| YouTube Channel

विडङ्गं (viDaGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
विडङ्गं, क्ली
पुं,
(विड आक्रोशे + “विडादिभ्यःकित् ।” उणा० १२० इति अङ्गच् ।सच कित् ।) स्वनामख्यातौषधम् (यथा, बृहत्संहितायाम् ५५ ।“घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।आमूलस्कन्धलिप्तानां सङ्क्रामणविरोपणम्
”)तत्पर्य्यायः वेल्लम् अमोघा चित्रतण्डुला ४तण्डुलः क्रिमिघ्नः इत्यमरः
रसायनः ७पावकः भस्मकम् इति जटाधरः ।वैलुः १० मोघा ११ तण्डुलुः १२ इति शब्द-रत्नावली
जन्तुघ्नम् १३ चित्रतण्डुलम् १४क्रिमिघ्नम् १५ क्रिमिशत्रुः १६ गर्द्दभम् १७कैवलम् १८ इति रत्नमाला
विडङ्गा १९कृमिहा २० चित्रा २१ तण्डुला २२ तण्डुली-यका २३ वातारितण्डुला २४ जन्तुघ्नी २५मृगगामिनी २६ कैराली २७ गह्वरा २८कापाली २९ वरासुः ३० चित्रबीजा ३१ जन्तु-हन्त्री ३२ अस्य गुणाः कटुत्वम् उष्णत्वम् ।लघुत्वम् वातकफार्त्त्यग्निमान्द्यारुचिभ्रान्ति-कृमिदोषविनाशित्वञ्च इति राजनिर्घण्टः
ईषत्तिक्तत्वम् क्रिमिविषनाशित्वञ्च इतिराजवल्लभः
“विडङ्गं कटु तीक्ष्णोष्टं रूक्षं वह्निकरं लघु ।शूलाध्मानोदरश्लेष्मक्रिमिवातविबन्धनुत्
”इति भावप्रकाशः