| YouTube Channel

विद्धः (viddhaH)

 
Wordnet
Sanskrit
Synonyms:
क्षतिमत्, क्षतः, परिक्षतः, क्षती, निविद्धः, व्रणितः, विद्धः, अनुविद्धः, अभिविद्धः, प्रतिविद्धः, अभिघातितः, अभ्याहतः, निर्विद्धः, अरुष्कृतः, अरुः, आतृण्णः, आविद्धः, आह्रुतः, रिष्टः, रिष्टदेहः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, समर्ण्णः, सव्याहृतिव्रणः
noun
सः यस्य शरीरे का अपि क्षतिः वर्तते।
"क्षतिमतः सत्वरं चिकित्सालये प्रवेशिताः।"
शब्दकल्पद्रुमः
Sanskrit
विद्धः, त्रि, (विध्यते स्मति व्यध + क्तः ।)छिद्रितः इत्यमरः
क्षिप्तः सदृशः ।वाधितः इति मेदिनी धे, १६
(यथा, मार्कण्डेये ५० ७० ।“तरुगुल्मादिभिर्द्वारं विद्धं यस्य वेश्मनः ।मर्म्मभेदोऽथवा पुंसस्तत् श्रेयो भवनं ते
”)ताडितः इत्यजयपालः
(यथा, विष्णुसंहि-तायाम् २० ४४ ।“नाकाले म्रियते कश्चित् विद्धः शरशतरपि ।कुशाग्रेणापि संस्पृष्टः प्राप्तकालो जीवति
”)