel

विद्याधनं (vidyAdhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
विद्याधनं,
क्ली,
विद्यया अर्ज्जितधनम् यथा ।विद्याधनमाह कात्यायनः ।“उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्व्वकम् ।विद्याधनन्तु तद्विद्यात् विभागे नियोजयेत्
शिष्यादार्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् ।स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनात्तु यत्
विद्याधनन्तु तत् प्राहुर्विभागे प्रयोजयेत् ।शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकंभवेत्
परं निरस्य यल्लब्धं विद्यया द्यूतपूर्व्वकम् ।विद्याधनन्तु तद्बिद्यात् विभाज्यं बृहस्पतिः
”यदि भवान् भद्रमुपन्यस्यति तदा भवत एवमयैतद्देयमिति पणितं यत्रोपन्यासं निस्तीर्य्यलभते तन्न विभाज्यम् शिष्यादध्यापितात्आर्त्विज्यतः यजमानाद्दक्षिणया लब्धं धनं नप्रतिग्रहलब्धं वेतनरूपत्वात्तस्य तथा यत्कि-ञ्चिद्बिद्याप्रश्ने निस्तीर्णेऽपणितं यदि कश्चित्परितोषाद्ददाति तथा यो ह्यस्मिन् शास्त्रार्थेअस्माकं संशयमपनयति तस्मै धनमिदं ददा-मीत्युपस्थितस्य संशयमपनीय यल्लब्धम् तथावादिनोर्व्वादसन्देहे न्यायकरणार्थमागतयोःसम्यङ्निरूपणे यल्लब्धं षष्ठांशादिकम् तथाशास्त्रादिप्रकृष्टज्ञानं सम्भाव्य यत् प्रतिग्रहा-दिना लब्धम् तथा शास्त्रज्ञानविवादे अन्य-त्रापि यत्र कुत्रचिदन्योऽन्यज्ञानविवादे निर्ज्जित्ययल्लब्धम् तथैकस्मिन् देये बहूनामुपप्लवे येनप्रहृष्टात् यल्लब्धम् तथा शिल्पादिविद्ययाचित्रकरसुवर्णकारादिभिर्यल्लब्धम् तथा द्यूते-नापि परं निर्ज्जित्य यल्लब्धं तत् सर्व्वमविभाज्य-मितरैः तस्माद्यया कयाचित् विद्यया लब्ध-मर्ज्जकस्यैव तन्न इतरेषामिति प्रदर्शनार्थन्तुकात्यायनेन विस्तारितमिति दायभागः
नारदः ।“कुटुम्बं विभृयाद्भ्रातुर्यो विद्यामधिगच्छतः ।भागं विद्याधनात्तस्मात् लभेताश्रुतोऽपिसन्
”चिभृयादित्येकवचननिर्द्देशान्न बहवः यदिविद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्रातास्वधनव्ययशरीरायासाभ्यां संवर्द्धयति तदातद्विद्यार्ज्जितधने तस्याधिकारः अश्रुतो मूर्खः ।कल्पतरुमिताक्षरादीपकलिकासु कात्यायनः ।“परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।तया लब्धं धनं यत्तु विद्यालब्धं तदुच्यते
”अन्यतः पितृमातृकुलव्यतिरिक्तात् अत्रविशेषयति एव ।“नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् ।समविद्याधिकानान्तु देयं वैद्येन तद्धनम्
”तत्रोच्चरितविद्यापदमुभाभ्यां सम्बध्यते तेनसमविद्याधिकविद्यानां भागो तु न्यूनविद्या-विद्ययोः वैद्येन विदुषा पुनर्विशेषयति ।“कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्बृहस्पतिः
”कुले स्वकुले पितामहपितृव्यादिभ्यः पितृत एववा शिक्षितविद्यानां भ्रातॄणां यद्बिद्याशौर्य्यप्राप्तंधनं तद्विभजनीयमिति कल्पतरुरत्नाकरौ ।इति दायतत्त्वम्