| YouTube Channel

विडं (viDaM)

 
Apte 1890
English
विडं A kind of artificial salt.
शब्दकल्पद्रुमः
Sanskrit
विडं,
क्ली,
(विड आक्रोशे + इगुपधेति कः ।)लवणविशेषः विट्लुण इति भाषा
यथा, --“पाक्यं विडञ्च कृतके द्वयम् ।” इत्यमरः
द्बे समुद्रतीरासन्नभवां लवणमृत्तिकां पाचयित्वानिष्पादिते लवणे विट्लवणे इति केचित् ।कृतके कृत्रिमे पाक्यविड्लवणयोर्भेदेऽपि कृत-कत्वात् ऐक्यमिति स्वामी
पच्यते इति पाक्यम् ।डु पच ञषौ पाके हसृय्वासोरितिघ्यण् चजोर्घि-तीति कः पाकेन निष्पादितमिति ष्ण्यो वा ।वेडति भिनत्ति विडं विडाक्रुशि इजुङत्वात्कः इति भरतः
तत्पर्य्यायः विड्गन्धम् २काललवणम् विड्लवणम् इति रत्न-माला
द्राविडकम् खण्डम् कृतकम् ७क्षारम् आसुरम् सुपाक्यम् १० खण्ड-लवणम् ११ धूर्त्तम् १२ कृत्रिमकम् १३ अस्यगुणाः उष्णत्वम् दीपनत्वम् रुच्यत्वम् ।वाताजीर्णशूलगुल्ममेहनाशित्वश्च इति राज-निर्घण्टः
अपि ।“विडं सक्षारमूर्द्ध्वाधः कफं वातानुलोमनम्
ऊर्द्ध्वं कफमधो वातं सञ्चारयेदित्यर्थः ।दीपनं लधु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि ।विबन्धानाहविष्टम्भकृदगौरवशूलनुत्
”इति भावप्रकाशः
अन्यच्च ।“विडं लवणमुत्क्लेदि वह्नेर्बलविवर्द्धनम् ।मलवातामविष्टम्भशूलाटोपविबन्धनुत्
”इति राजवल्लभः